#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00129 Uniform title: śaktisaṃgamatantra sundarīkhanda Editor : baṭṭācārya b Description: Transcribed from śaktisaṃgamatantra critically edited by Benoytosh Bhattacharyya, In three Volumes Vol. III tārākhanda Gwaekads Oriental Series 1947 Notes: Transcribed by the staff of Muktabodha under the direction of Mark Dyczkowski. Revision 0: Sept. 22, 2008 Publisher : Gwaekads Oriental Series Publication year : 1947 Publication city : Publication country : India #################################################### शक्तिसङ्गमतन्त्रम् | तृतीयो भागः | सुन्दरीखण्डः || श्रीगुरुभ्यो नमः || || श्रीशक्तिसङ्गमतन्त्रम् || सुन्दरीखण्डः || ३ || प्रथमः पटलः | श्रीदेव्युवाच | देवदेव महादेव भक्तानुग्रहकारक | अनाद्यन्त पराकाश तमीडे निर्गुणं विभुम् || १-१ || यत्प्रसादान्मया नाथ ज्ञातमागमशासनम् | कालान्तरे समायाते पुनः पृष्टं मया विभो || १-२ || पूर्णाभिषेकदीक्षा तु कथं भेदत्वमागता | श्रीशिव उवाच | आदौ बाला महादेवि सर्वाद्या परिकीर्त्तिता || १-३ || यां विना पञ्चदश्यां वै नाधिकारः कथञ्चन | अक्षरे कूटत्रितयं कलियोग्यपरं प्रिये || १-४ || अन्योच्चारादधर्मत्वाद्भ्रष्टत्वान्न हि सिध्यति | बालया मुखशुद्धित्वं ततो विद्याधिकारिता || १-५ || विद्याधिकारे संपन्ने षोडश्यामधिकारिता | षोडश्यधिकृतायां तु सर्वत्राप्यधिकारिता || १-६ || पंचदश्यां ततो न्यासः पंचदश्या विधौ शिवे | दशधा मातृकां न्यस्य विद्यान्यासं तथैव च || १-७ || लघुषोढां महाषोढां षोढां बाह्यांतरे तथा | चक्रन्यासं पुनः कृत्वा शक्तिन्यासं समाचरेत् || १-८ || प्. २) शक्तिन्यासपरो मंत्री देवरूपो न संशयः | ततः पराधिकारी स्यात्तन्न्यासात्तदनन्तरम् || १-९ || पराप्रासादिके न्यासे अधिकारस्तदुत्तरम् | प्रासादपरया चाथ ततश्चरणदीक्षणम् || १-१० || निर्वाणचरणाद्यां वै ततः शाम्भव एव तु | निर्वाणचरणाख्यं वै शाम्भवोत्तरमीरितम् || १-११ || बालायामधिकारी चेद्बालोक्तान्विन्यसेद्बुधः | पंचदश्यधिकारी चेत्पंचदश्यधिकं चरेत् || १-१२ || विद्यान्यासोत्तरं देवि उत्कीलनमथाचरेत् | दीपिनीन्यसनं कृत्वा ततः कुल्लुकचिन्तनम् || १-१३ || षोडशीदीक्षायुक्तश्चेत् महाषोढादिकं चरेत् | परादीक्षणयुक्तश्चेत् षडधारादिकान् न्यसेत् || १-१४ || पराप्रासादयुक्तश्चेत्तत्तन्न्यासान् समाचरेत् | प्रासादपरायुक्तश्चेत्तानेव विन्यसेद्बुधः || १-१५ || चतुश्चरणदीक्षा तु पराप्रासादगोचरा | उभयोर्नहि भेदोऽस्ति किंचिद्भेदोऽस्ति पार्वति || १-१६ || ततः शाम्भवदीक्षा स्यात् पूजा श्रीचक्रगोचरा | सर्वेषां पूजनं कार्ययं न्यसनं वा विधीयते || १-१७ || प्रथमं न्यसनं प्रोक्तं ततः पूजा प्रकीर्त्तिता | श्रीचक्रे पूजनं कार्ययं सर्वेषां प्रियवादिनि || १-१८ || षडाम्नायस्थले देवि षट्शाम्भवमथाचरेत् | षण्णां स्थानं विधायाथ संवर्तेशमथार्चयेत् || १-१९ || सर्वेषां पूजनं कृत्वा चाथ वै कलशं तथा | पूजयेद्यत्नतो देवि सर्वसिद्धिमभीप्सुभिः || १-२० || सर्वदीक्षासमायुक्तः सर्वन्यासान् समाचरेत् | षोडशीं तु विना देवि नान्यत्र ह्यधि कारिता || १-२१ || पराप्रासाददीक्षाद्याः षोडश्युत्तरगाः कियाः | तत्तत्तन्त्रोक्तविधिना तत्तद्दीक्षादिभिर्युतः || १-२२ || तत्तत्कर्म प्रकुर्वीत नान्यथा शांकरं वचः | या चरणदीक्षा संप्रोक्ता परा सैव प्रकीर्त्तिता || १-२३ || प्. ३) श्रीविद्यां तु विहायाथ नाधिकारत्वमिष्यते | श्रीविद्यायां तुं संपूर्णः सर्वमार्गी भवेत् प्रिये || १-२४ || श्रीचक्रलेखनं कृत्वा त्रिकोणं बिन्दुमध्यगम् | ततो वृत्तं समालिख्य चतुर्दलमनन्तरम् || १-२५ || चतुःपंचारमालिख्य चतुरस्रात्मकं ततः | षट्त्रिंशत्तत्त्वरूपं तु विग्रहं विलिखेत्ततः || १-२६ || एवं तु विग्रहं भाव्यं भावनैव तु लेखनम् | प्रासादपूर्वा तु परा प्रोक्ता श्रीतत्त्वविग्रहा || १-२७ || श्रीमहाषोडशी विद्या मंत्रविग्रहरूपिणी | वृत्तस्य परितो देवि पारंपर्ययक्रमं यजेत् || १-२८ || पराप्रासादविद्यायाः क्रमः प्रोक्तो महेश्वरि | मुख्यं क्रमं प्रवक्ष्यामि शृणु यत्नेन सांप्रतम् || १-२९ || बिन्दूपरि विभाव्याथ ततो ह्यष्टदलं शुभम् | षट्त्रिंशद्दलसंख्याकं कमलं तु ततो लिखेत् || १-३० || अष्टत्रिंशद्दलं चैव तद्बहिर्विलिखेच्छिवे | कमलं भुवनाख्यं तु तद्बहिर्विलिखेच्छिवे || १-३१ || पंचाशद्दलसंख्याकं चन्द्रसंख्यासमन्वितम् | एवं विलिख्य विधिवत् तत्र ध्यायेत् पराम्बिकाम् || १-३२ || एवं पूर्वं विभाव्याऽथ षट्त्रिंशत्तत्त्वविग्रहाम् | पराप्रासादविद्यां तु सट्त्रिंशत्तत्त्वविग्रहाम् || १-३३ || शाम्भवे लेखनं यंत्रं तत्र वै भावना मता | बाह्यतः पूजनं कृत्वा ततो ध्यात्वा पराम्बिकाम् || १-३४ || अधिकारे समापन्ने परापूजादिके विधौ | षट्शाम्भवे महेशानि ह्यधिकारस्ततो भवेत् || १-३५ || षट्शाम्भवो महेशानि सर्वोत्तर इतीरितः | षोडश्युत्तरगा दीक्षा कार्यया वा त्वियमेव वा || १-३६ || एवं दीक्षादिभिर्युक्तैः किं जप्यं परमेश्वरि | भक्तिर्यस्य यत्र भवेत्तेन जप्यं तदेव तु || १-३७ || संप्रदायानुसारेण भक्तियोगवशेन तु | षोडशी शक्तिदीक्षा स्याद्द्वितीयमुच्यते शृणु || १-३८ || प्. ४) पराप्रासादविद्या तु शिवशक्तिमयी परा | अर्द्धनारीश्वरः प्रोक्तः सर्वतन्त्रेषु गोपितः || १-३९ || इत्येतदुक्तं देवेशि किमन्यत् श्रोतुमिच्छसि | श्रीशिव उवाच | किं जप्यमिति शंका ते या जाता परमेश्वरि || १-४० || सैवोच्यते महेशानि शृणु यत्नेन सांप्रतम् | श्रीचक्रे सर्वदेवानां निवेशनमुदीरितम् || १-४१ || महाश्रीचक्रराज्ञीयं महाश्रीषोडशी परा | पराप्रासादविद्या तु महाश्रीचक्रनायिका || १-४२ || ऊर्ध्वाम्नायादिदीक्षा तु पराप्रासादगोचरा | पराप्रासादविद्यायाः श्रीचक्रे विनिवेशनम् || १-४३ || षट्शाम्भवेशविद्यायाः श्रीचक्रे विनिवेशनम् | बिन्दुचक्रे महेशानि पूजनं शृणु सादरम् || १-४४ || बिन्दुचक्रे तु नैर्-ऋत्यां मानसं पूजयेच्छिवे | बिन्दुवायव्यतो देवि नात्र सम्पूजयेच्छिवे || १-४५ || बिन्दुचक्रस्य पूर्वे वै मारुतं पूजयेत् प्रिये | बिन्दुचक्रस्य चाग्नेययां तैजसं पूजयेच्छिवे || १-४६ || बिन्दुचक्रस्य वारुण्यामाप्यं शाम्भवमर्चयेत् | बिन्दुचक्रस्य चैशान्यां पार्थिवं पूजयेत्ततः || १-४७ || सरश्मिकान् समभ्यर्च्य यथोक्तेन तु वर्त्मना | षट्त्रिंशच्चक्रगे देहे न्यसनं कारयेत् प्रिये || १-४८ || इत्येतत् कथितं देवि ह्यथवा नवमण्डले | नवात्मकं मंडलं वै मुख्यमेव प्रकीर्त्तितम् || १-४९ || नवचक्रात्मकं देवि महासंवर्त्तकेश्वरम् | पूजयेद्यत्नतो देवि प्रोक्तं संक्षेपतः प्रिये || १-५० || प्रातःकृत्यादि सध्यानपूजनादि क्रियादिकम् | श्रीमत्पञ्चकतंत्रेषु विस्तरेण प्रकाशितम् || १-५१ || षट्शाम्भवाख्यं यंत्रं तु नवात्मकमितीरितम् | तस्मिन् यंत्रे मुख्यपूजा कथिता परमेश्वरि || १-५२ || पंचप्रेतास्तु श्रीचक्रे षट्प्रेताः शाम्भवे मताः | सप्तप्रेता गुह्यकाल्यां कथ्यन्ते शृणु सांप्रतम् || १-५३ || प्. ५) हिरण्यगर्भ इत्याख्यः शाम्भवे परिकीर्त्तितः | इन्द्रभैरवनामानौ गुह्यकाल्यामितीरितौ || १-५४ || संघट्टनाख्या मुद्रा वै त्रिविधा परिकीर्त्तिता | करद्वयं तु संयोज्य ह्यधोवक्त्रं सुलक्षणम् || १-५५ || नखे नखान् सुसंयोज्य पंचांगुल्यो ह्यधो भवेत् | करावित्थं सुसंयोज्य मुद्रा संघट्टनाभिधा || १-५६ || पूर्वमुद्रां सुसंयोज्य कनिष्ठे विरलीकृते | संघट्टनाख्या मुद्रा तु द्वितीया परिकीर्त्तिता || १-५७ || अत्रापि पक्षद्वितयं कनिष्ठे भिन्नयोजिते | तृतीया जायते मुद्रा चतुर्थी सर्वतोत्तमा || १-५८ || अंगुष्ठानामिकामध्ये योन्याकारेण योजयेत् | कृत्वा करद्वयस्यैवं ह्यधोवक्त्रं सुशोभनम् || १-५९ || तर्ज्जन्यां तर्ज्जनी योज्या कनिष्ठायां कनिष्ठिका | तर्जनी द्वे कनिष्ठे द्वे चाग्रतोर्द्ध्वं नियोजयेत् || १-६० || संघट्टनाख्या मुद्रेयं जपान्ते सर्वसिद्धिदा | चतुश्चरणविद्यायां षट्शाम्भवविधावपि || १-६१ || मुख्या प्रोक्ता महादेवि दर्शयेत् यत्नतः शिवे | इत्येतद्गदितं देवि किमन्यत् श्रोतुमिच्छसि || १-६२ || श्रीशिव उवाच | अथातः संप्रवक्ष्यामि पारंपर्ययक्रमं शिवे | पूर्णदीक्षापरत्वेन विविच्य कथयामि ते || १-६३ || साक्षात् परशिवेनादौ शंकरस्तु प्रबोधितः | चतुर्भिः सह शिष्यैस्तु शङ्करोऽवतरिष्यति || १-६४ || शिवेन बोधिता देवी देव्या सर्वे प्रबोधिताः | ब्रह्मविष्णुशिवाश्चैव ईश्वरेण प्रबोधिताः || १-६५ || शिवपारंपर्ययगतो गुरुः शिवपरंपरा | देवीपरंपरा देवि काल्युपदेशवर्त्मना || १-६६ || अत्रापि शक्तिबाहुल्यं मतसंख्या न विद्यते | अथानन्दभैरवात्तु देवीमतपरंपरा || १-६७ || प्. ६) पूर्वोक्तं त्रितयं देवि कामराजे तु भिन्नतः | आनन्दभैरवमते पंचाशीतिमतक्रमः || १-६८ || शिवपारंपर्ययदीक्षा दक्षिणामूर्त्तितः प्रिये | सर्वत्र पारंपर्ययत्वं त्वथ मध्यां शृणु प्रिये || १-६९ || दिव्याद्यौघत्रयोद्युक्ताः शैवे गाणपचोदिताः | अत्रापि मतबाहुल्यं मया वक्तुं न शक्यते || १-७० || तंत्रे च दिव्यसिद्धौघौ मानवौघस्तृतीयकः | सुन्दर्ययां श्रीमहाकाल्यां तारायां कालिकामनौ || १-७१ || पंचदश्यां लोपिकायां मन्वगस्तिकमंत्रके | परायां शैवयुक्तायामाद्यन्तव्युत्क्रमादिके || १-७२ || षट्शाम्भवे महेशानि औघत्रयमुदीरितम् | सर्वमौघत्रयं प्रोक्तं किमितः श्रोतुमिच्छसि || १-७३ || औघात्परंपरा प्रोक्ता दिव्यसिद्धात्मका प्रिये | शिवादौघाः समुद्भूतास्त्वौघपूजापरंपरा || १-७४ || दक्षमूर्त्या गाणपिकं तथैव [बटुकादिकम्] | अथानन्दभैरवादि तत्सर्वमौघमध्यगम् || १-७५ || प्रबभूवुः संप्रदायः ह्येते च परिकीर्त्तिताः | आनन्दभैरवे देवि कोटिभेदाः प्रकीर्त्तिताः || १-७६ || आनन्दभैरवाद्या वै हाद्ये चान्तर्गताः प्रिये | मार्गप्रवर्तकत्वात्तु मुख्यत्वं परिकीर्त्तितम् || १-७७ || तस्मादृषित्वतां प्राप्ता विरूपाक्षादयः प्रिये | सरस्वती लेखनी तु गणेशो लेखको मतः || १-७८ || मतं परशिवस्येदं वक्ता देवो महेश्वरः | पृथ्वी पत्री महादेवि नाथाः शास्त्रस्य बन्धकाः || १-७९ || ब्रह्मास्त्राद्याः शास्त्रपाश्च शरभाद्यास्तु रक्षकाः | औघाः प्रवर्त्तका लोके ते पूज्याः सर्वथैव तु || १-८० || पारंपर्ययात्क्रमगता भिन्नभिन्नाः प्रकीर्त्तिताः | दिव्या देवान्तिके नित्यं सिद्धा भूमाविहावपि || १-८१ || मानवौघा मनुष्येषु औघत्रयमुदीरितम् | शिवात् स्वगुरुपर्यंतं ज्ञानं पूजामनुत्तमाम् || १-८२ || प्. ७) देवीतः स्वस्वगुर्वन्तं ज्ञानं पूजा परा मता | अथानन्दभैरवाख्यं स्वगुर्वंतगतं प्रिये || १-८३ || इयमेका महादेवि दक्षिणामूर्त्तिसंमता | शृणु यत्नेन देवेशि तत्त्वं स्वगुर्वन्तं प्रिये || १-८४ || पूजा प्रोक्ता तूत्तमा तु त्वौघात् गुर्वन्तकं शृणु | औघाद् गुर्वन्तकं देवि ज्ञानं पूजा प्रकीर्त्तिता || १-८५ || मुख्यं ज्ञानमिदं प्रोक्तं कलौ कुत्रापि तिष्ठति | देवि पूर्वचतुष्कं तु त्रेतासत्ययुगे मतम् || १-८६ || सर्वाभावे महेशानि परमेष्ठ्यन्तकं मतम् | चतुष्कं त्वथवा ज्ञेयं नान्यथा सिद्धिरोधकृत् || १-८७ || देव्याः स्वगुरुपर्ययन्तमुपदेशपरंपरा | तथा देवेशि सर्वत्र भैरवाद्यं प्रकीर्त्तितम् || १-८८ || दक्षिणामूर्त्तिपादे तु स्वगुर्वंतं प्रपूजयेत् | एकविंशत्तमं ज्ञानं गुर्वाख्यं क्रियतां लघु || १-८९ || गुरुबाहुल्यभेदास्तु त्वानंदभैरवे बहु | एतज्ज्ञानं विना देवि पापभागी भवेन्नरः || १-९० || स्त्रीणां दीक्षा कथं देया तत्र स्त्रीत्वं कथं भवेत् | देवीपरंपरोद्दिष्टस्तूपदेशो यदा भवेत् || १-९१ || तदा स्वकीयां सन्दीक्ष्य पुण्यभागी नरो भवेत् | सन्न्यासीनां तु दीक्षा तु दक्षिणामूर्त्तिसंमते || १-९२ || शिवे चानन्ददेवेषु सर्वत्र दीक्षणं चरेत् | शैवे शिवान्तकं नाम विष्णवे तु तदन्तकम् || १-९३ || शाक्ते तु शक्तिगुरवस्तत्र भेदा भवन्ति हि | सौरे सौरं गाणपत्ये बौद्धे धर्मान्तिकं भवेत् || १-९४ || एवं पाशुपताद्येषु तत्र दीक्षोक्तनाम तु | कार्यं तु यत्नतो देवि इत्येवं कालिकाऽब्रवीत् || १-९५ || अथवा दक्षिणामूर्त्तिं पूजयित्वा महेश्वरि | तत्सकाशात्प्रदेया स्यात् स्त्रीणां दीक्षा तु सा मता || १-९६ || यदि स्त्रीणां बाधिका तु कर्मणः स्यात्तदा कथम् | पुत्रद्वारा पोषणीयः पुत्रो नास्ति यदा शिवे || १-९७ || प्. ८) पूर्वं कार्या साक्षरे वै ततः सन्दीक्षयेत्तु ताम् | अथान्यत् संप्रवक्ष्यामि पूर्वोक्तं तच्छृणु प्रिये || १-९८ || कलौ युगे तु संप्राप्ते करिष्यन्ति न केचन | उपविद्यां समासाद्य जपिष्यंति नराधमाः || १-९९ || न ते सिद्धिं प्राप्नुवंति ते सर्वे दुःखभागिनः | तेषां निन्दा कलौ देवि भविष्यति न संशयः || १-१०० || काली तारा छिन्नमस्ता सुन्दरी बगलामुखी | मातंगी भुवना लक्ष्मीर्धूम्रा त्रिपुरभैरवी || १-१० १ || एता एव महाविद्या सिद्धविद्या युगान्तरात् | विद्यात्वं तु महादेवि तत्तद्युगवशेन तु || १-१०२ || गुरुसंततिहीनत्वादुपविद्याप्रयोजनात् | दुराचारान्निन्दनाच्च न ते वै सिद्धिभागिनः || १-१०३ || काली तारा छिन्नमस्तासुन्दरी त्वेकरूपिणी | अन्याऽपि च महादेवि एकरूपा न संशयः || १-१०४ || उपविद्यादिकं चैव दशविद्यामुपाचरेत् | सर्वस्वहरणं कृत्वा योगिन्यो भक्षयन्ति तम् || १-१०५ || अथान्यत्संप्रवक्ष्यामि मतभेदादिवर्णनम् | कालीं तारां महाविद्यां दीपिनीं कुलसुन्दरीम् || १-१०६ || सर्वकालं जपेद्विद्वान् यदि सिद्धिमभिप्सति | पाशुपतत्रिशूल्याद्या वीरकौलादयः प्रिये || १-१०७ || अत्रैवान्तर्भविष्यन्ति महाविद्याविधौ शिवे | वीरशैवा वीरपूर्ववैष्णवा ये प्रकीर्त्तिताः || १-१०८ || अत्रैवान्तर्भविष्यन्ति कालीतारादिके मनौ | चार्वाकादिप्रभेदास्तु चीनभेदा अमी स्मृताः || १-१०९ || चार्वाका आर्हता बौद्धा चीन जैनादयः शिवे | शाक्यसिंहादि देवेशि देवीपुत्रादिकाः प्रिये || १-११० || अत्रैवान्तर्भविष्यन्ति महातारामनौ शिवे | अथातः संप्रवक्ष्यामि पूर्णदीक्षाविवेचनम् || १-१११ || पूर्णाभिषेकदीक्षायां भेदा वै बहवो मताः | पराप्रासादविद्या च प्रासादपरयाऽथवा || १-११२ || प्. ९) बिन्दुयुक्तो भवेच्छैवे सर्गी कामकलात्मिका | प्रासादपररूपायां बिन्दुसर्गात्मिकं तथा || १-११३ || परा दीक्षा तथान्या वै तत्त्वादिबिन्दुसर्गतः | अथ सट्शाम्भवी दीक्षा बहुधा परिकीर्त्तिता || १-११४ || गर्भशाम्भवकं चापि केरल शाम्भवं च वा | केरले बहवो भेदास्तांश्चात्र कथ्यतेऽधुना || १-११५ || षडन्वयः पंच वापि चतुरन्वयमेव वा | त्रितयं वापि देवेशि ह्यभावे एकमेव वा || १-११६ || शिवरश्मिः शक्तिरश्मिः शिवशक्त्यात्मका यदा | त्रिपुरा दशपंचाख्यमालोक्ता रश्मयः परा || १-११६ || किं वा षडन्वयाख्येषु प्रोक्ता वै रश्मयः पराः | किं वा चरणदीक्षा स्याच्चतुश्चरणरूपुणी || १-११८ || रक्तशुक्लमिश्ररूपं निर्वाणं तु तुरीयकम् | चरणत्रयदीक्षा स्यान्निर्वाणं सर्वतोत्तमम् || १-११९ || निर्वाणात्तु परं देवि नास्ति ज्ञानं तु मामके | षोडश्यां पूर्णदीक्षा तु संप्रदायपरो चरेत् || १-१२० || संप्रदायानुसारेण तत्तन्म्ंत्रेषु पश्यताम् | षडन्वयस्तु देवेशि गुह्यकाल्यामपि स्मृतः || १-१२१ || पूर्णाभिषेकदीक्षा तु काल्यां च परिकीर्त्तिता | एवं सर्वासु विद्यासु पूर्णदीक्षा प्रकीर्त्तिता || १-१२२ || श्रीसुंदर्यां तथा काल्यां मुख्या तु परिकीर्त्तिता | संप्रदायानुसारेण तत्तदर्चनमाचरेत् || १-१२३ || पंचदश्यामपि शिवे पूर्णदीक्षा प्रकीर्त्तिता | मन्वगस्तलोपिकायां नामदानं तु भिन्नतः || १-१२४ || संप्रदायानुसारेण नाम देयं महेश्वरि | श्रीमद्दक्षिणकाल्यां तु काली गुरूक्तवर्त्मना || १-१२५ || तारायामपि देवेशि तारा गुरूक्तवर्त्मना | यथा काली तथा तारा या तारा सैव कालिका || १-१२६ || इत्युक्तत्वान्महेशानि तारायामपि दीक्षणम् | गुह्यकाल्यां महादेवि षड्रश्मिक्रमतः शिवे || १-१२७ || प्. १०) दश पंच मालिकाऽत्र गदिता प्रियवादिनि | तद्रश्मिक्रमयोगेन नामपूजादिकं मतम् || १-१२८ || षट्शाम्भवक्रमेणैव नाम देयं महेश्वरि | महाकामकला काली राजराजेश्वरी मता || १-१२९ || अस्यां तु दीक्षा संप्रोक्ता पूर्णदीक्षा शुभा शिवे | एतद्गुरूक्तमार्गेण मानवौघक्रमेण तु || १-१३० || गुरुभक्तस्य शिष्यस्य आज्ञानाम प्रदापयेत् | या सा कामकला काली योगपट्टेश्वरी मता || १-१३१ || योगदीक्षेति सा प्रोक्ता महानिर्वाणरूपिणी | हंसकाल्यामपि तथा आज्ञानाम प्रदापयेत् || १-१३२ || या सा कामकला काली योगपट्टेश्वरी मता | पराप्रासादरूपा स्यात् महाकामकला परा || १-१३३ || चरणदीक्षा हंसकाल्यां चतुश्चरणरूपिणी | हंसदीक्षात्परं नास्ति दीक्षा पूर्णाभिषेकिका || १-१३४ || अथ हंसक्रमेणैव आज्ञानाम प्रदापयेत् | अत्रापि देवदेवेशि शिवदेवीपरंपरा || १-१३५ || भैरवस्यादिनाथस्य देवते कथिते शिवे | सर्वेषां तु महादेवि औघपरंपरा मता || १-१३६ || औघपरंपराज्ञानात् औघे मुख्यत्वमेव तत् | शिवाद्या देवदेवेशि विरूपाक्षपरंपरा || १-१३७ || आदिनाथाद् गुरुज्ञानं स्वगुर्वन्तं महेश्वरि | आदौ सर्वत्र देवेशि मन्त्रदः प्रथमो गुरुः || १-१३८ || परम्परादिका देवि महेशा एव नान्यथा | आनन्दनाथ संज्ञान्ता गुरवः परिकीर्त्तिताः || १-१३९ || स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परिकीर्त्तिताः | आदौ श्रीस्वगुरुं पूज्य शिवान्तं पूजयेच्छिवे || १-१४० || एवं देवि दीक्षणादौ पूर्ववत् परिकीर्त्तितम् | आनन्दभैरवाद्येषु ह्येवमेव प्रकीर्त्तितम् || १-१४१ || स्वगुर्वादि समारभ्य दिव्यान्तं पूजयेच्छिवे | अथ कालीदीक्षणादौ आज्ञानाम प्रदापयेत् || १-१४२ || प्. ११) प्रकारान्तरतो देवि गद्यते शृणु साम्प्रतम् | प्रह्लादानन्दमारभ्य बोधानन्दान्तिकं प्रिये || १-१४३ || एतद् गुरुक्तमार्गेण चाज्ञानाम प्रदापयेत् | तारायामपि संप्रोक्तः संक्षेपेण मया तव || १-१४४ || श्रीशिव उवाच | अथान्यत् संप्रवक्ष्यामि सम्प्रदायस्वरूपकम् | आदौ हि वैदिकः प्रोक्तस्ततो हि वैष्णवः परः || १-१४५ || ततो गाणपतं प्रोक्तं ततः सौरं प्रकीर्त्तितम् | सौराच्छ्रेष्ठं शैवशास्त्रं शैवाच्छाक्तं महेश्वरि || १-१४६ || शाक्ताद्वामं महेशानि श्रेष्ठेति परिकीर्त्तितम् | वामात्तु दक्षिणः श्रेष्ठो दक्षिणाद्वीर एव तु || १-१४७ || अथ वीराच्चावधूतः कौलपूर्वं प्रकीर्त्तितः | अवधूताद्दिव्यमार्गो दिव्याच्छ्रेष्ठो न विद्यते || १-१४८ || शैवे चान्तर्भविष्यन्ति श्रीमत्पाशुपतादयः | पाञ्चरात्रादयो देवि वैष्णवे सम्भवन्ति हि || १-१४९ || शाक्ते चान्तर्भविष्यन्ति पाषण्डचीनसम्मताः | कापालिके रुद्रभेदाः कौले चाष्टौ प्रकीर्त्तिताः || १-१५० || वीरे पंचमतं देवि चीने शतद्वयं मतम् | बौद्धानां शतभेदाः स्युः सप्त पाशुपते मताः १५१ || दिव्ये भेदद्वयं देवि पशवस्त्रिविधा मताः | अवधूते सप्तभेदाः सम्प्रदायक्रमेण तु || १-१५२ || आनन्दः प्रथमः प्रोक्तो द्वितीयो नाथ एव तु | मुख्यस्त्वानन्दनाथः स्यात् प्रकाशस्तदनन्तरम् || १-१५३ || स्वरूपस्तु ततः प्राक्तश्चैतन्यस्तु तदुत्तरम् | आराध्याचार्यकश्चैव विद्याधिक्यात् प्रकीर्त्तितः || १-१५४ || षट्शाम्भवादिशास्त्रज्ञस्त्वाराध्यः परिकीर्त्तितः | गुशब्दस्त्वन्धकारत्वाद् रुशब्दस्तस्य बोधकः || १-१५५ || द्वाभ्यां गुरुश्च सम्प्रोक्तः स एव हि प्रकाशकः | नाथः सिद्ध्यादिभिर्युक्तस्त्वानन्दः शम्भुशक्तिमान् || १-१५६ || प्. १२) आनन्दनाथशब्दस्तु परशैवस्य वाचकः | महावीरस्तु यः प्रोक्तः स माहेश्वर इतीरितः || १-१५७ || वीरस्तूद्धतवत् प्रायः कलौ तिष्ठति कुत्रचित् | विलाससम्प्रदायस्तु तद्भेदः केरलो मतः || १-१५८ || तद्भेदो द्रविडः प्रोक्त आचार्यत्वप्रदायकः | स्वाराज्ये नियतः प्रोक्तश्चैतन्याख्यः स एव तु || १-१५९ || द्रविडेऽन्तर्भविष्यन्ति स्वामिसम्प्रदायवाचकाः | गौडः स्वरूप इत्युक्तस्त्वानन्दाख्यः स एव तु || १-१६० || केरले बहवो भेदास्तानहं वच्मि संशृणु | भवसिद्धो हराख्यस्तु सिद्धाख्यः परिकीर्त्तितः || १-१६१ || देशपर्यायभेदेन कलहट्टचतुष्टयम् | मंत्रपर्ययायभेदेन विधिसिद्धिस्ततः क्रमः || १-१६२ || कालपर्ययायभेदेन सिद्धानन्दमतक्रमः | कलहट्टो गोमुखश्च विज्ञानी तदनंतरम् || १-१६३ || द्रविडराजो महेशानि उत्पादाख्यस्ततः परम् | कालपर्ययायभेदेन संप्रदायक्रमो मतः || १-१६४ || पूर्वकेरलमादौ स्यात् द्वितीयं तूत्तरं भवेत् | अत्रापि नामबाहुल्यं सम्प्रदायानुसारतः || १-१६५ || दिव्यः सिद्धस्ततः सत्यश्चैतन्यश्चिद्घनः परम् | सर्वज्ञाख्यो ब्रह्मविष्णुरुद्रसंज्ञाधरः शिवे || १-१६६ || आदिसंज्ञा ततो देवि योजनीया सरस्वती | आदौ दिव्यादयः शब्दास्ततो देवी सरस्वती || १-१६७ || आदौ क्रमास्तु विज्ञेयाः सम्प्रदायस्तदुत्तरम् | ततो नामादिकं ज्ञात्वा चाज्ञापदं महेश्वरि || १-१६८ || अथ द्रविडभेदान् हि शृणु वक्ष्ये यथाक्रमम् | अद्वैताख्यः पूर्णनाथश्चिदम्बाख्यस्ततीयकः || १-१६९ || अद्वैताख्यः संप्रदायस्त्ववधूतमतेऽपि च | सरस्वत्यन्तगो वापि चानन्दान्तोऽपि वा प्रिये || १-१७० || नाथान्तो वा महेशानि त्रितयं त्रितयं त्रिषु | ईशाख्यस्तु महेशानि केरलान्तर्गतो भवेत् || १-१७१ || प्. १३) माहेश्वरः स भवति विश्वरूपाभिधः प्रिये | एतेऽपि केरले देवि ह्यन्तर्भूता भवन्ति वै || १-१७२ || एवं ज्ञानेन सम्पन्नः कुण्डलीज्ञानपूर्वकम् | पूजनं तु प्रकर्तव्यं नान्यथा सिध्यति ध्रवम् || १-१७३ || एतदज्ञानतो देवि न विद्या सिद्धिमाप्नुयात् | विद्यासिद्धिमभिप्सुर्वै ज्ञानपूर्वं समाचरेत् || १-१७४ || अज्ञानात् यत्कृतं देवि तत् सर्वं निष्फलं भवेत् | इति संक्षेपतः प्रोक्तमवश्यं क्रियतां प्रिये || १-१७५ || बलिदानविधौ देवि पात्रासादनकर्म्मणि | विनियोगविधौ सर्वं स्पष्टं भवति नान्यथा || १-१७६ || श्रीशिव उवाच | अथ किं पृच्छसि शिवे काश्मीरं ब्रूहि सत्वरम् | सर्वदिव्यस्तु यः प्रोक्तः स काश्मीरति कीर्तितः || १-१७७ || भावनाथः क्रियानाथो ज्ञाननाथस्तथैव च | चित्परः चेतनेशश्च सिद्धनाथाख्य एव च || १-१७८ || ऋद्धिनाथस्ततश्चैव इत्यष्टौ कीर्तिता मया | पूजनादौ महेशानि पात्रासादनकर्म्मणि || १-१७९ || भेद एष महेशानि सर्वमेकं प्रकीर्त्तितम् | गौडाख्यमार्गो देवेशि तथा काश्मीरसम्मतम् || १-१८० || केरलेऽन्तर्गतं देवि नान्यथा शांकरं वचः | क्वचित् कदाचित् भेदो वै सम्प्रदायात्प्रकीर्त्तितः || १-१८१ || त्रिजटैकजटा चोभे त्रिशूलो बिन्दुभूषितः | चतुर्भेदा महेशानि शैवेऽत्रान्तर्गता भवेत् || १-१८२ || शैवे चान्तर्गता देवि श्रीमत्पाशुपतादयः | तेषां तु सप्तभेदा वै तानहं वच्मि संशृणु || १-१८३ || आदौ शिखी ततो मुण्डी जटी चैव तृतीयकः | द्विदण्डी त्वेकदण्डी च त्रिदण्डी च ततः स्मृतः || १-१८४ || वीरशैवः सप्तमस्तु सप्तपाशुपताः स्मृताः | वैष्णवे त्वष्टभेदाः स्युस्त्वादौ वैखानसः स्मृतः || १-१८५ || श्रीराधावल्लभो देवि गोकुलेशस्तृतीयकः | वृंदाख्यस्तु चतुर्थः स्यात् पांचरात्रस्तु पंचमम् || १-१८६ || प्. १४) वीरवैष्णवनामाख्यस्ततः परिकीर्त्तितः | रामानन्दी हरिव्यासी निम्बार्कश्चाष्टमः स्मृतः || १-१८७ || स्मार्ता भागवता देवि एते मार्गप्रवर्त्तकाः | शाक्ते चान्तर्गता देवि चीनाः कापालिकाः शिवे || १-१८८ || बौद्धा जैनास्ततो देवि दिव्याः कौलास्तथा शिवे | वीरः पशुस्ततः प्रोक्तस्तेषां लक्षणमुच्यते || १-१८९ || चीनानां द्विशतं भेदास्ताराच्छिन्नाविधौ स तु | ताराधीशः पराधीशः क्षेमाख्यः प्रेमतारकः || १-१९० || सागराख्यः परापन्नस्तथा जीवदयापरः | चिरजीवी सिद्धनामा संक्षेपान्नावकीर्त्तितः || १-१९१ || कापालिके पंचभेदास्तानहो ब्रूमहे शिवे | इंद्रजाली देवजाली रुद्रजाली तृतीयकः || १-१९२ || विद्याजाली तुर्यसंख्यः पंचमः सिद्धिजालिकः | पंचकापालिकाः प्रोक्ता बौद्धान् संशृणु यत्नतः || १-१९३ || केशच्छेदी वृक्षच्छेदी मद्याशी कल्मषस्तथा | इच्छाभेदी पंचमस्तु एवं बहुविधा मताः || १-१९४ || जैने भेदद्वयं देवि कथ्यते यत्नतः शृणु | पार्श्वनाथः कलानाथः पद्माभोगवतीरतः || १-१९५ || आदिदिव्यस्तूपदिव्यो दिव्यभेदद्वयं शिवे | पशवस्त्रिविधा देवि ज्ञाताज्ञातविनिन्दकाः || १-१९६ || पंचधा वार इत्युक्तस्तद्भेदं शृणु पार्वति | श्रीचक्रवीरो देवेशि ऊर्मिलाख्यो द्वितीयकः || १-१९७ || चूडाचक्रं तृतीयं स्यात्पुष्पचक्रं चतुर्थकम् | जीवचक्रं पंचमं स्यात्पंचभेदाः प्रकीर्त्तिताः || १-१९८ || भावयोगो जीवचक्रे पुष्पचक्रे क्रियाभिधः | श्रीचक्रे ज्ञानयोगस्तु लययोगस्तु [ऊर्मिले] || १-१९९ || चूडाचक्रे राजयोगो किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पूर्वोक्तं चातिगुप्तकम् || १-२०० || श्रीशिव उवाच | कीटात् ब्रह्माण्डपर्ययन्तं सर्वशक्तिमयं जगत् | शक्तिसंपूजनाद्देवि ब्रह्माण्डं पूजितं भवेत् || १-२०१ || प्. १५) शक्त्या शिवस्य वै देहे भुवनानि चतुर्दश | लोकत्रयं कलास्थाने देवलोकादिकं शिवे || १-२०२ || पर्वता धातवो वापी समुद्राः सरितस्तथा | ब्रह्माण्डगोलके यच्च यत् किंचिज्जगतीतले || १-२०३ || तत्समस्तं शक्तिदेहे स्फुटं तिष्ठति पार्वति | ब्रह्मा विष्णुश्च रुद्रश्च शक्तिदेहसमुद्भवाः | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १-२०४ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रिमदक्षोभ्यमहोग्रतारासंवादे श्रीचक्रयोगादिकथनं नाम प्रथमः पटलः || १ || द्वितीयः पटलः | श्रीदेव्युवाच | पूर्वोक्तं वद देवेश यद्यहं तव वल्लभा | श्रीशिव उवाच | धनकामे गणपतिमारोग्ये च दिवाकरम् || २-१ || तारापति च श्रीकामे मुक्तिकामे जनार्द्दनम् | नारायणं सर्वकामे श्रीकामे पुरुषोत्तमम् || २-२ || मन्त्री मन्त्रप्रसिद्ध्यै श्रीं विद्यार्थीं कालिकां यजेत् | मातङ्गीं धनकामस्तु वाराहीं सर्वकामया || २-३ || भुवनेशीं राज्यकामः तथा नीलसरस्वतीम् | तथा त्रिपुरमेवं च कूटे कूटविभाविनीम् || २-४ || सर्वकामं कलियुगे कृते च पुरुषोत्तमम् | द्वापरे शिवभेदं च त्रेतायां वामनं हरिम् || २-५ || अथ कलियुगे शस्ता या बालेति निगद्यते | त्रेतायां ललिता शस्ता द्वापरे पंचकूटगा || २-६ || षट्कूटा च कलौ शस्ता सर्वतन्त्रेषु गोपिता | सर्वकामं कलियुगे सुन्दरी परमेश्वरि || २-७ || बगला सर्वसिद्ध्यर्थं स्तंभनार्थं विशेषतः | धूमावती मारणार्थे शरभो निग्रहे मतः || २-८ || प्रत्यङ्गिरा अग्न्यस्त्रादिनिग्रहार्थं प्रकीर्त्तिता | श्रीशिव उवाच | अन्यत्तेऽहं प्रवक्ष्यामि यद्यजानामि देवते || २-९ || भूतिकामस्तु सततं पूजयेत्त्रिपुरां कलौ | कालिकां च महामायां वाणीकामस्तु चार्चयेत् || २-१० || भुवनेशीं तथा तारां स्वर्गकामस्तु चार्चयेत् | ब्रह्मवर्चसकामश्च ब्रह्माणं परिपूजयेत् || २-११ || आरोग्यकामोऽथ रविं धनकामो हुताशनम् | कमलां सिद्धिकामस्तु विद्याकामः सरस्वतीम् || २-१२ || प्. १७) कलौ नीलपताकां च तथा नीलसरस्वतीम् | वाक्सिद्धिर्जायते शीघ्रं कामसिद्धिर्न संशयः || २-१३ || कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् | भोगकामस्तु शशिनं बलकामः समीरणम् || २-१४ || विमुक्तयै सर्वसंसारात् प्रयत्नेनार्चयेच्छिवम् | ध्यानयोगं तथा मोक्षं यदीच्छेद्ज्ञानमव्ययम् || २-१५ || सोऽर्चयेच्च विरूपाक्षं सर्वसत्त्वमयं हरम् | छिन्नमस्तां राजपूर्वां मातंगीं कामकालिकाम् || २-१६ || श्मशानकालिका देवि सर्वसिद्धिप्रदां यजेत् | अश्वारूढां कुक्कुटीं च तथा भोगवतीं शिवे || २-१७ || नित्यक्लिन्नां च भेरुण्डां स्त्रीवश्यार्थं यजेत् प्रिये | सर्वाकर्षणकामस्तु कालिकैकाक्षरीं यजेत् || २-१८ || तथा मधुमतीं विद्यां सर्वाकृष्टौ यजेत्प्रिये | पराप्रासादविद्यां च तथा षट्शाम्भवेश्वरीम् || २-१९ || सर्वकामप्रसिद्ध्यर्थं यजेद्यत्नेन सुन्दरीम् | धनदा ऋद्धिकामेन सिद्धिकामेन कामिनी || २-२० || भैरवी रूपकामेन हयग्रीवस्तु वाक्प्रदः | श्रीशिव उवाच | दीक्षापरंपरामाह येन देवीमयो भवेत् || २-२१ || गौडकाश्मीरद्रविडे कौले वामे च दक्षिणे | सर्वत्र योजनीया हि यथामार्गेण सुन्दरी || २-२२ || अधिकारवशाद्देवि कलौ पापसमन्विते | कलौ युगे च संप्राप्ते सर्वे भ्रष्टा भवन्ति हि || २-२३ || परंपराविनाशस्तु भविष्यति न संशयः | गुरुक्षोभं विमुख्यं च नातः सिद्धिः प्रवर्तते || २-२४ || अज्ञानवशतो देवि भ्रमन्ति हि इतस्ततः | मार्गभ्रष्टास्तथा जाता शाखारण्डा यथा मताः || २-२५ || कोटिसंख्ययुगैर्वापि न ते वै सिद्धिभागिनः | दीक्षापरंपरां वक्ष्ये श्रीविद्यायां महेश्वरि || २-२६ || प्. १८) कालिकायामपि तथा गौडकाश्मीरभेदतः | अथातः संप्रवक्ष्यामि श्रीविद्याभेददीक्षणम् || २-२७ || लब्धाधिकारिभिर्देवि बालोपास्या महेश्वरि | पूर्णाधिकारिभिर्देवि कामसंपूजिता परा || २-२८ || तदुत्तरं षोडशी स्यात्पराविद्या तदुत्तरम् | पराप्रासादविद्या स्यात्प्रासादपररूपिणी || २-२९ || संप्रदायानुसारेण दीक्षणं कारयेत् प्रिये | षट्शाम्भवं ततः प्रोक्तं संप्रदायानुसारतः || २-३० || चरणदीक्षा ततः प्रोक्ता त्वितो दीक्षा न विद्यते | निर्वाणदीक्षा देवेशि सर्वतश्चोत्तमा मता || २-३१ || निर्वाणदीक्षापरतो नान्यदीक्षा तु विद्यते | निर्वाणदीक्षया युक्तः परं ब्रह्म न संशयः || २-३२ || चरणत्रयदीक्षा तु क्वचित् कार्यया महेश्वरि | बालामंत्रादिका मंत्रा विद्यामंत्रैव कीर्त्तिता || २-३३ || या सा पंचदशी देवि षोडशी सैव कीर्त्तिता | षोढान्यासादिकं चैव अष्टादश सहस्रकम् || २-३४ || न्यासा यत्नेन कर्त्तव्या नामपरायणं तथा | पराप्रासादविद्यायां सर्वमेव प्रकीर्त्तितम् || २-३५ || कालनित्यादिकं चैव युगपर्ययायनित्यकाः | मंत्रपारायणं कर्म नाडीपारायणं तथा || २-३६ || षोडशीविद्यया युक्तस्त्वधिकारी हि सर्वतः | षडन्वयक्रमे दीक्षा न्यासपूजादिकं शिवे || २-३७ || भिन्नमेव पुरा प्रोक्तं विशेषः कथ्यते पुनः | चतुश्चरणदीक्षायां भिन्नं न्यासादिकं मतम् || २-३८ || पराप्रासादविद्यायां विशेषः कुत्रचित्प्रिये | सर्वेषां पूजनं देवि श्रीचक्रे परिकीर्त्तितम् || २-३९ || अधिकारानुसारेण योजनीयं महेश्वरि | सर्वदीक्षादिभिर्युक्तो महादेवो न संशयः || २-४० || उत्तरोत्तरमेतद्धि श्रेष्ठं विद्धि महेश्वरि | एतज्ज्ञानवशाद्देवि साक्षाद्ब्रह्ममयो भवेत् || २-४१ || प्. १९) आदावेकाक्षरी प्रोक्ता बालावत् परिकीर्त्तिता | सिद्धकाली पंचदशी विद्यावत् परिकीर्त्तिता || २-४२ || अथ वै दक्षिणाकाली षोडशी सैव कीर्त्तिता | ततः कामकला काली पराप्रासादवन्मता || २-४३ || चरणदीक्षा यथा प्रोक्ता तथैव हंसकालिका | ततसु गुह्यकाकाली षट्शाम्भवपरेश्वरि || २-४४ || षट्शाम्भवे गुह्यकाल्यां भिन्न एव प्रकीर्त्तितः | अत्रापि कालनित्यादि ज्ञानं प्रोक्तं मया तव || २-४५ || मंत्रपारायणं देवि नामपारायणं तथा | नाडीपारायणं चैव युगनित्यादिकं शिवे || २-४६ || कालनित्यादिकं चैव दिननित्यादिकं तथा | सर्वं विस्तरतो देवि मया पूर्वं निवेदितम् || २-४७ || काल्यां तु युगनित्यादि कालनित्यानुसारतः | विंशत्साहस्रकं चाष्टशती षट्त्रिंशदीरिता || २-४८ || कालनित्याविधानादि साधनं कथ्यते पुनः | इत्येतत्कथितं देवि संक्षेपेण मया तव || २-४९ || एतद्विधानवा/ल्लोके सिद्धिरूपो न संशयः | पूर्णाभिषेकदीक्षायां नामपारायणं चरेत् || २-५० || शैवे शैवान्तगं नाम वैष्णवे तु तदन्तमम् | सौरगाणपबौद्धादौ तत्तच्छास्त्रोक्तनामतः || २-५१ || शाक्ते शक्त्यन्तगं नाम शाक्ते बाहुल्यमीरितम् | श्रीमच्छाम्भवदीक्षादौ शाम्भवो ह्यत्र सम्मतः || २-५२ || तद्रश्मिगं च वा नाम गुरुमध्यस्थितं च वा | ऋतुद्वौवेध्यगं वापि यथाम्नायक्रमेण तु || २-५३ || शिवशक्तियुग्मभेदान्मालामन्त्रस्थमेव तु | षोडश्यां पञ्चदश्यां च लोपामन्वगस्तिके शिवे || २-५४ || एतद्गुरुप्रोक्तनाम देयं यत्नेन दीक्षणे | पराप्रासादमध्ये तु प्रासादपरयाऽथ वा || २-५५ || शिवशक्त्यन्तगं नाम शैवशक्त्यन्तगं च वा | निर्वाणाद्यंतगं नाम चरणे तद्गुरुस्थितम् || २-५६ || प्. २०) मेधायां तद्गुरुस्थं च प्रोक्तमेतन्महेश्वरि | अथान्यत् संप्रवक्ष्यामि सारात्सारतरं परम् || २-५७ || श्रीदेव्युवाच | शापोद्धारोत्कीलने तु तत्र भेदः कियान् भवेत् | तन्मे वद महादेव यद्यहं तव वल्लभा || २-५८ || श्रीशिव उवाच | उत्कीलनं बन्धनं स्यात् शापस्तेजोनिरोधकः | कीलने तु महादेवि न गतागतमीरितम् || २-५९ || गतागतं महादेवि शापोद्धारे तु वर्त्तते | भक्तानुग्रहकाम्यत्वाद्देवीसाधकसन्निधौ || २-६० || गत्वा दत्तो वरो देवि स मृषा जात एव हि | मंत्रचैतन्यरोधत्वान्मृषा जातो महेश्वरि || २-६१ || अयं शापो निगदितस्तथोत्कीलनमुच्यते | भक्तानुग्रहकाम्यत्वाद्दातव्यो हि वरः शिवे || २-६२ || बन्धनस्य यदा मुक्तिस्तदैव तु गतागतम् | शक्तिस्तु वर्तते देव्या वरदाने महेश्वरि || २-६३ || यथा ऊर्जतरे वत्से धेनुप्रीतिस्तु वर्तते | बंधनस्य यदा मुक्तिस्तनपानं तदैव हि || २-६४ || काली तारा तथा छिन्ना तेजःपुंजनिभा मता | त्रयाणां तेजःसंरोधं को हि कर्तुं क्षमो भवेत् || २-६५ || तस्माच्छापादिकं नास्ति कालिकायां महेश्वरि | कालिका तारिणी विद्या उत्कीलनविमोचनी || २-६६ || दामसंत्रोटनं कृत्वा धेनुर्याति यथा सुतम् | भक्तानुग्रहकाम्यत्वात्तथेयं कालिका परा || २-६७ || तारा छिन्ना स्तंभनेशी सर्वबंधविमोचनी | शापे तु प्रस्रवो नास्ति कीलने प्रस्रवोऽस्ति हि || २-६८ || कालिकायां महादेवि सर्वदा प्रस्रवोऽस्ति हि | शापोद्धारनिरुक्तिस्तु शृणु यत्नेन सांप्रतम् || २-६९ || वत्सो निकटवर्ती स्याद्धेनुर्निकटवर्तिनी | दुग्धाभावान्महादेवि नैकट्ये किं फलं भवेत् || २-७० || प्. २१) कालांतरे समायाते पुनर्दुग्धं यथा भवेत् | शापनिर्मोचनादेव पुनस्तेजः प्रवर्तते || २-७१ || वत्सबंधनमुक्तित्वात्फलं सिद्धं हि वर्तते | उत्कीलने बंधनं हि फलसिद्धिप्रदा प्रिये || २-७२ || तस्मादुत्कीलनं भिन्नं शापो भिन्नः प्रकीर्त्तितः | अक्षरव्यत्ययो देवि उत्कीलनविधौ स्मृतः || २-७३ || मंत्रश्चैतन्यरूपत्वात् चैतन्यव्यत्ययो न च | चैतन्यव्यत्ययं त्यक्त्वा पापभागी नरो भवेत् || २-७४ || तत्पापस्य निवृत्यर्थं प्राणायामः प्रकीर्त्तितः | देहावयवरूपत्वं ह्यक्षरे वर्तते शिवे || २-७५ || अक्षरव्यत्ययाद्देवि हीनांगत्वं प्रजायते | शापहीने महादेवि सर्वांगं सिद्धमेव हि || २-७६ || वत्सबंधनकं कर्म पुनः सिद्धं यथा भवेत् | यथोत्कीलनकं कर्म पुनः सिद्धं महेश्वरि || २-७७ || शापदाने महादेवि चैतन्याभाव एव हि | विद्यमाना यथा गौर्वै दुग्धं नास्ति महेश्वरि || २-७८ || शापदाने महेशानि चैतन्यं नास्ति शांभवि | उत्कीलने महादेवि चैतन्यं सिद्धमेव हि || २-७९ || इति भेदेन गदितो किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | दीपरेखादिकं कर्म पूर्वं यत्सूचितं त्वया || २-८० || किमपराद्धं मया देव न तन्मह्यं प्रकटीकृतम् | श्रीशिव उवाच | दीपरेखादिकं ज्ञानं सारात्सारतरं मतम् || २-८१ || दीपिन्यन्योक्तिसिद्ध्यर्थं दीपरेखा प्रकीर्त्तिता | आरभ्य भानोरुदयात्षष्टिर्विघटिकांतरम् || २-८२ || सृष्टिसंहारयोगेन दीपरेखाविधिर्मता | बिन्दुमारभ्य होरान्तं दीपिनी समुदेति हि || २-८३ || सर्वमंत्राणि देवेशि दीपिनी समुदेति हि | घटिक्रमेण देवेशि तत्र मंत्रोदयो भवेत् || २-८४ || प्. २२) मन्त्रमात्रे त्विदं प्रोक्तं मया संकेतकं शिवे | एकाक्षरं समारभ्य सहस्रांतं महेश्वरि || २-८५ || अक्षरे चोदयं देवि घटिकाक्रमयोगतः | तत्राक्षरं सदोदेति तज्ज्ञानात्फलमाप्नुयात् || २-८६ || हंसचारो महादेवि यथा चलति सर्वदा | अजपा सैव गदिता संकल्पात्तु फलप्रदा || २-८७ || युगाद्यारंभदिवसं ज्ञात्वा चाहर्गणं शिवे | मंत्राक्षरोदयं देवि विद्धि यत्र सुनिश्चितम् || २-८८ || एकैकघटिकायोगाद्बिन्दुरेखोदयाक्षरम् | होरातं यत्नतो देवि ज्ञातव्यं शुभमिच्छता || २-८९ || द्वारमारभ्य बिन्द्वन्तं पुनरेकोदयाक्षरम् | एवं व्याप्तेन देवेशि विराड्रूपत्वतां व्रजेत् || २-९० || व्यापकत्वं विना देवि न विराड्रूपता मता | विश्वरूपत्वभावो हि विराड्रूपे प्रकीर्त्तितः || २-९१ || दीपरेखां विना देवि न हि वै दीपिनी मता | दीपरेखामध्यभागे दीपिनी समुदेति हि || २-९२ || तत्रैव दीपिनीं पूज्य तत्रैव चोदयाक्षरम् | उदयाक्षरयोगेन संजीवं मंत्रमेव हि || २-९३ || विनोदयाक्षरं देवि मंत्रं निःशप्तकं न हि | मंत्रशापनिवृत्त्यर्थं उदयाक्षरचिन्तनम् || २-९४ || मंत्रोदयाक्षरं देवि तथा रेखोदयो भवेत् | उदयाक्षरयोगेन किं न सिध्यति भूतले || २-९५ || मन्त्रोदयो यथा देवि तथा रेखोदयो भवेत् | रेखोदयो मन्त्रमात्रे स्यादुदयोऽपि हि वर्त्तते || २-९६ || इति प्रोक्तं मया देवि किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | पूर्वं संसूचितं नाथ यन्त्रध्यानं त्वया प्रभो || २-९७ || प्. २३) कथं ध्येयं किं विशिष्टं कि ध्येयाध्येयमेव हि | वृत्तं भित्तिस्वरूपं वा मेखलावत्स्वरूपकम् || २-९८ || किं वा रेखामयं ध्येयं किं वा मेरुस्वरूपकम् | विश्वरूपं स्मरेद्वापि तत्सर्वं मयि कथ्यताम् || २-९९ || श्रीशिव उवाच | ध्यानं तु त्रिविधं प्रोक्तं यन्त्रमात्रे महेश्वरि | आदौ विराट्स्वरूपं स्याद्विश्वचक्षुःस्वरूपिणम् || २-१०० || यन्त्रं सम्भावयेद्देवि सर्वत्र कथितं त्विदम् | श्रीचक्रादौ महादेवि विराड्रूपे तु साम्यता || २-१०१ || द्वितीयन्तु कथं ध्येयं तन्मे वद महेश्वरि | तेजःपुञ्जनिभा रेखा सर्वचैतन्यरूपिणी || २-१०२ || सर्वं दर्पणवद्भाव्यं स्वप्रकाशस्वरूपिणम् | चैतन्यं भावयेत् सर्वं विन्द्वादिभूपुरान्तकम् || २-१०३ || मूले तेजःप्रकाशेन नाभिन्नं भावयेत्प्रिये | तृतीयं शृणु देवेशि मेरु रूपं सनातनम् || २-१०४ || उत्तरोत्तरबीजं च बिन्द्वारभ्य विभावयेत् | बिन्द्वधो भावयेद्देवि चैकैकोत्तरतः शिवे || २-१०५ || नवोत्तरक्रमेणैव भावयेद्वा महेश्वरि | कालीविद्याविधौ देवि नवरत्नस्वरूपिणी || २-१०६ || रेखाः संभावयेद्देवि मेरुप्रस्तारवच्च वा | श्रीचक्रं बीजसंयुक्तं निःशप्तं परमेश्वरि || २-१०७ || बीजहीनं तु यच्चक्रं तच्चक्रं सिद्धिदं न च | सृष्टिचक्रं भवेदादौ स्थितिचक्रं द्वितीयकम् || २-१०८ || लयचक्रं तृतीयं स्यात्त्रिधा चक्रं निवेदितम् | बीजसंलेखनं देवि त्रिविधं गदितं मया || २-१०९ || बीजं विना तु निर्जीवं शववत्परिकीर्त्तितम् | बीजयुक्तं भवेद्यंत्रं निःशप्तं सिद्धिदायकम् || २-११० || बीजाभावे मातृकार्णान् संलिखेद्बिन्दुभूषितान् | यंत्रमध्ये तु संलिख्य तद्यंत्रं पूजयेच्छिवे || २-१११ || प्. २४) दलाकारं तु यद्यंत्रं तद्यंत्रं सिद्धिदायकम् | दलाकारं कलौ पूज्यं नान्यथा सिद्धिदं शिवे || २-११२ || मंत्रचैतन्यकं देवि यंत्रचैतन्यकं तथा | गुरुचैतन्यकं देवि स्वस्मिंस्त्रितयभावना || २-११३ || न तत्र ध्यानरूपादि तेजःपुंजविभावना | सप्रपञ्चे तु निःसारे दुराचारव्रते शिवे || २-११४ || भावनैव तु संप्रोक्ता भावना सिद्धिदा मता | भावना यदि सिद्धा न तदेतन्तु कथं भवेत् || २-११५ || भावनाप्रेरणं देवि दैवेन क्रियते शिवे | प्रत्ययं शृणु देवेशि यत्सर्वैः क्रियते सदा || २-११६ || कुण्डली भिन्नरूपा स्यात्तल्लिंगं भिन्नरूपिणम् | स्वयम्भुलिङ्गमित्युक्तं स्वतःसिद्धं महेश्वरि || २-११७ || मूलविद्यामयी देवि कुण्डली शक्तिरूपिणी | कुण्डली सर्परूपा स्याद्देवता भिन्नरूपिणी || २-११८ || शिवस्याभिन्नरूपत्वात्त्रिधा रूपं प्रकीर्त्तितम् | मूलाधारं तु कुण्डल्याः स्थानं प्रोक्तं महेश्वरि || २-११९ || श्रीदेवतायाः स्थानं तु हृदयं परिकीर्त्तितम् | शिवस्थानं महेशानि सहस्रारं प्रकीर्त्तितम् || २-१२० || स्थानभेदान्नामभेदाद्रूपभेदान्महेश्वरि | कथमैक्यं महादेवि तस्मात्तु भावना मता || २-१२१ || स्थानभेदे रूपभेदे नामभेदे न वै मम | तात्पर्यं विद्यते देवि किं तु चैतन्यभावना || २-१२२ || गुरुमुख्याः क्रियाः सर्वा निर्वाणं गुरुरूपकम् | निर्वाणं परमं ब्रह्म निर्वाणं तु गुरोः पदम् || २-१२३ || गुरुः शक्तिर्गुरुर्विद्या गुरुर्देवो महेश्वरः | गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्विराट्स्वरूपवान् || २-१२४ || गुरुर्मंत्रो हि चैतन्यं किं बहु ब्रह्म केवलम् | चैतन्यमेव तात्पर्यं ध्यानं तु भावनैव हि || २-१२५ || केन दृष्टं ध्यानरूपं भावनामात्रगोचरम् | दृढभावनया युक्ते प्रत्यक्षं दर्शनं भवेत् || २-१२६ || प्. २५) चैतन्यं सर्वदा भाव्यं गुरौ देवि न संशयः | गुरुं विना न विद्याप्तिर्न च मंत्राप्तिरेव च || २-१२७ || गुरुस्थानं श्रेष्ठभूतं गुरौ सर्वस्य भावना | गुरुदैवतमंत्राणामैक्यं संभावयन् धिया || २-१२८ || मंत्रार्थं हृदि निश्चित्य गुरुरूपं परामृशन् | सर्वं गुरौ विलीनं वै ज्ञात्वा तु प्रजपेत्प्रिये || २-१२९ || स्वाभिन्नत्वेन संभाव्य त्रितयं त्रितयं त्रिषु | सर्वचक्षुः सर्वमुखं सर्वस्यैव स्वरूपिणम् || २-१३० || गुरुमेव विजानीयाद्गुरुं ध्यायन्जपं चरेत् | मया पूर्वं निगदितं भावत्रितयकं शिवे || २-१३१ || पशुवीरदिव्यभावाद्दिव्ये किं वै निरूपितम् | तेजःपुञ्जं विभाव्याऽथ सर्वमेकस्वरूपकम् || २-१३२ || चैतन्यं च विभाव्याऽथ महातेजः स्मरेच्छिवे | गुरुकृपा भवेद्देवि देव रूपो गुरुः स्मृतः || २-१३३ || गुरुरूपो भवेदात्मा आत्मरूपो मनुर्भवेत् | मंत्ररूपं तु सकलं विभाव्य मूर्त्तिकल्पना || २-१३४ || ध्यानोक्तां देवतां ध्यात्वा सर्वं संसाधयेत् क्षणात् | एवं भावनया देवि ताद्रूप्यत्वं प्रजायते || २-१३५ || ताद्रूप्ये तु समापन्ने परशक्तित्वतां व्रजेत् | परशक्तिस्वरूपोऽहमिति संभाव्यमव्ययम् || २-१३६ || चैतन्यमूर्त्तिं संचिन्त्य किं न सिध्यति भूतले | त्रयाणामेकगं तेजस्तत्र मूर्तिप्रकल्पना || २-१३७ || ध्यानोक्तदेवतां ध्यात्वा स्वस्वरूपां विभावयेत् | त्रितयं त्रिषु संभाव्य तत्रेष्टमूर्त्तिकल्पना || २-१३८ || मनःस्थैर्य यथा देवि यथा कार्यं महेश्वरि | तस्याः समरसं देवि तेजः पुंजनिभं स्मरेत् || २-१३९ || अर्धनारीश्वरमपि मंत्रचैतन्यविग्रहम् | न देहे मंत्रवर्णान् स्वे व्याप्तान्वै भावयेत्सुधीः || २-१४० || प्. २६) वनमालासमां भाव्य तेजःपुंजनिभां शिवे | इति संक्षेपतः प्रोक्तं यथा कुण्डलीरूपकम् || २-१४१ || कुण्डलीत्रितये देवि यथा संभाव्यते शिवे | तथाऽत्र भावना प्रोक्ता किमन्यच्छ्रोतुमिच्छसि || २-१४२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे उदयाक्षरनिरूपणं नाम द्वितीयः पटलः || २ || तृतीयः पटलः | श्रीदेव्युवाच | देवाधिदेव सर्वज्ञ सर्वशास्त्रप्रवर्तक | मंत्रोदयादिकं ज्ञानं दीपरेखादिकं प्रिये || ३-१ || भावनान्तं च कथितं पूर्वोक्तं न प्रकाशितम् | श्रीशिव उवाच | तदेव कथ्यतेदानीं शृणु यत्नेन साम्प्रतम् || ३-२ || केरलाख्यमतं चैकं काश्मीरं तु द्वितीयकम् | गौडसंज्ञं तृतीयं स्यान्मतं तु भावनाविधौ || ३-३ || आदौ तु केरलं देवि शुद्धं सर्वेषु सम्मतम् | गुरुदैवतमंत्राणामैक्यं संभावयन् धिया || ३-४ || चैतन्यं तु त्रयाणां च तेजः पुंजं विभावयेत् | उपदेष्टा गुरुर्देवि मंत्रे चैतन्यबोधनम् || ३-५ || चैतन्यस्य स्वरूपं वै गुरुरूपं विभावयेत् | नवरत्नप्रभा देवि यथा चैकत्र योज्यते || ३-६ || एकत्र योजनादेव ज्वलन्मेरुसमप्रभाम् | एकत्र योजनाद्देवि कोटिसूर्यसमप्रभाम् || ३-७ || तत्प्रभायां महादेवि गुरुं शम्भुस्वरूपिणम् | वराभयकरं शान्ते द्विनेत्रं द्विभुजं गुरुम् || ३-८ || तत्तेजसा विलीनं हि जगत्स्थावरजंगमम् | केरलाख्ये सम्प्रदाये एवं संभावयेद्गुरुम् || ३-९ || गुरुमुख्याः क्रियाः सर्वास्तस्मात्सर्वोत्तमो गुरुः | काश्मीराख्यं शृणु प्राज्ञे येन तन्मयतां व्रजेत् || ३-१० || मंत्रदेवगुरूणां हि त्वैक्यं संभावयन् धिया | तेजःपुंजनिभं सर्वं ह्यक्षरस्य स्वरूपकम् || ३-११ || तेजःपुंजाक्षराणि च सर्वं चैकत्र भावयेत् | सर्वं लीनं ह्यक्षरे वै चैतन्यत्रितयं शिवे || ३-१२ || सर्वं चैतन्यजं तेजः कोटिसूर्यसमप्रभाम् | तेजःपुंजाक्षराण्येव रत्नकूटसमूहवत् || ३-१३ || प्. २८) संभाव्य प्रजपेन्मंत्रमिष्टसिद्धिप्रदायकम् | काश्मीराख्यक्रमः प्रोक्तो गौडक्रममतः शृणु || ३-१४ || देवतागुरुमंत्राणामैक्यं संभावयन् धिया | सर्वं तेजोमयं भाव्यं जगत्स्थावरजंगमम् || ३-१५ || त्रयाणां देवि चैतन्यं तेजःपुंजनिभं शिवे | तेजःकूटमभूदेकं मेरुपर्वतसंनिभम् || ३-१६ || तत्तेजसि महादेवीं सायुधां परिचिन्तयेत् | ध्यानोक्तविधिना ध्यात्वा सर्वरूपां विभावयेत् || ३-१७ || एवं भावयतस्तस्य देवता वरदा भवेत् | इयं वै भावना प्रोक्ता किमन्यच्छ्रोतुमिच्छसि || ३-१८ || श्रीदेव्युवाच | सम्प्रदायत्रयेणैव संकल्पो यस्तु सूचितः | स च वै कथ्यतां देव यद्यहं तव वल्लभा || ३-१९ || श्रीशिव उवाच | केरलाख्ये सम्प्रदाये संकल्पं शृणु सादरम् | प्रीत्यर्थं देवतायास्तु संकल्पः परिकीर्त्तितः || ३-२० || देवताया यदा प्रीतिर्जाता तत्क्षणमेव तु | प्रसन्नता भवेदादौ ततः प्रीतिः प्रवर्तते || ३-२१ || प्रीतिर्जाता यदा देवि प्रसन्नत्वे न संशयः | प्रीत्यर्थे विनियोगस्तु मुख्योऽयं परिकीर्त्तितः || ३-२२ || काश्मीराख्ये क्रमे देवि विनियोगं शृणु प्रिये | प्रत्यक्षदर्शनार्थं हि देवताया महेश्वरि || ३-२३ || गौडक्रमे महेशानि सर्वसिध्यर्थमेव तु | देवताया यदा प्रीतिस्तदा सर्वं प्रवर्तते || ३-२४ || प्रत्यक्षदर्शनं देवि प्रीतौ लीनं हि वर्तते | तथा वाक्यादिसंसिद्धिः प्रीतौ लीना हि वर्तते || ३-२५ || तस्मात्प्रीतिर्मुख्यभूता प्रीत्यर्थं विनियोगता | इति प्रोक्तं महादेवि किमन्यच्छ्रोतुमिच्छसि || ३-२६ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि नित्या पंचविधा कथम् | श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि कालनित्यासु निर्णयम् || ३-२७ || प्. २९) तिथिनित्या भवेदादौ [दिन] नित्या तदुत्तरम् | युगनित्या ततः प्रोक्ता कालनित्या मता ततः || ३-२८ || ततः पर्यायनित्या स्यादेवं पंचविधा मता | शुक्लकृष्णक्रमेणैव द्विधा नित्यार्चनं मतम् || ३-२९ || आदौ कामेश्वरी शुक्ले चित्राद्या कृष्णपक्षके | तिथिनित्यां समभ्यर्च्य द्वाभ्यामाद्यां ततः प्रिये || ३-३० || पुनराद्यन्तमाचर्य दक्षिणामूर्त्तिसंमतम् | आनन्दभैरवमते प्रथमे दिननित्यकाम् || ३-३१ || शुक्लकृष्णक्रमेणैव तदन्ते सकलां यजेत् | तिथिनित्या तु कथिता [दिन] नित्यापुरःसरम् || ३-३२ || युगनित्या तु कथिता कालनित्या च पूर्ववत् || ३-३३ || पर्यायनित्या देवेशि कालनित्यापुरःसरम् | कथ्यते शृणु देवेशि सावधानमनाः शृणु || ३-३४ || शून्यसर्गौ समुद्धृत्य ततः कामकलां वदेत् | हंसः सोऽहं समुद्धृत्य पर्यययः कथ्यते शृणु || ३-३५ || अकारादिक्षकारान्तौ उ अ इ पल्लवान्वितैः | परस्परान्वितैर्देवि द्वित्रिक्रमगतैः शुभैः || ३-३६ || स्वरादिभिरथोपात्तैस्तैश्च तैश्च स्वरान्वितैः | परस्परं पल्लवितैर्नामपारायणाभिधा || ३-३७ || पर्यायनित्या कथिता कालनित्यान्विता शुभा | पर्यायस्वजनिर्देवि कालनित्याप्रकाशतः || ३-३८ || तत्तत्पारायणं नाम कीर्त्तितं देवदुर्लभम् | कालिकायां महेशानि नित्यापर्यायनामतः || ३-३९ || काली पर्यायनित्या वै संक्षेपेण प्रकाशिता | विंशत्साहस्त्रकं भागशतषट्त्रिंशदीरिता || ३-४० || अत्रेत्यं केचिदिच्छन्ति नागे सप्तशतीति च | अक्षरोदयकं यत्तेऽनेकमेव प्रकीर्त्तितम् || ३-४१ || षष्टिपारायणं नाम पूर्वमेव प्रकीर्त्तितम् | नामपारायणं भिन्नं मंत्रपारायणं तथा || ३-४२ || प्. ३०) मंत्रपारायणं नाम भिन्नमेव प्रकीर्त्तितम् | अक्षरोदयः षाष्टतमस्त्वेक एव प्रकीर्त्तितः || ३-४३ || कालीपारायणं नाम कीर्त्तितं तव सुव्रते | सुन्दर्यो भिन्नमेवोक्तं तच्छृउणु त्वं महेश्वरि || ३-४४ || आ ई पल्लवसंयुक्तैः परस्परयुतैः शिवे | द्वित्रिक्रमाक्षरैः काद्यैः क्षान्तवर्णगतैः शिवे || ३-४५ || स्वरादिभिरथ क्षान्तैस्तैश्च तैः सस्वरैः शिवे | नामानि त्रिपुरे ते हि गणितैः संभवंति हि || ३-४६ || विंशत्साहस्रकं साष्टशतं षट्त्रिंशदेव हि | गुह्यातिगुह्यं कथितं यन्न कुत्र प्रकाशितम् || ३-४७ || अकारः प्रथमो वा हि आकारः प्रथमोऽय वा | अकारः प्रथमो देवि ह्याकारस्तदनन्तरम् || ३-४८ || विराड्रूपं तु प्रथमं ततः सावयवा मता | विराड्रूपं कालिकाख्यं सुन्दरं सुन्दरीमुखम् || ३-४९ || तस्मादकारो मुख्यो हि स तु कालीविधौ मतः | कादिवर्णः कालिकायां हादिः श्रीसुन्दरीमते || ३-५० || वर्णस्वरूपे तद्रूपं न मदीयं तु विद्यते | कादिर्विराट् शून्यरूपः ककारः परिकीर्त्तितः || ३-५१ || हादिर्हकारः श्रीविद्या चित्कला कामसुन्दरी | महाकामकला विद्या हकारे तु विराजते || ३-५२ || विराट्स्वरूपं सुन्दर्या विद्यामात्रे प्रकीर्त्तितम् | तथापि काल्यां देवेशि मुख्यत्वेन व्यवस्थितम् || ३-५३ || नामपारायणे देवि तत्स्वरूपं प्रदृश्यते | अकारो बिन्दुसंयुक्तो अकारः सर्गसंयुतः || ३-५४ || अं अ श्चेत्यक्षरद्वन्द्वमनुत्तरस्वरूपकम् | अनुत्तरा द्विपंचाशद्विद्याख्या परिकीर्त्तिता || ३-५५ || एवं कामकला विद्या मतभेदेन दर्शिता | ईकारः केवलो देवि महाकामकला मता || ३-५६ || प्. ३१) अत एव कामराजे ककारत्वे तु मुख्यता | लोपायां तु हकारो हि त्वाकारत्वेन कीर्त्तितः || ३-५७ || कृत्वा हरार्द्धं देवेशि यो ध्यायेत् जगदम्बिकाम् | मंत्रद्वयेन पुटितं सर्वाभिन्नत्वभावना || ३-५८ || नामपारायणं प्रोक्तं कालीविद्याविधौ शिवे | अत एव तु सम्प्रोक्तं चित्स्वरूपं महेश्वरि || ३-५९ || अकारः प्रथमो देवि ह्यकारस्तु द्वितीयकः | आकारो व्यापकत्वेन सर्वव्यापक ईरितः || ३-६० || हकाराऽर्धकला देवि ईकारः परिकीर्त्तितः | एवं मिलित्वा देवेशि महाराजेश्वरी परा || ३-६१ || महाराजेश्वरीविद्यापल्लवः परमो मतः | श्रीविद्यायां महेशानि प्रोक्तं संक्षेपतः शिवे || ३-६२ || विराडुत्तरेश्वरी विद्या कालिकायां प्रकीर्त्तिता | अकारस्तु ककारेऽपि हकारेऽपि प्रकीर्त्तितः || ३-६३ || अकारोच्चारणं देवि न कादौ हादिसम्मतम् | उभयोर्यत्र चेत्कूटं कूटार्थे परिकीर्त्तितम् || ३-६४ || कूटोच्चारणकं कर्म कलौ कस्य भविष्यति | तस्मादुच्चारणार्थं हि ह्यकारः परिकीर्त्तितः || ३-६५ || ककारस्त्वादिवर्णो हि हकारश्चरमो मतः | अत्रार्थे प्रत्ययो देवि वर्णोद्धारे भविष्यति || ३-६६ || कहेत्येवं महामन्त्रो यस्य वाचि प्रवतत | स धन्यः स च विज्ञानी स हि वै देवपूजितः || ३-६७ || प्रणामं कुर्यात्तं दृष्ट्वा ज्ञानात्फलमवाप्नुयात् | अज्ञानात्फलनाशः स्यात्किमन्यच्छ्रोतुमिच्छसि || ३-६८ || श्रीदेव्युवाच | षष्ठीजपप्रकारोऽपि नामपारायणं तथा | मंत्रपारायणं देव ह्यक्षरोदयकं तथा || ३-६९ || दीपरेखादिविज्ञानं मंत्रार्णस्योदयं तथा | कस्याधिकारो देवेश केन कार्यं स को भवेत् || ३-७० || प्. ३२) तन्मे वद महादेव यद्यहं तव वल्लभा | श्रीशिव उवाच | पूर्णाभिषेकी शुद्धान्तो गुरूभक्तो दृढव्रतः || ३-७१ || अनित्यकर्मसन्त्यागी नित्यानुष्ठानतत्परः | पारम्पर्यक्रमासक्तः षट्शांभवान्तमेव हि || ३-७२ || सन्ध्याचतुष्टये देवि ह्यधिकारो हि यस्य वै | आचार्यत्वे महादेवि अधिकारो हि यस्य वै || ३-७३ || भविष्यज्ञानत्रैकाल्यज्ञानविज्ञानदर्शने | बाला पंचदशीकादि षोढाविद्या परा ततः || ३-७४ || पराप्रासादनिर्वाणौ षडन्वयक्रमस्ततः | एवं परम्परायुक्ते नामसंज्ञादिसंयुते || ३-७५ || तस्याधिकारो देवेशि नामपारायणादिके | षष्टीजपं समारभ्य नाममन्त्रान्तिके शिवे || ३-७६ || एवं पारायणं कर्म यः करोति महेश्वरि | स च किं मानुषो देवि स साक्षाच्छिव एव हि || ३-७७ || षष्ठीपारायणं नाम नामपारायणं तथा | मंत्रपारायणं ज्ञानं दीपरेखादिकं तथा || ३-७८ || नामदानादिसंकेतो नाल्पस्य कर्मणः फलम् | येन कोटियुगं देवि सुन्दरी सम्यगर्चिता || ३-७९ || अष्टादशसहस्रं हि न्यासान्येन स्वदेहके | पुरश्चर्यादिसंयुक्तैर्न्यस्ता देवेशवन्दिता || ३-८० || तेनेदं लभ्यते देवि ह्यथवा नहि लभ्यते | एतत्तत्त्वं महेशानि किंचिज्जानामि यत्नतः || ३-८१ || पूर्णवेत्ता महादेवि स साक्षात्कालिकाम्बिका | सैव वै सुन्दरीरूपा तारुण्यामृतविग्रहा || ३-८२ || जानाति सुन्दरी देवि सा त्वमेव महेश्वरि | सर्वं गोपयसि प्राज्ञे मम भाग्यं महत्तरम् || ३-८३ || श्रीदेव्युवाच | धन्योऽसि शिव विश्वेश सर्वपारप्रदर्शक | शक्तौ शिवं विना शम्भो सामरस्यं न दृश्यते || ३-८४ || श्रीशिव उवाच | भेदो नास्ति महादेवि यथा बीजाङ्कुरो भवेत् | सैवाहं पुंस्वरूपेण स्त्रीरूपेणाहमेव हि || ३-८५ || प्. ३३) आवाभ्यां न हि भेदोऽस्ति भेदस्त्वज्ञानसम्भवः | उपदिष्टोऽस्मि देवेशि ह्यनुत्तरगुणार्णवे || ३-८६ || त्वत्प्रासादादिदं सर्वं न वै विस्मृतमेव हि | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३-८७ || श्रीदेव्युवाच | पूर्वं संसूचितं नाथ स्वप्नमन्त्रविवेचनम् | न मह्यं कथितं नाथ मम वा योग्यता न हि || ३-८८ || सर्वं मे कथ्यतां देव यद्यहं तव वल्लभा | श्रीशिव उवाच | एतावत्कालपर्यन्तं न कुत्रापि प्रकाशितम् || ३-८९ || तव प्रीत्या महेशानि कथ्यते शृणु साम्प्रतम् | पञ्चाशद्वै महापद्मा ह्यागमग्रन्था ईरिताः || ३-९० || तत्र मन्त्रा महादेवि सर्वेषु च प्रतिष्ठिताः | त्रिंशन्निखर्वषड्वृन्दनवत्यर्बुदकोटयः || ३-९१ || मन्त्राः प्रोक्ता महेशानि ह्यागमं कुत्र किं स्थितम् | तत् शृणु त्वं महेशानि यद्यहं तव वल्लभः || ३-९२ || महत्पंचाशत्पद्मे तु षट्विंशति भुवि स्थितम् | चतुर्दश स्थितं स्वर्गे दश पातालगोचरम् || ३-९३ || एवं क्रमेण देवेशि ह्यागमः कथितो मया | स्वप्नमंत्रा महादेवि त्रिधा वै परिनिष्ठिताः || ३-९४ || पाताले तु विराट्चक्रं स्वर्गे ताण्डवचक्रकम् | स्वर्गे चक्रद्वयं देवि त्रिपुराख्यं द्वितीयकम् || ३-९५ || आदौ विराट् ततो देवि शिवताण्डवमेव च | तृतीयं त्रिपुराख्यं तु स्वप्नमंत्रास्त्रिधा स्थिताः || ३-९६ || तत्रैव तु हृदन्ता ये ते विराट्चक्रगोचराः | अस्त्रान्तास्तु महेशानि शिवताण्डवगोचराः || ३-९७ || त्रिपुराचक्रमध्यस्था वह्निजायान्तिका मताः | एते मंत्राः त्वौत्सुक्येन भुवि स्वप्नेन गोचराः || ३-९८ || स्वप्नमार्गेण देवेशि उपदिष्टाः शिवेन तु | तेषां तु लक्षणं देवि शृणु यत्नेन साम्प्रतम् || ३-९९ || प्. ३४) पातालचक्रमंत्राणां लक्षणं शृणु साम्प्रतम् | अञ्जनं गुटिका गुप्तिश्चाज्ञासिद्धिस्तथैव च || ३-१०० || शिवाताण्डवचक्रस्य लक्षणं शृणु साम्प्रतम् | खद्गवेतालसिद्धिश्च परकायप्रवेशनम् || ३-१०१ || चराचरगतित्वं च ह्यणिमाद्यष्टकं तथा | त्रिपुराचक्रमंत्राणां लक्षणं शृणु पार्वति || ३-१०२ || मनोरथस्य चाक्लेशस्त्रिपुराचक्रमण्डले | षष्टिसिद्धीश्वरो भूत्वा भुवि स्वर्गे च भूतले || ३-१०३ || त्रिशङ्करस्था ये मन्त्रास्ते च कुत्र प्रतिष्ठिताः | अर्धनारीशचक्रे तु ते च तिष्ठन्ति पार्वति || ३-१०४ || त्रिधा शङ्करतां यातास्ते वै परशिवस्य च | मण्डले संस्थिता देवि सुन्दरीव तु लक्षणम् || ३-१०५ || पराप्रासादमंत्रो हि प्रासादपरयाऽथवा | यथा द्विधात्वमापन्नस्तत्रापि च महेश्वरि || ३-१०६ || आद्यं यत्तु भवेद्देवि तदाद्यशङ्करो मतः | स शङ्करः परावत्स्यात्किमन्यच्छ्रोतुमिच्छसि || ३-१०७ || श्रीदेव्युवाच | स्वप्नलब्धे महादेवि ऋषिच्छन्दादिकं कथम् | ऋषिच्छन्दादिकं यन्न स्वप्ने प्रोक्तं महेश्वर || ३-१०८ || तथा पीठादिकं ध्यानं यन्न प्रोक्तं महेश्वर | यत्र नोक्तं महादेव तत्र किं च कथं भवेत् || ३-१०९ || श्रीशिव उवाच | ऋषिः शिव इति प्रोक्तो गायत्रीच्छन्द ईरितम् | चिद्रूपा देवता देवि कीलकाद्यं न विद्यते || ३-११० || द्रविडाख्यं मतं प्रोक्तं काश्मीरं शृणु यत्नतः | ऋषिच्छन्दाद्यनुक्ते तु ऋषिर्ब्रह्मा महेश्वरि || ३-१११ || गायत्रीच्छंद आदिष्टं को विजानाति पार्वति | स्वराः शक्तय इत्युक्तास्त्वव्यक्तं कीलकं मतम् || ३-११२ || प्. ३५) पीठं तु मातृकापीठं ध्यानादि मातृकोक्तवत् | गौडक्रमे महेशानि सिद्धमंत्रतया शिवे || ३-११३ || न ऋषिच्छंदसी देवि न पूजानियमः शिवे | जपमात्रेण सिद्धिः स्यान्नात्र कार्या विचारणा || ३-११४ || न चक्रशोधनादीनि सिद्धमन्त्रे महेश्वरि | सिद्धमंत्रे विकल्पश्चेत्सिद्धत्वं तस्य गच्छति || ३-११५ || न ऋणं न धनं वापि जपमात्रेण सिद्धिदः | पुरश्चर्यादिकं देवि पूर्ववत्परिकीर्त्तितम् || ३-११६ || न षडङ्गं महेशानि चैतन्येशी तु देवता | प्राणप्रतिष्ठाध्यानं तु ध्यानमात्रं प्रकीर्त्तितम् || ३-११७ || तेजःपुंजं मंत्रवर्णध्यानं सर्वार्थसिद्धिदम् | मूलमंत्रषडावृत्या षडङ्गं न्यासमाचरेत् || ३-११८ || पदं यत्र भवेद्देवि तेन वा न्यसनं चरेत् | यत्र प्रोक्तं षडङ्गाद्यं तत्र वै तत्समाचरेत् || ३-११९ || पीठेऽनुक्ते शक्तिपीठं ध्यानेऽनुक्ते तु मातृका | पूरश्चर्याद्यनुक्ते तु दिक्सहस्रं जपेत् प्रिये || ३-१२० || द्वाविंशाक्षरपर्यन्त दिक्सहस्रं प्रकीर्त्तितम् | तदुत्तरं महादेवि गजान्तकसहस्रकम् || ३-१२१ || स्वप्नलब्धे स्रिया दत्ते ह्यन्तरं तु कियद्भवेत् | संस्कारे साम्यता देवि घटसंस्कारमात्रके || ३-१२२ || सिद्धारिचक्रं देवेशि नाममात्रं तु शोधयेत् | ऋणचक्रं विचिन्त्याथ रुद्रचक्राणि संन्यसेत् || ३-१२३ || ऋणधनाख्यचक्रं हि सर्वत्र कीर्त्तितं मया | ऋणचक्रं विहायाथ दशार्बुदमितं जपेत् || ३-१२४ || न तस्य सिद्धिर्देवेशि देवताशापमाप्नुयात् | स्वस्य नास्ति ऋणित्वं हि देवे दोषो हि दीयते || ३-१२५ || दिषो न दद्याद्देवेषु चोत्तमर्णं जपेत्सदा | ऋणिमत्रं समाश्रित्य यो मंत्रान्विविधान्जपेत् || ३-१२६ || इह सिद्धीश्वरो भूत्वा परे शिवसमो भवेत् | मंत्रे संशोध्यमाने तु ऋणं हि दृश्यते प्रिये || ३-१२७ || श्रीदेव्युवाच | सिद्धिः स्वानुभवादेव तत्र किं वर्तते प्रभो | प्. ३६) श्रीशिव उवाच | पूर्वं संसाधितो मंत्रः स ऋणीत्यभिधीयते || ३-१२८ || तद्युगस्थाननाम्ना तु स ऋणी परिनिष्ठितः | तत्प्रभावान्महेशानि स मंत्रः सिद्धिदायकः || ३-१२९ || स्वप्नमध्ये तु संप्राप्तश्चमत्कारो न विद्यते | शोध्यमाने महाचक्रे न ऋणी दृश्यते स्फुटम् || ३-१३० || स मंत्रस्तु धनी देवि शिष्येभ्यश्चोपदेशयेत् | श्रीदेव्युवाच | पूर्वं प्रोक्तं त्वया देव स्वप्नलब्धादयः प्रभो || ३-१३१ || स्वप्नलब्धा स्त्रिया दत्ता मालामंत्रादिकाः प्रिय | सिद्धमंत्रा इति प्रोक्तास्त्वन्यथा प्रतिपादितम् || ३-१३२ || तत्र मे संशयो जातस्तन्मे वद् महेश्वर | श्रीशिव उवाच | सत्यमेतन्महेशानि सिद्धत्वं वर्तते स्फुटम् || ३-१३३ || यत्रास्ति प्रत्ययो देवि स सिद्धः परिकीर्त्तितः | प्रत्ययो नास्ति देवेशि स धनी परिकीर्त्तितः || ३-१३४ || सिद्धत्वं प्रत्यये देवि न सर्वे सिद्धतां गताः | पूर्वसंस्कारवशतस्त्वन्ये मन्त्राः प्रकीर्त्तिताः || ३-१३५ || पारंपर्येण संप्राप्ताः संस्कारवशतः शिवे | तस्मादृणधनं शोध्य मंत्रो जप्यः शुभेच्छुना || ३-१३६ || पूर्वनाम्ना ऋणित्वं हि तथैव विद्यमानता | ईदृशस्तु महेशानि महाभाग्येन लभ्यते || ३-१३७ || संस्कारेण तु सम्प्राप्तस्त्वधुना ऋणतां गतः | सोऽपि वै तादृशो देवि न धनी तादृशो मतः || ३-१३८ || चक्रपंचकमध्ये तु ह्येतद्योज्यं महेश्वरि | इति संक्षेपतः प्रोक्तं साधनान्तं प्रकीर्त्तितम् || ३-१३९ || पुंस्त्रीनपुंसका देवि फट् स्वाहा हृत् क्रमात्स्मृताः | इति संक्षेपतः प्रोक्तं साधनं कथ्यते शृणु || ३-१४० || अस्त्रमध्ये त्वस्त्रमंत्राः वह्निकांतान्तिकाः स्त्रियाम् | नमोऽन्ताः शिवमन्त्रेषु ह्यन्तर्भूता इतीरिताः || ३-१४१ || प्. ३७) केचिद्द्विमातृकोक्तं हि ध्यानमिच्छन्ति पार्वति | केचित् नश्यन्तु काश्मीरा द्विधा भेदः प्रकीर्त्तितः || ३-१४२ || पंचायतनयोगेन मन्त्रार्थेन महेश्वरि | पल्लवेनाथ देवेशि ह्यन्तर्भूता भवन्ति हि || ३-१४३ || भुवि स्थितास्तु ये मन्त्राः पल्लवैः संगता यदि | ते हि स्वप्नेषु सम्प्राप्तास्तेषां कुत्र प्रयोजना || ३-१४४ || केचित्तु कवचे प्रोक्ताः केचित्स्तोत्रे प्रकीर्त्तिताः | प्रधानवत्तु ते सर्व संजप्याः परमेश्वरि || ३-१४५ || प्रधानोक्तं तु यत्कर्म तत्तत्सर्वत्र कीर्त्तितम् | तत्रोदाहरणं देवि नीलसारस्वते स्मर || ३-१४६ || गुरूपदिष्टा देवेशि पुरश्चर्या प्रकीर्त्तिता | तत्र मार्गक्रमो देवि कथितः पूर्ववत्प्रिये || ३-१४७ || केरले तु पुरश्चर्या दशाङ्गा परिकीर्त्तिता | अष्टाङ्गा तु पुरश्चर्या काश्मीरे कथिता मया || ३-१४८ || पंचाङ्गा तु पुरश्चर्या गौडमार्गे प्रकीर्त्तिता | स्वप्नलब्धे महेशानि अङ्गे पुरस्क्रिया मता || ३-१४९ || जपो होमो ब्राह्मणानां भोजनं त्रितयं मतम् | स्वप्नलब्धे पुरश्चर्या दोषद्वयनिवारणम् || ३-१५० || जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् | सूतकद्वयसंयुक्तः स मन्त्रो नैव सिध्यति || ३-१५१ || श्रीदेव्युवाच | जातसूतकदोषस्य वारणं केन वा भवेत् | तन्मे वद महादेव श्रीशिव उवाच | लिखेदष्टदलं शुभम् || ३-१५२ || तन्मध्ये कलशं स्थाप्य तत्र वै वटपत्रकम् | वटपत्रे कुंकुमेन लिखित्वा मंत्रमेव तु || ३-१५३ || कलशं पुरतः स्थाप्य गुरोः प्राणान्निवेशयेत् | गुरोः सकाशाद्ग्रहणं जातसूतकवारणम् || ३-१२४ || श्रीदेव्युवाच | मृतसूतकदोषो हि कीदृशः परमेश्वर | श्रीशिव उवाच | विना पुरस्क्रियां देवि मंत्रो मृत इतीरितः || ३-१५५ || प्. ३८) जीवहीनो यथा देहः सर्वकर्मसु न क्षमः | पुरश्चरणहीनो हि तथा मन्त्रः प्रकीर्त्तितः || ३-१५६ || तस्मात्कुर्यात्पुरश्चर्यां मृतदोषप्रशान्तये | यो मन्त्रश्चेतनायुक्तः स मन्त्रः सिद्धिदायकः || ३-१५७ || चैतन्यं तु पुरश्चर्या चैतन्यं गुरुरेव च | यंत्रचैतन्यकं देवि मंत्रचैतन्यकं तथा || ३-१५८ || गुरुचैतन्यकं चैव चैतन्यत्रितयं मतम् | चैतन्यत्रयहीनो यः स मंत्रः सिद्धिदो न हि || ३-१५९ || स्वप्नलब्धो धनी चेत्स्यात्तदा किं वा विधीयताम् | मन्त्रानुसारतो देवि पुरश्चर्यां समाचरेत् || ३-१६० || तत्तच्चक्रानुसारेण होमकर्म समाचरेत् | अनुक्तहोमद्रव्ये तु तिलैर्होमः प्रकीर्त्तितः || ३-१६१ || घृतेन कथितो देवि यवेनापि तथैव हि | केवलं घृतहोमेन वरदाः सर्वशक्तयः || ३-१६२ || एवं पुरस्क्रियां कृत्वा सिद्धत्वं प्रविचार्य च | मण्डलांतं परीक्ष्याऽथ ह्यथवा त्वयनान्तकम् || ३-१६३ || वत्सरान्तं चावलोक्य सहस्रं प्रत्यहं जपेत् | चमत्कारो न जायेत तदा शिष्यो वदेद्गुरुम् || ३-१६४ || ऋणादिकं विचार्याऽथ शिष्याय प्रवदेच्छिवे | अन्यथा विकलो भूयाच्छिष्यपां गुरौ भवेत् || ३-१६५ || त्यागं न कुर्याद्देवेशि मन्त्रत्यागे दरिद्रता | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३-१६६ || श्रीदेव्युवाच | भुलोकस्थो महामन्त्रः स्वप्नमध्ये समागतः | तत्र किं वा प्रकर्तव्यं किं तत्र मण्डलं भवेत् || ३-१६७ || श्रीशिव उवाच | पूर्वं संसाधितो मन्त्रो दत्तः केनाप्यसाधितः | स ऋणी वा धनी वाऽपि विचार्य साधयेत्प्रिये || ३-१६८ || तत्तत्कल्पोक्तरीत्या तु पुरश्चरणमाचरेत् | पारम्पर्य विहीनत्वात्पूर्वसंसाधनात्प्रिये || ३-१६९ || स्वप्नद्वारा तु सम्प्राप्तस्तं मन्त्र साधयेत्प्रिये | अरिमन्त्रः स्वप्नमध्ये प्राप्तश्चेत्किं विधीयताम् || ३-१७० || प्. ३९) पल्लवं योजयेद्वापि त्याज्यो वा यत्नतः शिवे | पल्लवैः संयुतो यो हि मन्त्रान्तरमुपागतः || ३-१७१ || मूलप्रकृतिवद्देवि सर्वं प्रोक्तं मया तव | अस्त्रप्रकरणाद्देवि ह्यस्त्रमध्ये प्रयोजना || ३-१७२ || मंत्रप्रकरणाद्देवि मन्त्रमध्ये नियोजयेत् | मूलप्रस्तारमार्गेण दर्शनादिक्रमेण तु || ३-१७३ || षडाम्नायक्रमेणैव प्रस्तारद्वारतः शिवे | मंत्रमात्रे तथा विद्यामात्रे प्रस्तारसाधना || ३-१७४ || पूर्वमेव मया प्रोक्ता संख्यां शृणु महेश्वरि | मन्त्रविद्यादिभेदैस्तु आम्नायदर्शनादिकैः || ३-१७५ || पारे परार्द्धसंख्याता मंत्रा जाता महेश्वरि | कलौ प्रस्तारहीनत्वादङ्गा एव प्रकीर्त्तिताः || ३-१७६ || प्रस्ताररूपं यज्ज्ञानं गुह्याद्गुह्यतरं शिवे | आदिनाथो विजानाति नाहं जानामि पार्वति || ३-१७७ || श्रीमहासुन्दरी विद्या काली कामकला तु सा | आदिनाथपरशिवौ बीजाङ्कुरसमानकौ || ३-१७८ || तथा कामकला काली श्रीमहासुन्दरी प्रिये | सर्वं संक्षेपतः प्रोक्तं रहस्यं शृणु पार्वति || ३-१७९ || स्त्रीलब्धे देवदेवेशि श्रीमद्देवीपरंपरा | स्वप्नलब्धे महादेवि दक्षमूर्त्तिपरंपरा || ३-१८० || पूजयेद्दक्षिणामूर्त्तिं गुरुत्वेन महेश्वरि | चतुष्कं पूजयेदादौ किमन्यच्छ्रोतुमिच्छसि || ३-१८१ || षडाम्नायस्य मंत्राणां प्रस्तारगणना शिवे | षडाम्नायस्य प्रस्तारास्त्रिशद्वृन्दनिखर्वकाः || ३-१८२ || पंचार्बुदेति मंत्राः स्युः पूर्वाम्नाये महेश्वरि | दक्षाम्नाये महेशानि नवत्यर्बुदकोटिकम् || ३-१८३ || पंचखर्वेण संयुक्ता मंत्राः प्रोक्ता महेश्वरि | आम्नाये पश्चिमे देवि त्रिंशदर्बुदपद्मकाः || ३-१८४ || मंत्राः प्रोक्ता महेशानि चोत्तरं शृणु सादरम् | पंचाशद्वै महापद्म षडर्बुदत्रिवृंदकम् || ३-१८५ || प्. ४०) ऊर्ध्वाम्नाये महादेवि प्रस्तारगणनां शृणु | अष्टार्बुदं कोटिवृन्दं पंचशङ्खेति कीर्त्तिताः || ३-१८६ || पातालाम्नायगणनां शृणु यत्नेन साम्प्रतम् | कोट्यर्बुदं त्रिनवति वृंदं पद्मेन संयुताः || ३-१८७ || मंत्राः पातालप्रसातरमध्यस्थाः परमेश्वरि | षडाम्नायस्य प्रस्ताराः प्रोक्ता यत्नेन शाङ्करि || ३-१८८ || न प्रकाश्या यत्र कुत्र गणनामात्रगोचराः | गणितं यो हि जानाति शिवसिद्धान्तगं शिवे || ३-१८९ || अष्टाविंशतिसिद्धान्ते यस्य ज्ञानं भवेत् प्रिये | श्रीसिद्धान्तमते देवि प्रस्तारज्ञानमेव हि || ३-१९० || प्रस्तारज्ञो महेशानि कलौ दुर्लभ एव हि | गणना कथिता देवि प्रकारः कथ्यते शृणु || ३-१९१ || एतत्प्रस्तारविज्ञानी शिवरूपो न संशयः | प्रस्तारज्ञस्य मुखतो यद्यन्निर्याति तत्प्रिये || ३-१९२ || शिववाक्यसमं तत्तत् किमुत फलकत्थनम् | इति संक्षेपतः प्रोक्तं प्रस्तारः कथ्यते परः || ३-१९२ || श्रीदेव्युवाच | संसूचितं तु यत्पूर्वं कथ्यतामपि साम्प्रतम् | मन्त्रे वृत्तं महादेव कथं ध्यायेद्धि तद्वद || ३-१९३ || होमतर्पणकार्याणि कथं कार्याणि तद्वद | श्रीशिव उवाच | दलमूलं तु यद्वृत्तं तदाधारस्थमीरितम् || ३-१९५ || दलोपरिस्थं वृत्तं हि शृणु त्वं प्राणवल्लभे | चन्द्रसूर्याग्निभमयं व्यत्ययेन प्रकीर्त्तितम् || ३-१९६ || एते प्रसिद्धा देवेशि न हि चन्द्राः प्रकीर्त्तिताः | देव्याः कोट्यर्बुदकला सदोदेति हि यत्र वै || ३-१९७ || स चन्द्रः स च सूर्यश्च सोग्निर्मुख्य इतीरितः | षडन्वये महेशानि ते च प्रोक्ता मया तव || ३-१९८ || त्रिरूपं वृत्तत्रितयं तेजोरूपं महेश्वरि | विराट्स्वरूपं यत्प्रोक्तं तदेव परिनिष्ठितम् || ३-१९९ || प्. ४१) अन्यत्र स्मरणीयं हि सवृत्तिध्या न कर्मणि | तेजः पुंजनिभा देवि परिखां संस्मरेत्सदा || ३-२०० || उत्तरोत्तरतो देवि सगुणध्यानकर्मणि | उत्तरोत्तरतोच्चत्वे चिन्त्यमाने महेश्वरि || ३-२०१ || साम्मुख्यं चैव सर्वेषां वर्तते प्रियवादिनि | यथोच्चनीचस्थानेषु सर्वा आवृत्तयो मताः || ३-२०२ || इति कारणतो मुख्यो मेरुप्रस्तार ईरितः | कैलासाख्यस्तथा देवि प्रस्तारः परिकीर्त्तितः || ३-२०३ || रत्नगर्भाख्यप्रस्तारस्तृतीयः परिकीर्त्तितः | आद्यप्रस्तारे देवेशि सर्वेषां दर्शनं समम् || ३-२०४ || कैलासाख्ये महेशानि केषांचिदंतरायिताः | रत्नगर्भाख्यप्रस्तारे मुख्या मताः प्रकीर्त्तिताः || ३-२०५ || आवृत्तयस्तु देवेशि त्रिधा भेदत्वमागताः | नोचेत्त्रिधात्वं किमर्थं विश्वरूपत्वमेव तु || ३-२०६ || सर्वत्र कीर्त्तितं पूर्वं सत्यमेव महेश्वरि | अधिकारवशाद्देवि तत्तत्स्थानसमाश्रयः || ३-२०७ || होमकर्म शृणु प्राज्ञे पूर्वप्रश्नोत्तरं तव | होमे स्वाहां प्रयुञ्जीत हृन्मन्त्रस्तर्पणे मतः || ३-२०८ || तथाभिषेके देवेशि हृन्मन्त्रः परिकीर्त्तितः | होमेऽग्निजाया या प्रोक्ता सा होमे परिनिष्ठिता || ३-२०९ || मंत्रमध्ये यदा वह्निजाया द्वे वर्तते प्रभो | मंत्रांते चैव हृन्मंत्रास्तथा वह्नि प्रिया विभो || ३-२१० || मंत्रेणैव तु निर्वाहो द्वितीया किं प्रयोज्यताम् | मंत्रांते या वह्निजाया सा तु मंत्रस्वरूपिणी || ३-२११ || होमाङ्गत्वे द्वितीया तु कीर्त्तिता वै मया तव | तथैव तर्पणे विद्धि हृन्मंत्रस्तु द्वितीयकः || ३-२१२ || एवं न कुरुते यस्तु स हीनायुर्भवेच्छिवे | होमकर्म तु कार्यं स्यान्मंत्रे सिद्धे फलं भवेत् || ३-२१३ || सैवाग्निजाया चेद्धोमे गृह्यते प्राणवल्लभे | स्वस्य प्रभुत्वमायाति मंत्राः क्लिन्ना भवेत्प्रिये || ३-२१४ || प्. ४२) क्लिन्नदोषनिवृत्यर्थं होमे स्वाहा मयेरिता | स्वानन्दोपनिवृत्यर्थं हृन्मन्त्रस्तर्पणे मतः || ३-२१५ || मन्त्रक्षोभे महेशानि हुंफडादि तु वर्तते | तथापि पल्लवत्वेन पुनर्देयं महेश्वरि || ३-२१६ || हृन्मंत्रेण पुटीकारे क्रियमाणे महेश्वरि | मंत्रक्षोभनिवृत्तिस्तु सर्वथा जायते शिवे || ३-२१७ || मंत्रमध्ये नतिर्देवि वर्तते यद्यपि प्रिये | तथापि संपुटत्वेन पुनर्देया महेश्वरि || ३-२१८ || हृदयादि षडस्त्राणां पुरश्चर्योच्यते शृणु | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३-२१९ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यं भावनाक्रमे | श्रीशिव उवाच | स्वाहान्तः सर्वकार्यार्थं फडंतः क्रूरकर्मणि || ३-२२० || नमोऽन्तो मारणादौ तु मंत्रजातेः फलं स्मृतम् | शक्तौ स्त्रीषु च मंत्रेषु रुद्राक्षं वर्जयेच्छिवे || ३-२२१ || अथ वक्ष्यामि देवेशि चतुर्णामैक्यभावनाम् | गुरुदैवतमंत्राणां स्वाभिन्नत्वेन भावना || ३-२२२ || गुरुतेजःस्वरूपं हि कूटमेकं विभावयेत् | देवचैतन्यकूटं हि तेजोरूपं विभावयेत् || ३-२२३ || मंत्राक्षराणां चैतन्यं ज्वलत्पर्वतसन्निभम् | स्वात्मचैतन्यकूटं हि तथैव मेरुतुल्यकम् || ३-२२४ || एकीभूतं चतुस्तेजो ब्रह्माण्डव्यापकं शिवे | कोटिकालानलप्रख्यं यमसूर्यसमप्रभम् || ३-२२५ || चन्द्रार्बुदसमं देवि विराड्रूपं विभावयेत् | तेजःपुंजः विभाव्याथ तत्र मूर्तिं प्रकल्पयेत् || ३-२२६ || तत्रेष्टदेवतां रम्यां कोटिकन्दर्पसन्निभाम् | ध्यानोक्तां तां तु सन्ध्यात्वा जपं कुर्यात् समाहितः || ३-२२७ || अथवा सकलं ध्यायेत्तेजःपुंजनिभं शिवे | एकीभूतं च तत्तेजः सदा ध्यायेन्महेश्वरि || ३-२२८ || अथांतर्मातृकां वक्ष्ये पारंपर्यक्रमागताम् | षड्दलानां स्वरूपं तु पूर्वमेव प्रकीर्त्तितम् || ३-२२९ || प्. ४३) वर्णोच्चारादिकं सर्वं प्रोक्तं तुभ्यं मया शिवे | न्यसनस्य क्रमं देवि विलाससम्प्रदायके || ३-२३० || कथ्यते शृणु देवेशि रहस्यातिरहस्यकम् | ब्रह्माण्डात्कीटपर्यन्तं शिवशक्तिमयं ध्रुवम् || ३-२३१ || शिवशक्तिमये मार्गे पराप्रासादगोचरे | श्रीप्रासादपरापि स्याद्धिंदुसर्गान्वितापि सा || ३-२३२ || हसंशक्तिमनुयुतं बिन्दुनादान्वितं शिवे | श्रीप्रासादपरामन्त्रः कीर्त्तितः परमेश्वरि || ३-२३३ || हाद्यमादौ समुद्धृत्य मध्येर्णं बिन्दुसंयुतम् | साद्यमंते समुच्चार्य न्यसनीयं क्रमेण तु || ३-२३४ || प्रत्यर्णं विन्यसेद्देवि योगं बाह्यमुपाचरेत् | साद्यं हाद्यं साद्यहाद्ये वर्णादौ तु समुच्चरेत् || ३-२३५ || ततो वर्णं समुच्चार्य न्यसनीयं महेश्वरि | हाद्येन केवलेनैव संपुटीकृत्य मंत्रवित् || ३-२३६ || साद्येन केवलेनैव सम्पूटीकृत्य मंत्रवित् | साद्ययोगं ततो वर्णं न्यसेद्देवि यथाक्रमात् || ३-२३७ || हाद्ययोगं ततो वर्णं न्यसेद्देवि यथाक्रमात् | श्रीबीजं तु समुद्धृत्य श्रीप्रासादपरा ततः || ३-२३८ || पुनः श्रीबीजमुद्धृत्य ततोर्णं तु समुच्चरेत् | अनेन सम्पुटीकृत्य न्यसेत्तत्तत्स्थले शिवे || ३-२३९ || श्री/ स्रा/ ततः श्री/ वै वर्णं ततः श्री/ तु समुद्धरेत् | पुनः श्रीबीजमुद्धृत्य हसौ/ श्री/ तु समुच्चरेत् || ३-२४० || एवं संपुटयोगेन न्यसनीयं महेश्वरि | श्रीबीजपुटितं हाद्यं ततो वर्णं समुच्चरेत् || ३-२४१ || आदौ बीजं ततो वर्णं व्यसेत्तत्तत्स्थले प्रिये | श्रीबीजं तु ततः साद्यं पुनः श्रीबीजमुच्चरेत् || ३-२४२ || अनेन संपुटीकृत्य न्यसेद्यत्नेन शाम्भवि | श्रीबीजपुटितं साद्यं ततो वर्णं समुच्चरेत् || ३-२४३ || अनेन क्रमयोगेन सुन्दरी सुप्रसीदति | साद्यं श्रीबीजपुटितं ततो वर्णं महेश्वरि || ३-२४४ || हाद्यं श्रीबीजपुटितं वर्णान्ते तु समुच्चरेत् | एवं विन्यस्य यत्नेन साक्षात्सिद्धीश्वरो भवेत् || ३-२४५ || प्. ४४) श्रीबीजपुटितं हाद्यं साद्यं श्रीपुटितं तथा | ततो वर्णं महेशानि पूर्वबीजानि चोच्चरेत् || ३-२४६ || एवं हि सम्पुटीकृत्य सद्योगं समुपाचरेत् | साद्यं श्रीबीजपुटितं हाद्यं श्रीपुटितं ततः || ३-२४७ || ततो वर्णं पुनर्बीजं न्यसेत्साधकसत्तमः | योगं कृत्वाऽथवा देवि न्यसनीयं महेश्वरि || ३-२४८ || श्रीबीजपुटितं हाद्यं साद्यं च तत्पुटीकृतम् | वर्णं तत्पुटितं कृत्वा योगं च समुपाचरेत् || ३-२४९ || साद्यं श्रीबीजपुटितं हाद्यं च तत्पुटीकृतम् | एतस्तु पुटितं वर्णं योगं च समुपाचरेत् || ३-२५० || हाद्यं श्रीपुटितं देवि साद्यं श्रीपुटितं तथा | पुनर्हाद्यं श्रीपुटितं ततो वर्णं समुच्चरेत् || ३-२५१ || एतैस्तु सम्पुटीकृत्य पुनर्योगं समाचरेत् | साद्यं श्रीपुटितं देवि हाद्यं श्रीपुटितं तथा || ३-२५२ || पुनः साद्यं श्रीपुटितं ततो वर्णं तु पूर्ववत् | हाद्यं श्रीपुटितं देवि साद्यं श्रीयोगयुक्तकम् || ३-२५३ || पुनर्हाद्यं श्रीपुटितं वर्णं तैस्तु पुटीकृतम् | आदौ योगं च वा कृता ततः साद्यं तु हाद्यवत् || ३-२५४ || हाद्यं श्रीपुटितं देवि साद्यं श्रीपुटितं तथा | पुनर्हाद्यं श्रीपुटितं हसौन्तैस्तु पुटीकृतम् || ३-२५५ || योगं कृत्वाथवा देवि हसौ श्रीपुटितं च वा | एतैस्तु पुटितं वर्णं हसौ श्रीपुटितं च वा || ३-२५६ || श्रीहसौमितिमध्ये वा हसौ श्रीमिति वा शिवे | हाद्यं श्रीपुटितं देवि साद्यं श्रीपुटितं तथा || ३-२५७ || पुनर्हाद्यं श्रीपुटितं हसौन्तैस्तु पुटीकृतम् | योगम् कृत्वाथवा देवि स्हौं श्रीपुटितं च वा || ३-२५८ || एतैस्तु पुटितं वर्णं योगं वा पूर्ववच्छिवे | साद्यं श्रीपुटितं देवि हाद्यं श्रीपुटितं तथा || ३-२५९ || पुनः साद्यं श्रीपुटितं स्हौन्तैस्तु पुटीकृतम् | एतैस्तु पुटितं वर्णं स्हौं श्रीपुटितं च वा || ३-२६० || प्. ४५) श्री/ स्हौमिति वा मध्ये स्हौं श्रीमिति वा प्रिये | बिन्दुसर्गान्वितं कृत्वा न्यसनीयं महेश्वरि || ३-२६१ || हाद्यं साद्यं महेशानि श्रीयुतं पुटितं च वा | पूर्वोक्तैः पुटितं ह्येतत् युक्तं वा परमेश्वरि || ३-२६२ || उत्तरोत्तरयोगेन पुटितं संयुतं च वा | हाद्यसाद्यक्रमेणैव पारायणक्रमं विदुः || ३-२६३ || पारायणक्रमाः सर्वाः प्रोक्ताः पूर्वं मया सिवे | अयं क्रमो महेशानि देवानामपि दुर्लभः || ३-२६४ || नाख्येयो यत्र कुत्रापि त्वन्यथा त्वन्यथा शापमाप्नुयात् | अनन्तपादुकाख्योऽयं क्रमः प्रोक्तो मया शिवे || ३-२६५ || अन्यपारायणैर्देवि सूक्ष्मकालेन जायते | एवं षट्चक्रभेदेषु पारायणमुदीरितम् || ३-२६६ || मेधादीक्षा यस्य भवेत्तस्यात्रैवाधिकारिता | मेधादीक्षां विना देवि चक्रपारायणं चरेत् || ३-२६७ || स च मृत्युमवाप्नोति रौरवं नरकं व्रजेत् | परकायप्रवेशादि यस्य हस्ते विराजते || ३-२६८ || तस्य मेधादीक्षणं हि गदितं तु मया शिवे | मया पूर्वं महेशानि षड्वारं तु कृतं च वै || ३-२६९ || अहं किचित्तु जानामि तवाग्रे तु प्रकाशितम् | पूर्ण जानाति देवेशि सुन्दरी परदेवता || ३-२७० || नान्यो जानाति देवेशि संक्षेपाद्गदितं मया | पूर्णाभिषेकयुक्तो हि नामपारायणं तथा || ३-२७१ || मंत्रपारायणं देवि नाडीपारायणादिकम् | मेधादिक्षासमायुक्तश्चक्रपारायणं चरेत् || ३-२७२ || अल्पायुष्यादधर्मत्वात्पारुष्यजल्पनात् शिवे | कलौ देवेशि नान्येषामधिकारो मयेरितः || ३-२७३ || बालाधिकारी या देवि तस्य विद्याधिकारिता | विद्याधिकारे सम्पन्ने षोडश्यामधिकारवान् || ३-२७४ || षोढाविद्यादि सम्पन्नः पराविद्याधिकारवान् | पराधिकारसंयुक्तः पराप्रासादवान् भवेत् || ३-२७५ || प्. ४६) श्रीप्रासादपरायुक्तो निर्वाणाधिपतिर्भवेत् | निर्वाणदीक्षासंयुक्तः षडन्वयविधौ शिवे || ३-२७६ || अधिकारी भवेत् सो हि तत्त्वं शृणु महेश्वरि | षडन्वयसमायुक्तो मेधादीक्षाधिकारवान् || ३-२७७ || षडन्वयान्तगं कृत्वा मेधादीक्षणमाचरेत् | मेधादीक्षणयुक्तश्चेत् चक्रपारायणं चरेत् || ३-२७८ || चक्रपारायणे संख्या सुन्दरीचरणान्तकी | बहिः पारायणे संख्या गदिता तृतयेऽपि च || ३-२७९ || तथैव कालिकायास्तु प्रोक्ता श्रीचरणान्तकी | यदैव दर्शनं जातं तदैव तु समापनम् || ३-२८० || बहिरन्तरयोर्भेदस्त्वेतावद्वर्तते शिवे | प्रस्तारषोडशान्तं हि कलौ पारायणं चरेत् || ३-२८१ || अत्र पारायणं नाम न्यसनं परमेश्वरि | हठात्तैरपशुर्यस्तु करोति परमेश्वरि || ३-२८२ || तस्य नाशो भवेद्देवि देवताशापमाप्नुयात् | मेधादिक्षासमायुक्तः षोडशोत्तरगं चरेत् || ३-२८३ || प्रस्तारक्रमयोगेन ज्ञातव्यं परमेश्वरि | बालदीक्षासमायुक्तश्चन्द्रप्रस्तारयुक् न्यसेत् || ३-२८४ || विद्यादीक्षासमायुक्तः साधनाद्यन्तगं न्यसेत् | सम्प्रदायक्रमेणैव विन्यसेत्साधकोत्तमः || ३-२८५ || पूर्णाभिषेकयुक्तो हि बह्निप्रस्तारसम्पुटान् | परादीक्षणयुक्तो हि भूतप्रस्तारसम्पुटान् || ३-२८६ || श्रीप्रासादपरायुक्तो मुनिप्रस्तारसम्पुटान् | निर्वाणदीक्षासंयुक्तो नन्दप्रस्तारसम्पुटान् || ३-२८७ || षडन्वयसमायुक्तः कलाप्रस्तारसम्पुटान् | योगं त्वथ प्रकुर्वीत ह्यादावन्तेऽपि पार्वति || ३-२८८ || मध्ये वर्णं तु कृत्वा च वर्णसम्पुटितं न्यसेत् | पूर्णाभिषेकयुक्तो हि षडन्वयसमः शिवे || ३-२८९ || षडन्वयानां यत्कर्मं तदेतस्यापि कीर्त्तितम् | षडन्वयोत्तरं देवि मेधादीक्षां समाचरेत् || ३-२९० || प्. ४७) मेधादीक्षणसंयुक्तः प्रस्तारषोडशोत्तरम् | न्यासयोगेन देवेशि चक्रपारायणं चरेत् || ३-२९१ || आकर्षणं त्रिलोकानां वश्याज्ञासिद्धिरेव च | परकायप्रवेशश्च गुटिकासिद्धिरेव च || ३-२९२ || वायुस्तम्भस्तु वेतालसिद्धिस्तद्धस्तगोचराः | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ३-२९३ || श्रीदेव्युवाच | देव देव महादेव संसारस्थितिकारक | पूर्वं संसूचितं यन्मे तन्मे कथय शंकर || ३-२९४ || किमेतावन्महादेव ममापि गोपितं च यत् | श्रीशिव उवाच | महादेवि पराराध्ये सर्वकारणविग्रहे || ३-२९५ || प्राणायामरहस्यं हि कथ्यते शृणु साम्प्रतम् | प्राणायामः पञ्चधा स्यात्तत्क्रमं शृणु यत्नतः || ३-२९६ || कलाभिः पूरकं कुर्यान्महतीभिश्च कुम्भकम् | रेचकं च तदर्धाभिः पुनरेतत्त्रयं चरेत् || ३-२९७ || त्रिवारं त्रितयं कुर्यात्प्राणायामः प्रकीर्त्तितः | क्रमोत्क्रमेण देवेशि द्वितीयः परिकीर्त्तितः || ३-२९८ || कुम्भकान्तो महेशानि यतीनां वामचारिणाम् | रेचकं वा पूरकं वा कृत्वा द्विविध ईरितः || ३-२९९ || अवान्तराख्यभेदो हि कथितस्ते मया तव | तृतीयस्तु महेशानि कथ्यते ऽऽqऋणु साम्प्रतम् || ३-३०० || कलावृद्धिं तदर्द्धं च कृत्वादौ परमेश्वरि | अन्यदादि समारभ्य क्रमेणानेन कारयेत् || ३-३०१ || पूर्ववत्तु तृतीयं स्यादेवं वारत्रयं चरेत् | कुम्भकाद्यं तद्द्वयान्ते प्राणायामद्वयं भवेत् || ३-३०२ || पूर्वोक्तक्रमयोगेन तदन्यः परिकीर्त्तितः | द्वितीयाख्यक्रमेणैव द्वितीयः परिकीर्त्तितः || ३-३०३ || तृतीयाख्यक्रमेणैव तृतीयः परिनिष्ठितः | मालाशृङ्खलिकायोगात् तृतीयः परिकीर्त्तितः || ३-३०४ || प्. ४८) मालाशृङ्खलिकायोगनिरुक्तिं शृणु सादरम् | आद्यादन्तं चरेद्देवि ह्यन्तादाद्यं समाचरेत् || ३-३०५ || पुनराद्यं तथान्तं च प्राणायामः कलापतिः | अत्र पूर्वत्रयं कृत्वा प्रस्तारः परिकीर्त्तितः || ३-३०६ || पुनरन्तं तथाद्यं च यावत् तृतयकं भवेत् | कलाशृङ्खलिकाख्यस्तु प्राणायामः प्रकीर्त्तितः || ३-३०७ || कलावसुर्वेदसंख्यप्राणायामस्तथापरः | महामन्त्रविधौ देवि कीर्त्तितस्ते मया तव || ३-३०८ || अष्टौ वेदद्वितयकं ततोऽधिक्ये प्रकीर्त्तिताः | ततोऽधिक्ये महेशानि वेदनेत्रशशिक्रमात् || ३-३०९ || प्रस्ताराः कथिता देवि शृणु वर्णक्रमेण तु | कुम्भकाद्यं समारभ्य द्विविधोऽयं प्रकीर्त्तितः || ३-३१० || पूर्वोक्तवह्निभेदेन भेदबाहुल्यमीरितम् | कलाशृंखलिकायोगात्प्रस्तारः पूर्वसूचिताः || ३-३११ || वर्णक्रमो महेशानि कथ्यते शृणु साम्प्रतम् | स्वरैः पूरकमाचर्य वर्णैः कुम्भककं भवेत् || ३-३१२ || आद्या तु नासिका प्रोक्ता चतुस्त्रिंशतिकं पुनः | कृत्वा तु कुंभकं देवि द्विरावृत्या स्वरैः शिवे || ३-३१३ || रेचकं कारयेद्देवि प्राणायामत्रयं शिवे | पूर्वोक्तक्रमयोगेन प्रस्तारक्रम ईरितः || ३-३१४ || केवलेन स्वरेणैव कलाषट्वेदसंयुतम् | अत्र पूर्वोक्तयोगेन प्रस्तारभेदभाजनम् || ३-३१५ || ईडया कर्षयेद्वायुर्बाह्यषोडषमात्रया | धारयेत्पूरकं योगी चतुःषष्ट्या तु मात्रया || ३-३१६ || सुषुम्णामध्यगं सम्यक् द्वात्रिंशन्मात्रया शनैः | नाड्या पिङ्गलया चैनं रेचयेद्योगवित्तमः || ३-३१७ || प्राणायाममिमं प्राहुर्यागशास्त्रविशारदाः | भूयोभूयः क्रमात्तस्य व्यत्यासेन समाचरेत् || ३-३१८ || मात्रावृद्धिक्रमेणैव सम्यक् द्वादश षोडश | जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्बुधाः || ३-३१९ || प्. ४९) तदपेतं विगर्भं तु प्राणायामं परे विदुः | क्रमादभ्यसतां पुंसां देहे स्वेदभ्रमोद्गमः || ३-३२० || अगर्भं तु महेशानि एतदन्यं शृणु प्रिये | मध्यमः कम्पसयुंक्तो भूमित्यागोःऽपरो मतः || ३-३२१ || मध्यमस्तु ससन्धिः स्यात्परः साध्याख्यको भवेत् | पंचधा कथितो देवि प्राणायामक्रमो मया || ३-३२२ || प्राणायामजपासक्तः सिद्धयोगीश्वरो भवेत् | प्राणायामजपेनैव किन्न सिध्यति भूतले || ३-३२३ || पलनाडीमुहूर्ताख्यः तद्द्वयं प्रहरक्रमात् | दिवाहोरात्रयोगेन साधयेत् स्थिरमानसः || ३-३२४ || एवं साधयतः पुंसो योगाः सर्वेऽपि हस्तगाः | प्राणायामजपो देवि मुख्यत्वेन प्रकीर्त्तितः || ३-३२५ || तदभावे महेशानि प्राणायामं च वा चरेत् | भूतशुद्धिविधौ योज्यः शोषणादिविधौ शिवे || प्राणायामक्रमेणैव त्रिः सकृद्वा समाचरेत् | नंदसंख्या यदा भूयात्प्राणायामस्तदा चरेत् || केरलाख्यक्रमे देवि न च शोषणमीरितम् | काश्मीराख्यक्रमे देवि शोषणादि समाचरेत् || गौडः काश्मीरतुल्यः स्याच्चैतन्यस्तु चतुर्थकः | प्राणायामक्रमो देवि भूतशुद्धिक्रमोऽपि च || यथायोगं योजनीयं किमन्यच्छ्रोतुमिच्छसि | इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे प्राणायामजपो नाम तृतीयः पटलः || ३ || चतुर्थः पटलः | श्रीदेव्युवाच | पूर्वं संसूचितं यन्मे मंत्रप्रस्तारनिर्णयम् | तन्मे कथय देवेश यद्यहं तव वल्लभा || ४-१ || श्रीशिव उवाच | गोप्याद्गोप्यतरं देवि स्वयोनिरिव पार्वति | तर्हि तत्ते वदाम्यत्र न वक्तव्यं त्वया शिवे || ४-२ || चत्वारि शिवचक्राणि शक्तिचक्राणि पंच च | सामरस्याद्भवेच्चक्रं श्रीचक्रं सर्वरूपकम् || ४-३ || बिन्दोर्मन्वस्नपर्यन्तं शक्तिचक्रं प्रकीर्त्तितम् | तदुत्तरं महेशानि द्वारान्तं शिवचक्रकम् || ४-४ || शुद्धचक्रमिदं प्रोक्तमिदमेव त्रिधा भवेत् | भूः कैलासस्तथा मेरुप्रस्तारत्वेन पार्वति || ४-५ || भूप्रस्तारो द्विधा देवि पातालोर्ध्वक्रमेण तु | कैलासाख्यस्तु प्रस्तारो द्विविधः परिकीर्त्तितः || ४-६ || अर्द्धकैलाससंज्ञस्तु पूर्णकैलासकस्तथा | तथैव मेरुप्रस्तारः कीर्त्तितस्तु मया तव || ४-७ || सृष्टिस्थित्युपसंहारक्रमादष्टादशैव तु | सृष्टिस्थित्युपसंहारबीजलेखक्रमेण तु || ४-८ || ऋत्वग्निसंख्याः प्रस्तारास्त्वंकानां वामतो गतिः | नित्यायाश्चैव तादात्म्यं प्रस्तारे मेरुसंज्ञके || ४-९ || मातृकायाश्च तादात्म्यं कैलासाख्यं प्रकीर्त्तितम् | वाग्देवतायास्तादात्म्यं भूप्रस्तारे प्रकीर्त्तितम् || ४-१० || इमं यन्त्रं तु षोडश्यां कीर्त्तितं तु मया तव | शुद्धमष्टादशाख्यं हि मातृकालेखनक्रमात् || ४-११ || सृष्टिस्थित्युपसंहारे बाणवेदविपर्ययः | अथवा तु दलाकारं सिद्धं यंत्रं तु कारयेत् || ४-१२ || प्रस्तारैः पूर्वसंप्रोक्तैः सृष्टिस्थितिलयादिकैः | एवं यंत्रं तु निःशप्तं कीर्त्तितं तु मया तव || ४-१३ || नव संख्याविधैर्भेदैर्ललितायां महेश्वरि | प्रस्तारा बहवो देवि जायन्ते तानहं ब्रुवे || ४-१४ || प्. ५१) कादिहादिमतेनैव द्विधात्वं परिकीर्त्तितम् | षड्भेदाः कादिषट्के तु कामराजादिकेऽपि षट् || ४-१५ || एतद्विबोधनं देवि कथ्यते शृणु सत्वरम् | चतुर्दशारं देवेशि कामराजे तु भिद्यते || ४-१६ || लोपादिषट्के शुद्धेऽन्ये द्वितीयं परिभिद्यते | कादिषट्के तु हाद्ये च दशारे भेदभाजनम् || ४-१७ || लोपादिषट्के नेत्राख्ये दशारे भेदभाजनम् | एवं मिलित्वा देवेशि प्रस्तारा द्वादशेरिताः || ४-१८ || प्रत्येकं तु महेशानि पूर्वप्रस्तारभेदतः | सृष्टिस्थित्युपसंहारलेखनक्रमतः शिवे || ४-१९ || सृष्टिस्तित्युपसंहारक्रमयोगेन पार्वति | दलाकारक्रमेणैव प्रत्येकं भेदभाजनम् || ४-२० || एकैकपत्रे देवेशि शतमष्टोत्तरं शिवे | त्रयोदशप्रभेदैस्तु प्रस्तारः परिकीर्त्तितः || ४-२१ || चन्द्रचन्द्रषडङ्कं च मुनि ऋत्वङ्कसंख्यकम् || यन्त्राणि चोद्धृतान्यत्र प्रस्तारक्रमयोगतः || ४-२२ || रहस्यातिरहस्यं हि तव स्नेहादिहोदितम् | यस्य स्मरणमात्रेण साक्षाद्रुद्रो भविष्यति || ४-२३ || त्वया संकथिता देवि प्रस्ताराः पूर्वसूचितः | ते सर्वे कथिता देवि गोपनीयं स्वयोनिवत् || ४-२४ || एतदज्ञानतो देवि ह्यथवा ज्ञानमोहितः | यत्र कुत्र वसेद्देवि यत्र कुत्र प्रपूजकः || ४-२५ || स दरिद्रः प्रभवति नात्र कार्या विचारणा | श्रीविद्योपासको यो हि देवेन्द्र इव चापरः || ४-२६ || देवेन्द्रस्य महेशानि सिद्धलक्ष्मीः प्रकीर्त्तिता | श्रीविद्योपासकस्याथ लक्ष्मीनाम शृणु प्रिये || ४-२७ || सर्वसंभोगसाम्राज्यलक्ष्मीः तस्य गृहे स्थिता | स दरिद्रः कथं देवि श्रीमद्ब्रह्माण्डनायकः || ४-२८ || प्. ५२) एतदज्ञानतो देवि ज्ञानतोऽपि महेश्वरि | दरिद्रत्वं महेशानि भवत्येव न संशयः || ४-२९ || स दारिद्र्यमवाप्नोति नात्र कार्या विचारणा | ज्ञात्वाऽपि देवदेवेशि यत्र कुत्र वदेद् यदि || ४-३० || स दारिद्र्यमवाप्यान्ते रौरवं नरकं व्रजेत् | पूर्णाभिषेके न ब्रुवन्नामपारायणक्रमे || ४-३१ || मंत्रपारायणे देवि चक्रपारायणे तथा | मेधादीक्षान्तगा दीक्षा यस्य हस्ते विराजते || ४-३२ || तस्याधिकारो देवेशि यंत्रप्रस्तारनिर्णये | अधिकारो न चान्यस्य यः कुर्यात्स तु नारकी || ४-३३ || दारिद्र्यान्म्रियते जंतुः दारिद्र्ये तु निमज्जति | दारिद्र्यहरणं देवि योऽभिवांच्छति सर्वदा || ४-३४ || स दीक्षितः पुरा भूयात्पश्चात्प्रस्तारदर्शकः | एतज्जानाति यः सम्यक् स शिवो नात्र संशयः || ४-३५ || शिवः सत्यं शिवः सत्यं शिवः सत्यं न संशयः | शिव एव परो देवि सर्वथा पूजयेच्च तम् || ४-३६ || तस्य पूजनमात्रेण तुल्यो लक्ष्मीपतिर्भवेत् | किं बहूक्तेन देवेशि कादिहादिमतात्मकम् || ४-३७ || गोपनीयं महेशानि स्वयोनिरपरा यथा | राज्यं दद्यात् शिरो दद्यात् स्त्रियं दद्यान्महेश्वरि || ४-३८ || न तु दद्यादिदं शास्त्रं सर्वर्थाऽपि प्रगोपयेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ४-३९ || यन्त्रप्रस्तारनामानं स्तवं यः पठति प्रिये | सर्वसिद्धीश्वरः साक्षान्महादेव इवापरः || ४-४० || महेन्द्रजालमिन्द्रादिजालानां रचना तथा | पातालखेचरीसिद्धिर्गुटिकाञ्जनमेव च || ४-४१ || यक्षिणीखड्गसिद्धिस्तु तस्य हस्तप्रवेशिका | ब्रह्माण्डगोलके या च या काचिज्जगतीतले || ४-४२ || समस्ताः सिद्धयस्तस्य भवन्त्येव न संशयः | प्रस्तार स्मरणादेव ये ये तस्य हि सिद्धयः || ४-४३ || स्वयमायान्ति पुरतो रचनायास्तु का कथा | यन्त्रपारायणं नाम स्तवं देवि प्रकीर्त्तितम् || ४-४४ || प्. ५३) नाडीपारायणं नाम नामपारायणं तथा | मंत्रपारायणं नाम चक्रपारायणं तथा || ४-४५ || यंत्रपारायनं देवि प्रत्यहं कारयेत्प्रिये | एकावर्तनमात्रेण त्रैलोक्यविजयी भवेत् || ४-४६ || आवर्तनद्वये श्रीशः त्रिरावर्तनमात्रतः | त्रिगुणात्मा भवत्येव नात्र कार्या विचारणा || ४-४७ || पंचावर्तनमात्रेण राजराजेश्वरो भवेत् | यावद्धि दर्शनं भूयात्तावद्धि परमेश्वरि || ४-४८ || अर्णवस्य च मर्यादा कीर्त्तिता परमेश्वरि | यं यं कामं विचिंत्याथ स्तोत्रमेतत्पठेत्सदा || ४-४९ || तं तं काममवाप्यन्ते तत्तद्रूपो भवेन्नरः | किं बहूक्तेन देवेशि राजराजेश्वरी तु सा || ४-५० || यथा छिन्ना तथा काली तथैव सुन्दरी परा | तथैव तारा संदिष्टा चतुर्णां न हि भिन्नता || ४-५१ || कालिकायामपि तथा यन्त्रपारायणं चरेत् | कादिहादिमतत्वेन द्विधात्वं परिकीर्त्तितम् || ४-५२ || एतज्ज्ञानयुतं दृष्ट्वा दण्डवत्प्रणिपत्य च | देववत्पूजनं कुर्यादन्यथा न हि सिध्यति || ४-५३ || यन्त्रप्रस्तारराजानं यन्त्रपारायणं परम् | नाम ख्यातं महेशानि शिवशक्त्यात्मकं तथा || ४-५४ || शिवशक्त्यात्मकं देवि यत्किञ्चिज्जगतीतले | तस्माच्छक्त्यात्मकं देवि जगत्स्थावरजङ्गमम् || ४-५५ || सर्वस्वं तु मयाख्यातं किमितोऽपि विशेषणम् | भेदप्रस्तारसिध्यर्थमङ्कान् शृणु महेश्वरि || ४-५६ || रात्र्यष्टकुणपाख्यं हि शक्तिचिह्नाभिधस्ततः | विष्णुकेतुगजावर्तक्रमेण परिकीर्त्तितः || ४-५७ || प्रथमस्य दशारस्य प्रोक्तो रेखाविनिर्णयः | एवं पञ्च चतुर्भेदाः सर्वसिद्धिप्रदायकाः || ४-५८ || द्वितीयस्य दशारस्य रेखाङ्कानां विनिर्णयः | ऋत्वष्टगणमारान्त्यादर्थवीरादिभिस्ततः || ४-५९ || प्. ५४) नाथमार्गक्रमेणैव दिनवेधेन सिध्यति | रश्मिद्वंद्वं रसो बाणी चैवं रेखां विभेदयेत् || ४-६० || एवं पञ्च प्रभेदाः स्युर्मन्वस्रे शृणु साम्प्रतम् | नित्या वाणी मातृकाप्तिः संख्यावर्तेन वै भवेत् || ४-६१ || द्वितीयस्य महेशानि गुणवाक्रसचंद्रता | कलायोजनमार्गेण द्वितीयं परिकीर्त्तितम् || ४-६२ || इति संक्षेपतः प्रोक्तं फलसंकथनं शिवे | जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि || ४-६३ || महिमां वर्णितुं चास्य न शक्नोमि महेश्वरि | इति संक्षेपतः प्रोक्तं तत्त्वन्यासक्रमं शृणु || ४-६४ || आत्मविद्याशिवैस्तत्वैस्तच्वन्यासं समाचरेत् | पादादि नाभिपर्यन्तमात्मतत्त्वं प्रकीर्त्तितम् || ४-६५ || नाभ्यादि हृदयान्तं हि विद्यातत्त्वं प्रकीर्त्तितम् | हृदयाद्बिन्दुपर्यन्तं शिवतत्त्वं प्रकीर्त्तितम् || ४-६६ || सर्वमन्त्रं समुच्चार्य सर्वाङ्गे व्यापनं शिवे | सर्वतत्त्वमिदं प्रोक्तं सर्वदेवत्वकारकम् || ४-६७ || तिथितत्त्वानि देवेशि आत्मतत्त्वे भवन्ति हि | पंचविंशतितत्त्वानि विद्यातत्त्वे भवन्ति हि || ४-६८ || षट्त्रिंशच्छैवतत्त्वानि शिवतत्त्वे भवन्ति हि | अथ पंचाशत्तत्वानि सर्वतत्त्वे भवन्ति हि || ४-६९ || स्थापने वेदतत्त्वानि शोधने तत्त्वपंचकम् | भूतशुद्धौ त्रिःक्रमेण आचामेच्च त्रितत्त्वतः || ४-७० || सर्वमन्त्रे महेशानि आचामेत्तत्त्ववैदिकीम् | बीजमध्यगतं नाम किं वा कुर्याद्धि सङ्कुलम् || ४-७१ || किं वा नाम्ना समाक्रान्ते मंत्रे तत्त्व प्रकल्पना | एकाक्षरे त्र्यक्षरादौ तत्त्वास्पदविवर्जिते || ४-७२ || तत्त्वन्यासोदितं सिद्धं नान्यत्र परिकल्पयेत् | सिद्धविद्याविधौ देवि श्रीविद्यायां महेश्वरि || ४-७३ || सर्वभेदाख्यतत्वानि त्रितत्त्वे निवसन्ति वै | त्रितत्त्वस्य परिज्ञानी शक्तिपाताधिपो भवेत् || ४-७४ || प्. ५५) आलापाद्दशनात्सर्पर्शा[द्दाना]द्यनुग्रहादपि | तत्स्पृष्टवस्तुसंस्पर्शान्मन्त्रदानाज्जपादपि || ४-७५ || जिह्वायां मन्त्रसंलेखात्ताम्बूलोच्छिष्टभक्षणात् | गण्डूषाद्वस्त्रजलतस्त्वभिमन्त्रणयोगतः || ४-७६ || तन्नामस्मरणात्क्रोशशतान्ते स्मरणादपि | यन्निःसृटं तत्तथैव शापानुग्रहणे शिवे || ४-७७ || सर्वशास्त्ररहस्यज्ञस्तथा श्रुतिधरो भवेत् | अष्टादशविधो देवि शक्तिपातो भवेच्छिवे || ४-७८ || अथवा सिद्धिबाहुल्यं मया वक्तुं न शक्यते | तत्र चेत् सिद्धिबाहुल्यमिच्छाशक्तिपरो भवेत् || ४-७९ || शक्तिसंसर्गमात्रेण सर्वं पूतं भवेच्छिवे | शक्तिं विना न वै मुक्तिः शक्तिर्मोक्षप्रदा मता | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ४-८० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यतारासंवादे मन्त्रप्रस्तारनिर्णयो नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिछामि पूर्वोक्तं निर्णयं महत् | श्रीशिव उवाच | रहस्यातिरहस्यं च कथ्यते शृणु साम्प्रतम् || ५-१ || स्नानमुख्याः क्रियाः सर्वाः स्नानं च दैवते भवेत् | प्रातःकाले च मध्याह्ने सायाह्ने स्तोत्रपाठके || ५-२ || यदा यदा मनोग्लानिस्तदैव स्नानमाचरेत् | * * * ब्रह्मयोगे म्लेच्छस्पर्शे तथैव च || ५-३ || भाषणे पतितस्याथ मन्त्रस्नानं समाचरेत् | श्रीविद्यायां चतुःकालं कालिकायां त्रिकालकम् || ५-४ || यदैव मनसो ग्लानिस्तदैव स्नानमाचरेत् | विद्योच्चारं तु यः कुर्यादस्नातः कृतभोजनः || ५-५ || तस्य विद्या भवेन्नष्टा रौरवं नरकं व्रजेत् | अशुचिः सन् महेशानि विद्योच्चारं तु यश्चरेत् || ५-६ || तस्य नाशो भवेद्देवि विद्या दग्धा भवेद्ध्रुवम् | स्नानकालश्च सम्प्रोक्ताः स्नानभेदान् शृणु प्रिये || ५-७ || स्नानं पञ्चविधं प्रोक्तं येन देवीमयो भवेत् | वारुणं नाभसं चैव तृतीयं भस्मजं स्मृतम् || ५-८ || चतुर्थं तैजसं देवि पञ्चमं दैवतं भवेत् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ५-९ || एते पञ्च महादेवाः पञ्चस्नाने व्यवस्थिताः | परा च तदतीता च तत्परा तदनन्तरम् || ५-१० || चित्परा तदतीता च पंचमी परिकीर्त्तिताः | वारुणं द्विविधं प्रोक्तं वैदिकं तांत्रिकं तथा || ५-११ || स्वशाखोक्तविधानेन वैदिकं स्नानमीरितम् | स्वस्वकल्पोक्तविधिना तांत्रिकं स्नानमाचरेत् || ५-१२ || वीराणां तु कनिष्ठं स्यात्रितयं शृणु पार्वति | उत्तमं तु महेशानि सर्वत्र परिकीर्त्तितम् || ५-१३ || प्. ५७) मध्यमं तु महेशानि प्राणायामपुरःसरम् | ऋष्यादिकं प्रविन्यस्य सप्तमुद्रापुरःसरम् || ५-१४ || जलमानीय देवेशि सर्वाङ्गे मूलमुच्चरन् | दशधा सप्तधा वापि देहं संमार्जयेच्छिवे || ५-१५ || कुशेन दूर्वया वापि ह्यथवा तप्तमुद्रया | ततस्तु तिलकं देवि दशधा वाग्यतोऽथवा || ५-१६ || ऊर्ध्वपुंड्रं त्रिप्रकारं त्रिपुंड्रं द्विप्रकारकम् | अगस्तिपत्राकारं तु पट्टवन्धनमेव च || ५-१७ || अगस्तिपत्राकारं तु सिन्दूरैर्घुसृणेन च | कुचन्दनेन वा देवि योगमार्गेण कारयेत् || ५-१८ || पूर्वोक्तं मंत्रमात्रे स्यादिदं श्रीकालिकामनौ | सर्वदेवेऽपि कर्तव्यं स्वस्वयंत्रेण पार्वति || ५-१९ || मणिबन्धादधो हस्तौ पादौ गुल्फादधः प्रिये | आननं क्षालयेद्देवि ताराच्छिन्नाविधौ शिवे || ५-२० || कारयेत्स्नानमेतद्धि पञ्चाङ्गशुद्धिदायकम् | वारुणं कथितं देवि नाभसं शृणु पार्वति || ५-२१ || अष्टादशविधं देवि नाभसं परिकीर्त्तितम् | शुद्धा नमाताः स्वाहांताः तर्पणांता जयांतिकाः || ५-२२ || मालामनः पंचविधः शिवशक्तिक्रमेण च | तद्द्वयक्रमयोगेन मंत्राः पंचदश स्मृताः || ५-२३ || साधकः कृष्णप्रतिपदित्यादि (?) फाल्गुनांतकम् | रश्मिक्रमेण देवेशि षट्चक्रक्रमगेऽपि च || ५-२४ || प्रोक्तमष्टादशविधं स्नानं नाभसज्ञकम् | मूलाधाराद्बिलांतं च संभाव्य याभवांतिकम् || ५-२५ || रश्मयोऽत्र महेशानि त्रिशतं षष्टि कीर्त्तिताः | वर्षमात्रं तु जान्हव्यां स्नानं त्रिषवणं कृतम् || ५-२६ || तत्फलं प्राप्नुयाद्देवि नात्र कार्या विचारना | ऋत्वादिक्रमयोगेन तत्तदृतुभवैर्जलैः || ५-२७ || प्. ५८) स्नाने कृते फलं यच्च सकृदेव भवेच्च तत् | रश्मिक्रमेण देवेशि साक्षाच्छाम्भवरूपभाक् || ५-२८ || प्रतिचक्रे महेशानि चक्रान्तस्तस्य देवताः | चितयेत्प्रयतो भूत्वा मूलाधाराद्बिलान्तकम् || ५-२९ || अन्तःस्नानमिदं प्रोक्तं देवतादर्शनप्रदम् | ब्रह्मरन्ध्रे तु देवेशि सर्वेषां लयमाचरेत् || ५-३० || पुनः शुद्धिस्वरूपं तु विभाव्य जपमाचरेत् | नाभसं कथितं स्नानं भस्मस्नानं शृणु प्रिये || ५-३१ || अग्निर्जलं स्थलं चेति वायुर्व्योमेति सर्वतः | अभ्रकाभिस्त्रिभिर्देवि स्मानं मृत्युज्वरापहम् || ५-३२ || शैव-ऋक्पंचकेनैव द्वितीयं परिकीर्त्तितम् | श्रीमालिन्यादिभिर्देवि श्रीविद्यायां तृतीयकम् || ५-३३ || सूर्यमंत्रं भस्ममध्ये तेन सर्वाङ्गलेपनम् | ध्यानोक्तं होमकुण्डस्थं भस्मना पंचमं भवेत् || ५-३४ || अन्येऽपि बहवो भेदाः सन्ति च प्राणकोदिताः | तैजसमथ वक्ष्यामि येन सिध्यन्ति सिद्धयः || ५-३५ || गुरुदैवतमंत्राणामैक्यं सम्भावयन्धिया | गुरुतेजो मंत्रतेजो देवतेजस्तथैव च || ५-३६ || एकीकृत्य त्रिचैतन्यं तन्मूर्त्तिं परिकल्पयेत् | हृदये देवतास्थानं कण्ठे चैव मनुर्मतः || ५-३७ || सहस्त्रारे गुरुः प्रोक्तस्त्रिचैतन्यं विभावयेत् | तां मूर्तिं स्वस्य देहे तु यथा स्वावयवक्रमात् || ५-३८ || सम्भावयेन्महेशानि देवतादर्शनप्रदम् | तैजसं गदितं देवि दैवतं शृणु पार्वति || ५-३९ || मूलाधारं समारभ्य बिलान्तं परमेश्वरि | देवतां भावयेद्देवि स्वमुखेन मुखं शिवे || ५-४० || तस्याः सर्वाङ्गकं देवि स्वदेहे स्थानयोगतः | द्वारदेशे महेशानि गंगां च यमुनां तथा || ५-४१ || सर्वसम्भावनायां तु गंगया किं फलं भवेत् | इडा गङ्गेति विख्याता सुषुम्णा यमुना नदी || ५-४२ || प्. ५९) सरस्वती पिङ्गला स्यात्प्रयागं देहमध्यगम् | देहज्ञानं विना देवि बाह्यज्ञानेन किं फलम् || ५-४३ || गुरुपङ्क्तिं सहस्रारे ह्यंगानि भ्रुवि भावयेत् | कण्ठमूलांतकं देवि सर्वावरणदेवताः || ५-४४ || भावयेद्यत्नतो देवि दैवतं स्नानमीरितम् | अनेन स्नानयोगेन किं तद्यन्न करे स्थितम् || ५-४५ || ब्रह्माद्या देवताः सिद्धाः स्नानेनानेन पार्वति | इति संक्षेपतः प्रोक्तं सन्ध्याकर्म शृणु प्रिये || ५-४६ || सुन्दर्यां तु चतुःकालं सन्ध्यावन्दनमाचरेत् | प्रातःकाले च मध्याह्ने सायाह्नेऽप्यर्धरात्रके || ५-४७ || चतुर्विधां तु गायत्रीं जपेद्द्यत्नेन पार्वति | प्रस्ताराकृतिरूपा च उपस्थानाभिधा तथा || ५-४८ || वांच्छाकल्पलता देवि चतुर्थी परिकीर्त्तिता | षष्टिपारायणं प्रातर्मध्याह्ने नामसंज्ञकम् || ५-४९ || मंत्रपारायणं रात्रौ निशायां चक्रसंज्ञकम् | तृतीयामर्धरात्रे तु तूर्यसंन्ध्या समाचरेत् || ५-५० || कालिकायामिदं प्रोक्तमुपस्थानविवर्जितम् | मेधादीक्षादिराज्ञीत्वात्काल्यां सन्ध्याचतुष्टयम् || ५-५१ || सन्ध्यात्रयं तु तारायां छिन्नायां त्रिविधा भवेत् | एतासां न हि भेदोऽस्ति भेदभाङ्नरकं व्रजेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ५-५२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे स्नानभेदनिर्णयो नाम पञ्चमः पटलः || ५ || षष्ठः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि दीपेशादिविनिर्णयम् | श्रीशिव उवाच | बद्धपद्मासनो मूर्ध्निं दीपनाथं प्रपूजयेत् || ६-१ || वर्गाष्टकं चाष्टदिक्षु स्वरद्वन्द्वसमन्वितम् | विलिखेत्तत्र वर्गे च महानादाक्षरं भवेत् || ६-२ || सत्यबिन्दुकः प्रथमं श्रीकण्ठादि ततः परम् | तद्वर्णेशं नन्दनाथं च चतुर्थमनन्तरम् || ६-३ || अतिरिक्तपदस्यान्ते वर्णायेति समुद्धरेत् | रक्तद्वादशशक्त्यार्धयुक्तायेति पदं वदेत् || ६-४ || अस्मिन्क्षेत्र इमां पूजां गृह्णयुग्ममथापि वा | स्वाहान्तगो मनुरयं दीपनाथस्य कीर्त्तितः || ६-५ || ईशाने दीपनाथं च पूजयेत्परमेश्वरि | उच्छिष्टो मृदमानीय नदीतीरद्वयार्त्तथा || ६-६ || रूपं तालमितं कृत्वा नामार्णान्यस्य तद्धृदि | नाममायास्त्रधत्तुरलिखितं पूरितं भुवि || ६-७ || त्रिसप्त जपतो सार्द्धं वशयेदुर्वशीमपि | अथान्यदपि देवेशि रहस्यं कथ्यते शृणु || ६-८ || वामहस्ते * * धृत्वा दक्षहस्तेन होमयेत् | मालां दत्त्वा शक्तिहस्ते गणनां कारयेच्छिवे || ६-९ || द्वित्रिमासोत्तरं देवि मालां संग्रथयेच्छिवे | स्वयं संत्रुटिता माला प्रायश्चित्ताय कल्पते || ६-१० || जीर्णसूत्रं तु विज्ञाय मालां संग्रथयेच्छिवे | षण्मासोत्तरगं देवि जीर्णसूत्रस्य मालिका || ६-११ || यः स्थापयेन्महेशानि तस्य नाशो भविष्यति | त्रुटिता चेत्स्वयं मालां प्रायश्चितं समाचरेत् || ६-१२ || प्. ६१) गजान्तकसहस्रं तु जपहोमं समाचरेत् | पुनः संग्रथनं कृत्वा प्राणस्थापनपूर्वकम् || ६-१३ || तदा माला सिद्धिदा स्यान्नान्यथा शांकरं वचः | पुरश्चर्याजपे होमे माला हस्तच्युता यदि || ६-१४ || प्रायश्चित्तं शतं जप्त्वा तद्दशांशप्रवर्द्धनम् | तद्दशांशं त्यजेज्जापं प्रायश्चित्तक्रमेण च || ६-१५ || केचिदत्र समिच्छन्ति पुरश्चर्या पुनर्भवेत् | प्रायश्चित्तं शतं जप्त्वा पुरश्चर्यां पुनश्चरेत् || ६-१६ || अयुतं होमयेद्देवि पायसैर्नारिकेलजैः | त्रैलोक्यं च वशीकुर्यान्नात्र कार्या विचारणा || ६-१७ || तिलतण्डुलहोमेन प्रीति सञ्जनयेत्प्रिये | श्रीदेव्युवाच | प्रसृतिस्तण्डुलाः प्रोक्ताः शतमात्रं तिलाः स्मृताः || ६-१८ || कथं साम्यं महादेवि तन्मे कथय शङ्कर | अर्धप्रसृतिमात्रं तु तण्डुला वा महेश्वर || ६-१९ || पञ्चाशद्वा तिला ग्राह्याः सन्देहं हर मे प्रभो | श्रीशिव उवाच | प्रसृतिश्च शतं देवि संयोगेन तु होमयेत् || ६-२० || दक्षिणामूर्तिदेवस्य संमतं परिकीर्त्तितम् | अर्धप्रसृतिमात्रं तु तण्डुलाः परमेश्वरि || ६-२१ || पञ्चाशच्च तिला ग्राह्या अक्षोभ्य ऋषिसम्मतम् | यवानां च तिलानां च यथा योगेन चाहुतिः || ६-२२ || तथैव तिलसंयोगः कर्तव्यः कालसंमतः | समतोलसमे कुण्डे होमयेत्कालिकामते || ६-२३ || * * * स्वमुखं दत्वा वामहस्तेन होमयेत् | देवता वरदा तस्य नात्र कार्या विचारणा || ६-२४ || * * * * देवेशि होमयेदविचारयन् | त्रैलोक्याधिपतिर्भूयान्नात्र कार्या विचारणा || ६-२५ || पात्रं षोडशकं स्थाप्य सम्पूज्य परदेवताम् | तदन्ते होमयेद्रात्रौ तदन्ते तर्पणं भवेत् || ६-२६ || प्. ६२) देविशंखमुखं नेत्रे देवतायाः समाचरेत् | केरलाख्यमते प्रोक्तं काश्मीराख्यमतं शृणु || ६-२७ || यथा देवी तथा देवीविशेषाख्यः प्रकीर्त्तितः | स्वसांमुख्येन देवेशि स्थापयेत्पात्रराशिकम् || ६-२८ || चैतन्यस्य मते देवि तिर्यक् चक्रेण स्थापयेत् | स्वसांमुख्ये तथा तिर्यक् देवतासंमुखेऽपि च || ६-२९ || प्राची नव षट् च प्रोक्ता कथमङ्गादिकल्पना | स्वस्य प्राची च वा देवि देवतायाऽथवा भवेत् || ६-३० || श्रीशिव उवाच | रहस्यातिरहस्यं च कथ्यते शृणु सादरम् | स्वसांमुख्ये स्थिते पात्रे देववच्चांगकल्पनम् || ६-३१ || निरंजनमतं प्रोक्तं तत्सांमुख्येऽपि पार्वति | पार्वतीमतमाख्यातं रुद्रवीरमतं शृणु || ६-३२ || देवीपात्रं देवमुख्ये अंगादि स्वांगवद्भवेत् | तत्र प्राचीक्रमं ज्ञात्वा सर्वं संसाधयेद् ध्रुवम् || ६-३३ || आसनाद्यं समारभ्य भूतशुध्यन्तगं शिवे | सिद्धप्राची तु सम्प्रोक्ता ततस्तु कल्पिता भवेत् || ६-३४ || स्थित्यादिपात्रकर्मान्तं सिद्धप्राची प्रकीर्त्तिता | पूजायां तु महेशानि कल्पिता दिक् शुभप्रदा || ६-३५ || अर्घ्यांत पूजान्यसने कल्पिता दिक् च शम्बरे | महाभूतबलिर्देवि स्वस्य प्राचीविधौ भवेत् || ६-३६ || देवीबलिः स्ववामे तु स्वदक्षे मृडसम्मते | अग्नीशासुरवायव्ये मध्ये दिक्ष्वङ्गपूजनम् || ६-३७ || केरलस्य मतं प्रोक्तं चिद्घनस्य मतं शृणु | अग्निनैर्-ऋतवायव्ये शंभुकोणेषु मध्यतः || ६-३८ || चतुर्दिक्षु महेशानि मण्डलावर्तंमार्गतः | अग्नीशासुरवायव्ये मध्ये पृष्ठे षडंगकम् || ६-३९ || केसरेषु च कोणेषु देहेषु च षडंगकम् | कालरुद्रमते देवि षडङ्गपूजनं भवेत् || ६-४० || क्रमदुर्येण कथितं प्राची चाङ्गप्रपूजनम् | चतुरावर्तमार्गेण संहाराख्यक्रमेण च || ६-४१ || प्. ६३) षडंगपूजनं प्रोक्तं विशेषं शृणु सादरम् | अर्घपूजाविधौ सिद्धप्राची प्रोक्ता तु पीठके || ६-४२ || मृडेन परमेशानि कल्पिता तु क्वचिद्भवेत् | क्वचित्सिद्धा महेशानि कल्पिता तु क्वचिद्भवेत् || ६-४३ || वायव्यदिशि पर्यन्तं गुरुपंक्ति प्रपूजयेत् | विद्यापृष्ठे महेशानि गुरवः सन्ति सर्वदा || ६-४४ || काल्यां त्रिपंक्तिमार्गेण देवीपृष्ठक्रमेण च | दिव्यादिक्रमयोगेन तदधः स्वगुरुत्रयम् || ६-४५ || दक्षोदक् च प्रतीच्यां च रेखात्रितयकं चरेत् | दिव्यौघो देवतापृष्ठे तदन्यौ तत्स्थलद्वये || ६-४६ || विद्याया भेदभावे तु स्वगुरुं पूजयेच्छिवे | सर्वोपरि महेशानि गुरुस्थानं प्रकीर्त्तितम् || ६-४७ || सिद्धप्राचीविधौ देवि विलोके केरल मते | गौडे कल्पितदिङ्मार्गा यथा देवी तथैव ते || ६-४८ || न तेषां मुख्यता देवि मुख्या तु देवता भवेत् | श्रीदेव्युवाच | अत्रार्थे संशयो मेऽस्ति संशयं मम हारय || ६-४९ || कल्पितक्रममार्गेण यदि पूजा भवेच्छिव | तेषां दिग्व्यत्यये देव स्थानस्य संच्युतिर्भवेत् || ६-५० || श्रीशिव उवाच | स्वामी यत्र समायाति तत्रैवाङ्गादिदेवताः | न चांगे मुख्यता देवि तत्पूजायां तु मुख्यता || ६-५१ || दशांशेनांगमंत्राणां जपपूजां समाचरेत् | तेन ते सिद्धिदा देवि नान्यथा सिद्धिरोधकृत् || ६-५२ || कदा को वा महादेवः का वा प्राची स्थिता भवेत् | सूर्यस्तु वारुणीं याति नित्यानित्यं महेश्वरि || ६-५३ || दिवारात्रिव्यत्ययस्तु साधकस्य करेस्थितः | चन्द्रसूर्यव्यत्ययं च स कर्तुं भवति क्षमः || ६-५४ || सूर्यस्थाने भवेच्चन्द्रः चन्द्रस्थाने तु सूर्यता | एवं क्रमेण देवेशि ब्रह्माण्डानां परंपरा || ६-५५ || प्. ६४) कदा का वा स्थिता प्राची कति जाताः पुरंदराः | एकैकवारं देवेशि कीटाद्यपि पुरंदरः || ६-५६ || कुत्र के वा स्थिता देवि सर्वं साधकगोचरम् | यदाशाभिमुखो भूत्वा चक्रराजं समुद्धरेत् || ६-५७ || सैव पूर्वा विनिर्दिष्टा सर्वत्र योजयेत्क्रमम् | यदा पूर्वमुखो भूत्वा चक्रेशीं परिपूजयेत् || ६-५८ || तदा प्रतीची पूर्वा स्याद्देवताया महेश्वरि | पश्चिमाभिमुखो भूत्वा यदा चक्रं समुद्धरेत् || ६-५९ || पूर्वैव पूर्वा निर्दिष्टा दक्षिणे शृणु पार्वति | दक्षिणाभिमुखो भूत्वा यदा चक्रं समुद्धरेत् || ६-६० || तदोत्तरा भवेत्पूर्वा प्रतीची दक्षिणा भवेत् | उत्तराभिमुखो भूत्वा यदा देवीं प्रपूजयेत् || ६-६१ || दक्षिणैव भवेत्पूर्वा संक्षेपात्परमेश्वरि | तथा काम्यविधौ देवि विदिक्षु संस्थितो यदि || ६-६२ || देवि स्वमध्ये पूर्वा तु संक्षेपेण प्रकीर्त्तिता | यथा यथा शिवा याति परिवारास्तथा तथा || ६-६३ || यस्याः कृपाकटाक्षेण स्थानं लब्धं च तैः पुरा | ते सेवार्थं समायान्ति देवताया महेश्वरि || ६-६४ || बलिदानविधौ देवि सिद्धा वा कल्पिता च वा | देवताहस्तदक्षाख्यः स्वसांमुख्यक्रमेण च || ६-६५ || प्राची प्रोक्ता केरले च गौडे प्राग्दक्षभावतः | देव्यग्रदलमारभ्य प्रादक्षिण्यक्रमेण तु || ६-६६ || काश्मीराख्यमते प्रोक्तं पूजनं तत्क्रमेण तु | स्वदेहं च स्वदेवीं च स्वगुरुं परमेश्वरि || ६-६७ || स्वदेहस्थितिमार्गेण स्वरूपं पूजयेत्प्रिये | पूजाविधौ महेशानि स्वाग्रे संचिंत्य पूजयेत् || ६-६८ || अत्रापि देवदेवेशि स्वरूपेण स्वरूपता | तद्रूपे स्वस्य रूपं च तथैव च गुरोरपि || ६-६९ || एवं क्रमेण देवेशि त्रितयं त्रितयं त्रिषु | मार्गत्रयक्रमेणैव सर्वं संक्षेपतो मतम् || ६-७० || प्. ६५) बलिदानभवद्रव्यं देवताग्रे निवेदयेत् | स्वसांमुख्येन वा देवि तत्सांमुख्येन वा प्रिये || ६-७१ || केरलक्रमयोगेन काश्मीरक्रमयोगतः | गौडमार्गक्रमेणैव सर्वं संक्षेपतो मतम् || ६-७२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यतारासंवादे दीपेशादिविनिर्णयो नाम षष्ठः पटलः || ६ || सप्तमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | श्रीशिव उवाच | भिन्नांजनं समारभ्य मा भैर्मा भैर्महेश्वरि || ७-१ || वृत्तानन्दं तु देवेशि ध्यात्वा वाञ्छामितं शिवे | शिखागतं स्मरेत् वह्नि शिखासाधकरूपिणम् || ७-२ || खड्गंतु देव्या रसनां बुद्ध्या ध्यात्वा महेश्वरि | साध्यस्य जाड्यरूपत्वं शिखायां परमेश्वरि || ७-३ || साध्यस्य हृदये देवि देवी तिष्ठति सर्वदा | जाड्यं तत्रैव देवेशि रसना लेहभक्षणा || ७-४ || एवं ध्यात्वा जपेद्वीरस्त्रैकाल्यज्ञानमाप्नुयात् | ताराविधौ महेशानि काम्यध्यानं महेश्वरि || ७-५ || प्रत्यालीढं समारभ्य पंचमुद्राविभूषितम् | इत्येतं चिन्त्य यत्नेन जाड्यं न्यस्य कपालके || ७-६ || कर्त्र्या संकर्तनं चिन्त्यं त्रैलोक्याधिपतिः कविः | राज्यदातृत्वसामर्थ्यं नहि तारां विना कलौ || ७-७ || * * * * सक्तामाग्नेयीनाडिकागताम् | शवस्य हृदये न्यस्तं दक्षिणं चरणं शुभम् || ७-८ || शवस्य पादयुगलमनुलोमाकृतिक्रमात् | संन्यस्य वामचरणे प्रत्यालीढं तदुच्यते || ७-९ || साधनायां दक्षशिरः प्राक् प्रत्यक् च शिरः सदा | शवस्वरूपं कथितं वामहस्तं हृदि स्थितम् || ७-१० || चतुर्भुजा कालिका स्यात् धनुरायुधधारिणी | कपालं पञ्चमं चेत्स्यात् वरहस्ते विधारयन् || ७-११ || मुण्डरूपं कपालं तु महाकालमते मतम् | कलौ तारा कलौ काली कलौ तारा च कालिका || ७-१२ || शिवशक्तिप्रभेदेन देहे शक्तिरुपस्थिता | तारा शिवस्तथा काली शक्तिरूपा प्रकीर्त्तिता || ७-१३ || प्. ६७) काली शिवस्तथा तारा शक्तिरूपा प्रकीर्त्तिता | अहो ज्ञानवतां ज्ञानी कालीतारापरायणः || ७-१४ || रहस्यातिरहस्यं च प्रोक्तं देवि तवाग्रतः | देशव्यवस्थां देवेशि कथ्यते शृणु यत्नतः || ७-१५ || वैद्यनाथं समारभ्य भुवनेशांतगं शिवे | तावदंगाभिधो देशो यात्रायां न हि दुष्यति || ७-१६ || रत्नाकरं समारभ्य ब्रह्मपुत्रांतगं शिवे | बंगदेशो मया प्रोक्तः सर्वसिद्धिप्रदायकः || ७-१७ || जगन्नाथात्पूर्वभागात्कृष्णातीरान्तगं शिवे | कलिंगदेशः संप्रोक्तो वाममार्गपरायणः || ७-१८ || कलिङ्गदेशमारभ्य पंचाष्टयोजनं शिवे | दक्षिणस्यां महेशानि कालिंदः परिकीर्त्तितः || ७-१९ || सुब्रह्मण्यं समारभ्य यावद्देवो जनार्दनः | तावत्केरलदेशः स्यात्तन्मध्ये सिद्धिकेरलम् || ७-२० || रामेश्वरो वेंकटेशो हंसकेरलबोधकः | अनंतशैलमारभ्य यावत्स्यादुडुपं पुरम् || ७-२१ || तावत्सर्वेशनामा तु केरलः परिकीर्त्तितः | शारदामठमारभ्य कुंकुमाद्रितटान्तकम् || ७-२२ || तावत्काश्मीरदेशः स्यात्पंचाशद्योजनान्तकः | कालेश्वरं श्वतगिरिं त्रिपुरां नीलपर्वतम् || ७-२३ || कामरूपाभिधो देवि गणेशगिरिमूर्धनि | त्रिपंचकं सामारभ्य मध्ये चोज्जयिनी शिवे || ७-२४ || मार्जारतीर्थं राजेन्द्रे कोलापुरनिवासिनम् | तावद्देशो महाराष्ट्रः कार्णाटस्याभिगोचरः || ७-२५ || जगन्नाथादूर्ध्वभागं अवाक् श्रीभ्रमराम्बिका | तावदंध्राभिधो देशः सौराष्ट्रं शृणु सादरम् || ७-२६ || प्. ६८) कोंकणात् पश्चिमं तीर्त्वा समुद्रप्रान्तगोचरः | हिंगुलाजान्तका देवि जन्तवो जनलेशतः || ७-२७ || सौराष्ट्रदेशो देवेशि नाम्ना तु गुर्जराभिधः | श्रीशैलं तु समारभ्य चोलेशान्मध्यभागतः || ७-२८ || तैलंगदेशो देवेशि ध्यानाध्ययनतत्परः | मूकाम्बिकां समारभ्य मलयाद्र्यन्तगं शिवे || ७-२९ || मलयालाभिधो देशो मंत्रसिद्दिप्रवर्तकः | रामनाथं समारभ्य श्रीरंगान्तं विलेश्वरि || ७-३० || कर्णाटदेशो देवेशि साम्राज्यभोगदायकः | ताम्रपर्णी समारभ्य शैलार्द्धात्पुरतोऽर्द्धतः || ७-३१ || अवंतीसंज्ञको देशः कालिका तत्र तिष्ठति | भद्रकाली महत्पूर्वं रामदुर्गाच्च पश्चिमे || ७-३२ || श्रीविदर्भाभिधो देशो वैदर्भास्तत्र तिष्ठति | गुर्जरात्पूर्वभागे तु द्वारकातो हि दक्षिणे || ७-३३ || मरुदेशो महेशानि उष्ट्रोत्पत्तिपरायणः | श्रीकोंकणादधोभागे तापीतः पश्चिमोत्तरे || ७-३४ || आभीरदेशो देवेशि विन्ध्यशैले व्यवस्थितः | अवंतीतः पूर्वभागे गोदावर्यास्तथोत्तरे || ७-३५ || मालवाख्यो महादेशो धनधान्यपरायणः | द्रविडतैलंगयोर्मध्ये चोलदेशः प्रकीर्त्तितः || ७-३६ || लम्बकर्णाश्च ते प्रोक्ता भेदो ह्यवान्तरो भवेत् | कुरुक्षेत्रात्पश्चिमे तु तथा चोत्तरभागतः || ७-३७ || इन्द्रप्रस्थान्महेशानि दशत्रियोजनोत्तरम् | पांचाल देशो देवेशि सौन्दर्यगर्वभूषितः || ७-३८ || पांचालदेशमारभ्य म्लेच्छाद्दक्षिणपूर्वतः | काम्बोजदेशो देवेशि वाजिराशिपरायणः || ७-३९ || वैदर्भदेशादूर्ध्वं च इन्द्रप्रस्थाच्च दक्षिणे | मरुदेशात् पूर्वभागे वैराड्देशः प्रकीर्त्तितः || ७-४० || प्. ६९) काम्बोजाद्दक्षभागे तु इन्द्रप्रस्थाच्च पश्चिमे | पाण्ड्यदेशो महेशानि महाशूरत्वकारकः || ७-४१ || गण्डकीतीरमारभ्य चम्पारण्यान्तकं शिवे | विदेहभूः समाख्याता तैरभुक्त्यभिधः स तु || ७-४२ || काम्बोजदेशमारभ्य महाम्लेच्छात्तु पूर्वके | वाल्हीकदेशो देवेशि अश्वोत्पत्तिपरायणः || ७-४३ || तप्तकुण्डं समारभ्य रामक्षेत्रांतकं शिवे | किरातदेशो देवेशि विन्ध्यशैले च तिष्ठति || ७-४४ || करतोयां समारभ्य हिंगुलाजान्तकं शिवे | बक्तानदेशो देवेशि महाम्लेच्छपरायणः || ७-४५ || हिंगुपीठं समारभ्य मर्केशांतं महेश्वरि | खुरासनाभिधो देशो म्लेच्छमार्गपरायणः || ७-४६ || तन्मध्ये चोत्तरे देवि ऐराकः परिकीर्त्तितः | काश्मीरं तु समारभ्य कामरूपाच्च पश्चिमे || ७-४७ || भोतांतदेशो देवेशि मानसेशाच्च दक्षिणे | मानसेशाद्दक्षपूर्वे चीनदेशः प्रकीर्त्तितः || ७-४८ || कैलासगिरिमारभ्य सरयूयोनितः परे | आमोंगांतं महेशानि महाचीनाभिधो भवेत् || ७-४९ || जटेश्वरं समारभ्य योगिन्यन्तं महेश्वरि | नेपालदेशो देवेशि शिलहट्टं शृणु प्रिये || ७-५० || गणेश्वरं समारभ्य महोदध्यंतगं शिवे | शिलहट्टाभिधो देशः पर्वते तिष्ठति प्रिये || ७-५१ || बंगदेशे समारभ्य भुवनेशांतगं शिवे | गौडदेशः समाख्यातः सर्वविद्याविशारदः || ७-५२ || गोकर्णेशात्पूर्वभागे आर्यावर्त्तात्तु चोत्तरे | तैरमूक्तात्पश्चिमे तु महापुर्याश्च पूर्वतः || ७-५३ || महाकोशलदेशः स्यात् सूर्यवंशपरायनः | व्यासेश्वरं समारभ्य तप्तकुण्डान्तकं शिवे || ७-५४ || प्. ७०) मगधाख्यो महादेशो यात्रायां न हि दुष्यति | दक्षोत्तरक्रमेणैव क्रमात् कीकटमागधौ || ७-५५ || चरणाद्रि समारभ्य गृध्रकूटांतकं शिवे | तावत्कीकटदेशः स्यात्तदुत्तरो मागधो मतः || ७-५६ || जगन्नाथप्रान्त देशस्त्वौत्कलः परिकीर्त्तितः | कामगिरिं समारभ्य द्वारकान्तं महेश्वरि || ७-५७ || श्रीकुन्तलाभिधो देशो हूणं शृणु महेश्वरि | कामगिरेर्दक्षभागे मरुदेशात्तथोत्तरे || ७-५८ || हूणदेशः समाख्यातः शूरास्तत्र वसन्ति हि | अथ घट्टं स मारभ्य कोटीशस्य च मध्यगः || ७-५९ || समुद्रप्रान्तदेशो हि कोङ्कणः परिकीर्त्तितः | ब्रह्मपुत्रात्कामरूपान्मध्यभागे तु कैकयः || ७-६० || मगधाद्दक्षभागे तु विन्ध्यात्पश्चिमतः शिवे | शौरसेनाभिधो देशः सूर्यवंशप्रकाशकः || ७-६१ || हस्तिनापुरमारभ्य कुरुक्षेत्राच्च दक्षिणे | पाञ्चालात्पूर्वभागे तु कुरुदेशः प्रकीर्त्तितः || ७-६२ || मरुदेशात्पूर्वभागे कामाद्रेर्दक्षिणे शिवे | सिंहलाख्यो महादेशः सर्वदेशोत्तमोत्तमः || ७-६३ || शिलहट्टात्पूर्वभागे कामरूपात्तथोत्तरे | पुलिन्ददेशो देवेशि नरनारायनः परः || ७-६४ || गणेश्वरात्पूर्वभागे समुद्रादुत्तरे शिवे | कच्छदेशः समाख्यातः सेवनं शृणु सादरम् || ७-६५ || पुलिन्दादुत्तरे भागे कच्छाच्च पश्चिमे शिवे | मत्स्यदेशः समाख्यातो मत्स्यबाहुल्यकारकः || ७-६६ || वैराटपाड्ययोर्मध्ये पूर्वदक्षक्रमेण च | मद्रदेशः समाख्यातो माद्रीशस्तत्र तिष्ठति || ७-६७ || शूरसेनात्पूर्वभागे कण्ठकात्पश्चिमे वरे | सौवीरदेशो देवेशि सर्वदेशाधमोधमः || ७-६८ || प्. ७१) अवंतीतः पश्चिमे तु वैदर्भाद्दक्षिणोत्तरे | लाटदेशः समाख्यातो बर्बरं शृणु पार्वति || ७-६९ || मायापुरं समारभ्य सप्तशृंगात्तथोत्तरे | बर्बराख्यो महादेशः सैन्धवं शृणु सादरम् || ७-७० || लंकाप्रदेशमारभ्य मक्कान्तं परमेश्वरि | सैंधवाख्यो महादेशः पर्वते तिष्ठति प्रिये || ७-७१ || एते षट्पञ्चाशद्देशा मया प्रोक्तास्तव प्रिये | एतन्मध्येऽपि देवेशि देशभेदास्त्वनेकशः || कोटिशः सन्ति देवेशि एते मुख्याः प्रकीर्त्तिताः | रहस्यातिरहस्यं च गोप्तव्य पशुसङ्कटे | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे देशव्यवस्थानियमो नाम सप्तमः पटलः || ७ || अष्टमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पञ्च प्रस्थानि साम्प्रतम् | श्रीशिव उवाच | इन्द्रप्रस्थं यमप्रस्थं वरुणप्रस्थमेव च || ८-१ || कूर्मप्रस्थं महादेवि देवप्रस्थञ्च पञ्चमम् | इन्द्रप्रस्थं महेशानि शृणु वक्ष्ये यथाक्रमम् || ८-२ || इन्द्रप्रस्थं महेशानि योगिनीकोटिसंयुतम् | मथुरागोकुलं पूर्वभागे तस्य प्रकीर्त्तितम् || ८-३ || वृन्दावनं कोणदेशे हस्तिनापुरमुत्तरे | द्वारका पश्चिमायां तु गदावर्त्तस्तु दक्षिणे || ८-४ || इन्द्रप्रस्थमध्यभागे कालिकामुखगोचरम् | वाराहीक्षेत्रमुद्दिष्टमिन्द्रप्रस्थं तदुच्यते || ८-५ || सिंहासनं चाश्वपतेस्तदेव परिकीर्त्तितम् | यमप्रस्थं महेशानि दक्षिणस्यां व्यवस्थितम् || ८-६ || सोमेश्वरः पश्चिमायां सप्तशृंगी तु पूर्वगा | मायापुरं वामभागे व्यङ्कटेशस्तु दक्षिणे || ८-७ || यमप्रस्थं भवेन्मध्ये कमलामुखगोचरम् | शङ्खावर्त्तो भवेत्तत्र क्षेत्रं मायाभिधं भवेत् || ८-८ || सिंहासनं नरपतेस्तद्दक्षे परिकीर्त्तितम् | ततः पूर्वे जगन्नाथः प्राप्ते कविपतिर्भवेत् || ८-९ || वारुणाख्यं तथा देवि कथ्यते शृणु साम्प्रतम् | मक्केश्वरः पश्चिमायामुत्तरे हिङ्गुला भवेत् || ८-१० || त्रैलोक्यविजया देवि दक्षभागे प्रकीर्त्तिता | राजावर्त्तस्तत्र भवेत् शीतामुखगतं च तत् || ८-११ || तदन्ते सागराः सप्त समुद्राश्च तदन्तके | तावत् श्रीवारुणाख्यं तु प्रस्थं प्रोक्तं मया तव || ८-१२ || कूर्मप्रस्थं महेशानि कथ्यते शृणु पार्वति | गोकर्णेशाद्दक्षभागे कामाख्यात्पूर्वगोचरः || ८-१३ || प्. ७३) उत्तरे मानसेशः स्यात् पश्चिमे सारदा भवेत् | त्रिगुणावर्तमेतद्धि वज्रेश्या मुखमीरितम् || ८-१४ || षट्पंचकोटिचामुण्डागणैर्व्याप्तं तु तद्भवेत् | देवप्रस्थं महेशानि कथ्यते शृणु साम्प्रतम् || ८-१५ || श्रीरंगो दक्षिणे प्रोक्तो गायत्री पश्चिमे भवेत् | पूर्वे चैव जगन्नाथस्तूत्तरेऽमरकण्टकम् || ८-१६ || कांचीपुरं मध्यभागे मोहनावर्तमेव च | ललिताया मुखं तच्च विद्यागणविभूषितम् || ८-१७ || कामाख्याक्षेत्रमुद्दिष्टं महामन्त्रविभूषितम् | नवलक्षमहाविद्यासगणैः परिभूषित || ८-१८ || पंच प्रस्थानि देवेशि कथितानि मया तव | कृष्णमुद्रणरामश्च श्रीर्विष्णुर्वरदेश्वरः || ८-१९ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | परादितदतीतान्तं तृतये परिवर्तते || ८-२० || विष्णोर्भेदाः स्मृता ह्येते नाविष्णुः पृथिवीपतिः | पंचप्रस्थेश्वरो भूयात्कालीतारापरायणः || ८-२१ || रहस्यातिरहस्यं च कथितं परमेश्वरि | गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ८-२२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यतारासंवादे पंचप्रस्थकथनं नामाष्टमः पटलः || ८ || नवमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पूर्वमुक्तं रहस्यकम् | श्रीशिव उवाच | रहस्यातिरहस्यं च कथ्यते तव भक्तितः || ९-१ || आनंदभुवनं नाम महायोगवनं शृणु | शक्तिमानीय देवेशि तस्याः संदीक्षणं चरेत् || ९-२ || दीक्षितां च सुशीलां च मंत्रयंत्रपरायणाम् | राजपत्नीं देवपत्नीं देवतां गुरुरूपिणीम् || ९-३ || राजवेश्यां ब्रह्मवेश्यां दिव्यवेश्यां कलापराम् | तीर्थवेश्यां गुप्तवेश्यां नृत्यवेश्यां च वा प्रिये || ९-४ || समानीय दिवारात्रौ यथायोगेन पार्वति | संदीक्ष्य यत्नतो देवि त्रैलोक्यरञ्जिंनीं कलाम् || ९-५ || प्रसूनमंचे संस्थाप्य पाद्यार्घ्याचमनीयकम् | दत्त्वा संपूज्य यत्नेन चतुःषष्ठ्युपचारकः || ९-६ || शृंगाररत्नाभरणैर्नाना दिव्यैर्महेश्वरि | स्वेष्टदेवीं च संचित्य पूजयेत् त्रिजटेश्वरीम् || ९-७ || मंत्रभेदे स्वल्पमंत्रे आवृत्तिर्भूयसी यदा | बिन्दोश्च परितः कोणे पूजयेत् तां च देवताम् || ९-८ || सांगां सावरणां पूज्य यथाकामवरप्रदाम् | तां विलोक्य जपेद्देवि सर्वकालमतंद्रितः || ९-९ || तस्यां तु देवताबुद्ध्या देवीं चिन्त्य महोत्सवैः | तत्पादौ चिंत्य देवेशि जपेद्यत्नेन पार्वति || ९-१० || सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा | तस्यां तु देवं संपूज्य शक्त्यालोकनतत्परः || ९-११ || पूजयेत्परमेशानि त्रैलोक्यविजयी कविः | तस्या मुखं तु संचिन्त्य देवीबुद्ध्या दिवा शिवे || ९-१२ || त्रिसहस्रं जपेन्मांसं त्रिकालज्ञो नरो भवेत् | तस्याः कूटमिदं ज्ञात्वा जपेल्लक्षं दिवा शिवे || ९-१३ || प्. ७५) तस्याः मोदायितं दृष्ट्वा दिवा पंचायुतं जपेत् | पंचकामसमो भूयान्नात्र कार्या विचारणा || ९-१४ || कञ्चुकं तस्याः संवीक्ष्य दिवा लक्षद्वयं जपेत् | सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा || ९-१५ || लतायाश्चकितं दृष्ट्वा दिवा जप्त्वा दिवाकरः | दिवापश्यञ्जपेत्तारां विकाररहितः शिवे || ९-१६ || सर्वसिद्धीश्वरो भूयात्कालीतुल्यो नरो भवेत् | दिवा हास्यरतां वीक्ष्य योगिनीमेलनं लभेत् || ९-१७ || लतां * * दिवा कृत्वा त्रिलक्षात् त्रिगुणेश्वरः | दिवा * * तु संवीक्ष्य देवताध्यानतत्परः || ९-१८ || मासत्रयप्रयोगेण देवतां पश्यति ध्रुवम् | दिवा * * * मासाद्य समालिंग्य महेश्वरि || ९-१९ || प्रजपेत् सार्धलक्षं च शिवशक्तिसमो भवेत् | दिव तां * * * तु कृत्वा लक्षान्महीपतिः || ९-२० || दिवा चार्द्रां लतां वीक्ष्य चंद्रकोटिसमं जपेत् | दिवा सौरीं च संवीक्ष्य त्रिलक्षाच्च त्रिशक्तिधृक् || ९-२१ || लताग्रंथीश्च संवीक्ष्य दिवा जपति भूपतिः | स्थायीभावगतां वीक्ष्य जपेल्लक्षमनन्यधीः || ९-२२ || त्रिलक्षजपतो नूनं राजराजसमो भवेत् | लतां पुष्पवतीं दृष्ट्वा दिवा जपति सुंदरी || ९-२३ || लतां कामगतां वीक्ष्य दिवा जपति शंकरः | लतामंडलगो भूत्वा देवताध्यानतत्परः || ९-२४ || दिवारात्रं जपेद्देवि भुवनेशीसमो भवेत् | लतां गानरतां दृष्ट्वा ताम्बूलदानमाचरेत् || ९-२५ || तांबूलरागं संवीक्ष्य लक्षं जपति नित्यशः | दिवा नित्यं जपेत्कालीं शिव एव न संशयः || ९-२६ || लताताम्बूलवीटीं तु गृहीत्वा भक्ष्य संजपेत् | स्वरोद्युक्तां तत्र देवि देवतावरमाप्नुयात् || ९-२७ || शययाभंगीलताहस्ताद्दिवा कृत्वा तु * * | गंधर्ववेशमासाद्य सर्वसिद्धिं स विंदति || ९-२८ || प्. ७६) अष्टमीसन्धिवेलायामष्टोत्तरलतागृहम् | व्रजन्दिवा जपेन्नित्यं दिनमात्रंमहेश्वरि || ९-२९ || प्रत्यष्टम्यां चरन्नेवं सर्वसिद्धीश्वरो भवेत् | अमाचतुर्दशीसन्धौ लतात्रिशतकान्वितः || ९-३० || पुष्पं प्रत्येकं दत्त्वा तु चीनवेषपरायणः | दिवा जपेन्महेशानि यावदन्या चतुर्दशी || ९-३१ || तावज्जपेन्निरातंकः सर्वसिद्धिसमन्वितः | नीलवेशं समासाद्य * * पूजनं चरेत् || ९-३२ || त्रिमासं कुरुते यस्तु सुरतेशीं स वै लभेत् | तां लतां भोगसामग्रीसमुद्युक्तां च वीक्ष्य च || ९-३३ || त्रिदिनं च दिवारात्रि जपात्सिद्धीश्वरो भवेत् | तां नाट्यस्थां च संवीक्ष्य देवताध्यानतत्परः || ९-३४ || रात्रौ दिवा जपेद्देवीं त्रैलोक्यकवितां लभेत् | तां वीणावाद्यनिरतां वीक्ष्य देवीं दिवा जपेत् || ९-३५ || राजराजसमो भूयान्नात्र कार्या विचारणा | मृदङ्गवादनरतां लतां वीक्ष्य दिवा जपेत् || ९-३६ || देवतां वरदां मासपंचकैः पश्यति ध्रुवम् | डिंडीरवगतां वीक्ष्य लतां दिनगतं जपेत् || ९-३७ || सर्वसिद्धीश्वरो भूत्वा त्रैलोक्यविजयी हरः | लतां नाट्यगतां वीक्ष्य अहोरात्रं जपेच्छिवे || ९-३८ || तारारूपो नरो भूयान्नात्र कार्या विचारणा | मुक्तकेशीं लतां दृष्ट्वा दिवा लक्षद्वयं जपेत् || ९-३९ || कालीतारासमो भूत्वा छिन्नासिद्धिं स विन्दति | रहस्यातिरहस्यं च तव प्रीत्या च कीर्त्तितम् || ९-४० || आनंदयोगो देवेशि तव प्रीत्या मयेरितः | इति संक्षेपतः प्रोक्तं विशेषाद्दिवसे शुभः || ९-४१ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे लतासाधनकथनं नाम नवमः पटलः || ९ || दशमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि सूचितस्य विनिर्णयम् | श्रीशिव उवाच | शक्तिसंगमतंत्रादौ मेरुस्थाने च सूचितम् || १०-१ || तदेव कथ्यते यत्नात्सावधानमना भव | सामान्यत्वेन कथितं विशेषं शृणु सादरम् || १०-२ || पौषे माघे भाद्रपदे ज्येष्ठे वा परमेश्वरि | कृष्णे शुक्लेऽथवा देवि कृष्णपक्षे विशेषतः || १०-३ || सप्तम्यां वा त्रयोदश्यां नवम्यामयुधे तथा | षष्ठ्याममायां देवेशि धूम्रोदेति नभःस्थले || १०-४ || पाते भद्रादिने वापि गंडे शूलेऽथवा प्रिये | भरण्यां कृत्तिकायां च त्वार्द्रायां रौद्रगेऽपि वा || १०-५ || हस्तचित्रा ऋक्षगतो धूम्रो भूयान्महेश्वरि | अधिकार विहीनेन यत्कृतं यच्च कारितम् || १०-६ || तेन योगेन वा देवि महापापवशादय | भूमिभारविनाशार्थं धूम्रकेतुर्भविष्यति || १०-७ || त्रिवर्षं पंचमासैश्च षष्ठिनाडीपलानि च | तत्त्वसंख्यानि देवेशि मध्यधूम्रो भविष्यति || १०-८ || चतुर्मासोत्तरं देवि शक्रकेतुर्भविष्यति | अहिकेतुस्ततो भूयात्सर्पाकारो महेश्वरि || १०-९ || शक्रकेतुर्लोष्ट्रनिभो घटकेतुस्तथापरः | पादुकाकेतुरपरो हसंती संज्ञिकस्ततः || १०-१० || व्याघ्रपुच्छनिभश्चैव सर्पपुच्छनिभस्ततः | चिन्हान्येतानि देवेशि संभवंति पदे पदे || १०-११ || श्रीविद्यामंडपं कुर्यात्तदा शांतिर्भविष्यति | तस्मात् त्विदं महेशानि गोपनीयं कलौ युगे || १०-१२ || अर्धमध्यपूर्णभेदाद्भेदबाहुल्यमीरितम् | एवं भेदेन देवेशि त्रिशतं पंच मेरवः || १०-१३ || प्. ७८) अग्नि मेरुर्महेशानि विधिः सिद्धिप्रदायका | संप्रदायक्रमेणैव कर्तव्यं मेरुसाधनम् || १०-१४ || लोभान्मोहाद्भयाद्दम्भाद्यदि कुर्यान्नराधमः | सर्वस्वहरणं कृत्वा नरके पातयाम्यहम् || १०-१५ || घटकेतुर्यदा भूयात् कुटुम्बं तु विनश्यति | धूम्रकेतुर्महेशानि स भूपालविनाशकृत् || १०-१६ || धूम्रकेतुर्यदा भूयात् तत्कुटुम्बं तु वर्षतः | यमालये प्रविष्टं स्यान्नात्र कार्या विचारणा || १०-१७ || वेदबाह्यो यथा देवि सर्वकर्मबहिष्कृतः | तथायं द्विजबाह्यः स्यान्नात्र कार्या विचारणा || १०-१८ || कुटुम्बहा भवेत्सोहि प्रायश्चित्तेन शुध्यति | तस्य संसर्गमात्रेण राज्यभ्रष्टो भवेद्विभुः || १०-१९ || तस्माद्यत्नेन देवेशि प्रायश्चित्तं तु कारयेत् | शुद्धो भूयात्ततो देवि नान्यथा नारकी ध्रुवम् || १०-२० || श्रीमेरुरश्मिविज्ञानात् त्रैलोक्यविजयी भवेत् | अज्ञानात्परमेशानि यः करोति नराधमः || १०-२१ || स पापिष्ठो दुराचारी दुःखभागी भवेद्ध्रुवम् | प्राजापत्यशतं कृत्वा गोदानान्तं तु विंशतिः || १०-२२ || सहस्रं भोजयेद्विप्रान् शुद्धो भवति नान्यथा | अन्यथा देवदेवेशि संहर्ता परमेश्वरः || १०-२३ || प्रत्यङ्गिरा स्वयं शास्ता हेलया ह्याद्यनायिका | ब्रह्मास्त्रमपि देवेशि तत्संहाराय निश्चितम् || १०-२४ || सप्तवर्षै रन्ध्रवर्षैः सकेशो नश्यति ध्रुवम् | त्रिमासवेदवर्षैस्तु पृथ्वीपालो विनश्यति || १०-२५ || वर्षेण च कलत्रं च पञ्च वर्षेण कन्यकाम् | स्वसां तु ऋतु वर्षेण तत्संसर्गात् ऋषिक्रमात् || १०-२६ || दीक्षायुक्तस्तु यः कुर्यात्तत्फलं तु कथं शिवे | वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि || १०-२७ || महिमा वर्णितुं शक्तिः कथमत्र कलौ युगे | कलौ पापसमाकीर्णे न मेरुसाधनं मतम् || १०-२८ || प्. ७९) न्यासमेरुर्यंत्रमेरुः कर्तव्यः कुत्रचित्प्रिये | तामसं कर्म चैतद्धि न कर्तव्यं हितेच्छुना || १०-२९ || गोलोकेन समालापात्गोलोकत्वं यथा भवेत् | अज्ञातद्विजसंलापात्स भवेद्ब्राह्मणाधमः || १०-३० || गोपनीयं गोपनीयं गोपनीयं निरंतरम् | गोपनात्सिद्धिमाप्नोति गोपनात् शिवतां व्रजेत् || १०-३१ || न देयं परशिष्येभ्यः कृपणायेति सुन्दरि | दीक्षाहीनाय नो दद्याद्गोपयेन्मातृजारवत् | इति संक्षेपतः प्रोक्तं रहस्यं शृणु चापरम् || १०-३२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे अज्ञातदुर्निमित्तं नाम दशमः पटलः || १० || एकादशः पटलः | श्रीदेव्युवाच | भूकम्पादिकमेतद्धि सूचितं तद्वदाधुना | श्रीशिव उवाच | रहस्यमिति विज्ञाय नोक्तं देवि मया तव || ११-१ || इदमेव महेशानि उक्तं कोटिविनायके | अष्टादशसहस्रं तु केतुसंख्या प्रकीर्त्तिता || ११-२ || तन्मध्ये तु शतं चाष्टादशसंख्या प्रकीर्त्तिता | एतन्मध्ये महेशानि पंचाशत्केतवः शिवे || ११-३ || सम्मार्जनसमाकारा वृक्षाकारास्तथैव च | शिखाकारसमापन्नास्तथा हस्तकसन्निभाः || ११-४ || तृणाकारास्तथा कम्बुसदृशाः कुटिलाः शिवे | वृक्षमात्रसमाकारा घटाकारास्तथा प्रिये || ११-५ || एकविंशद्दिनं व्याप्य तद्द्वयं वा महेश्वरि | मासमात्रं तथा देवि तद्द्वयं परमेश्वरि || ११-६ || चतुर्दिक्षु भ्रमन्त्येव दिवा वा चोदयो भवेत् | चतुःप्रहरयोगेन रात्रौ तूदयमेव च || ११-७ || एकवारं द्विवारं वा त्रिचतुःपंचवारकम् | क्रमकेतुर्महेशानि समुदेति निरन्तरम् || ११-८ || एकरूपं च वा देवि भिन्नरूपं च वा प्रिये | आब्रह्मकल्पपर्यन्तं सर्वरूपेण वर्तते || ११-९ || देशभंगो भवेदादौ राष्ट्रभंगो द्वितीयके | छत्रभंगस्तृतीये स्याच्चतुर्थे सर्वपीडनम् || ११-१० || पंचमे देवदेवेशि सर्वत्र भूतसंगमः | त्रित्रिमास क्रमेणैव पंचषड्वर्षयोगतः || ११-११ || धूम्रकेतुर्यदा भूयात्तदा छत्रं विनश्यति | एव विचार्य यत्नेन शांतिकं च समाचरेत् || ११-१२ || इति संक्षेपतः प्रोक्तो धूम्रकेतुविनिर्णयः | दिवा नक्षत्रपातस्तु नक्षत्रदर्शनं तथा || ११-१३ || अहिकेतुस्तथा देवि दिवा चोल्काप्रदर्शनम् | पौर्णिमायां नष्टचन्द्रः कार्त्तिक्यां तु विशेषतः || ११-१४ || प्. ८१) सप्तविंशतिनक्षत्रयोगे दिङ्मण्डलं तथा | मण्डलं पंचभूतानां सप्तर्षीणां समागमे || ११-१५ || अमायां चन्द्रसंदर्शः प्रलयस्य तु कारणम् | भूकम्पः प्रतिमाहासः तद्भंगस्तु तथैव च || ११-१६ || उल्कापातो दिवा रात्रौ दुश्चिन्हानि महेश्वरि | चिन्हान्येतानि दृष्ट्वा तु कारयेत् स्वस्तिवाचनम् || ११-१७ || महोत्पातादिकं भूयान्नात्र कार्या विचारणा | छत्रभङ्गो राष्ट्रभङ्गो महामारीभयं तथा || ११-१८ || सर्वथा संभवत्येव येन लक्षणमुच्यते | मोरगं तु समासाद्य महाम्लेच्छांतकं शिवे || ११-१९ || प्रोक्तस्त्वश्वपतिर्देवि शृणुष्व गजनायकम् | कोंकणांतं समासाद्य आग्नेयान्तं महेश्वरि || ११-२० || प्रोक्तो गजपतिर्देवि शृणुष्व नरनायकम् | आ पूर्वपश्चिम व्याप्य प्रोक्तो नरपतिः प्रिये || ११-२१ || सर्वेषां लक्षणं देवि कथितं शंभुताण्डवे | दिनहोराभिधं चक्रं प्रवक्ष्यामि समासतः || ११-२२ || रहस्यातिरहस्यं च गोप्याद्गोप्यतरं शिवे | यस्य विज्ञानमात्रेण त्रैकाल्यगोचरो भवेत् || ११-२३ || मद्भक्तोऽसि महादेवि तस्मात्तत्ते वदाम्यहम् | कालकौशलचक्रं च विष्णुकौशलमेव च || ११-२४ || बुद्धकौशल चक्रं च रुद्रकौशलकं तथा | दिनकौशलचक्रस्य कलां नार्हन्ति षोडशीम् || ११-२५ || दिनकौशलचक्रस्य विज्ञानी शिव एव हि | रेखाः पंच समास्फाल्य ततो दण्डाहतास्तथा || ११-२६ || दिक्क्रमः कथितो देवि विदिङ्मार्गक्रमेण च | एवमष्टार्गलं चक्रं मुखं प्राच्या समाचरेत् || ११-२७ || प्रतीच्यां पादयुग्मं स्याद्वेद हस्ताभिधं ततः | गोलवद्भ्रमणादेव तत्तन्नाम्ना मुखं भवेत् || ११-२८ || नित्याः षोडश देवेशि प्रतिरेखागतक्रमात् | पंचाशन्मातृकावर्णाः सर्वाङ्गे यदि निश्चिताः || ११-२९ || प्. ८२) योगिनीनां चतुःषष्टिर्यथा रेखाक्रमेण तु | षट्पंचाशद्गणेशाश्च दीपरेखासमाश्रिताः || ११-३० || केशवाद्या वैष्णवाश्च कारके परिनिष्ठिताः | कारकाणां च संख्या वै भुवनाख्या प्रकीर्त्तिता || ११-३१ || आधिपत्ये महादेवश्रीकण्ठाः परिकीर्त्तिताः | चतुर्द्दशग्रहास्तत्र चराचरविभेदतः || ११-३२ || चराचरविभेदेन चतुर्धा शशिभास्करौ | अष्टाविंशति ऋक्षानि परिवर्तक्रमेण च || ११-३३ || चराचरविभागेन तत्र राशिं समाचरेत् | एवं तार्तीययुग्मे तु नेत्रयुग्मं प्रकीर्त्तितम् || ११-३४ || पादस्थाने तु सर्वज्ञः त्रिधा भेदः प्रकीर्त्तितः | साम्मुख्यं वामदक्षश्च त्रिधा भागः प्रकीर्त्तितः || ११-३५ || अहोरात्रेण देवेशि ग्रह-ऋक्षपरिक्रमः | द्वे द्वे नाडीमभिव्याप्य सृष्टिसंहरणैः शिवे || ११-३६ || सृष्टिमार्गेण सूर्यः स्यात्संहृत्या चन्द्र एव च | स्थूलक्रमेण सर्वशे प्रातरारभ्यते रविः || ११-३७ || सन्ध्यामारभ्य चन्द्रः स्याद्रात्रौ व्यत्यय एव च | विंशत्साहस्रकं सप्तशती षट्त्रिंशदीरिताः || ११-३८ || दिनकौशलकं व्याप्य परिवर्तक्रमाच्छिवे | फलं यच्छन्ति विश्वेशि ममाज्ञापालकाः सदा || ११-३९ || अन्येषां तु मते देवि सव्यमार्गेण वर्तनम् | अथाष्टादशसिद्धान्त उपाधिः परिकीर्त्तिता || ११-४० || क्वचित्कदाचिन्मिलत भाग्ययोगान्न संशयः | सूर्योदये तु यो वारः स ग्रहः प्रातरेव तु || ११-४१ || केरले व्यंकटेशाख्ये सतां मतं मयेरितम् | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यं पूर्वसूचितम् || ११-४२ || श्रीशिव उवाच | क्षमापालो भवेद्दासः कविर्मूकस्तथा भवेत् | दीनत्वतां धनाधीशो वह्निः शैत्यत्वतां व्रजेत् || ११-४३ || प्. ८३) महेंद्रोऽपि विरूपः स्यान्मेधाग्रहणजं फलम् | साम्राज्यमेधादीक्षायाः फलं प्रोक्तं पदान्तकम् || ११-४४ || नरत्वं दुर्लभं लोके विद्या तंत्र सुदुर्लभा | विद्यान्यासाच्चिन्तनाच्च ब्राह्मणत्वं भवेच्छिवे || ११-४५ || युगानां तु सहस्रं हि तपस्या येन वै कृता | महाविद्याक्रमेणैव पंचषोढाक्रमेण च || ११-४६ || शक्तिन्यासक्रमेणैव नित्यपूजाक्रमेण च | एवं तपस्यासंयुक्तः पृथ्वीपतिपदं लभेत् || ११-४७ || षट्पंचकोटिचामुण्डापंचाशद्गणपैर्युतम् | गदावर्तसमाक्रांतं वाराह्यापि विभूषितम् || ११-४८ || अष्टोत्तरशतं देवि वाराहीगणसंकुलम् | योगिनीनां चतुःषष्टिकुलै संभूषितं पदम् || ११-४९ || कालिहृदयमध्यस्थमिन्द्रप्रस्थाभिधं पदम् | साम्राज्यमेधादीक्षाद्यैर्भूषितो यो युगे युगे || ११-५० || तस्य हस्तगतं देवि पदं भवति नान्यथा | तार्क्ष्यग्रहे महेशानि साम्राण्मेधायुतश्चरेत् || ११-५१ || मनोरथमयी सिद्धिर्यस्य हस्ते विराजते | इच्छासिद्धिस्तथा तारा यस्य राजति सर्वदा || ११-५२ || काली वा सुन्दरी वापि प्रसन्ना यस्य चास्ति च | अंकमंत्रैः पताकाद्यैः कालीं विन्द्यात्पदादिकैः || ११-५३ || पूर्वोक्तरक्षकास्तस्य क्षीणश्चेन्नश्यति ध्रुवम् | पूर्वं कृतयुगे देवि देवदैत्यपुरो गमाः || ११-५४ || आचार्यद्वितयं कृत्वा राज्यभोगं च चक्रतुः | भौमाचार्यो गुरुः प्रोक्तो शुक्रो दैत्यगुरुः स्मृतः || ११-५५ || मृतसंजीविनी विद्या परकायप्रवेशनम् | परविद्याकर्षणं च त्वस्त्रांणां शतकं तथा || ११-५६ || त्रयस्त्रिंशत्कोटिसंख्या माया यद्धस्तगाः शिवे | तत्प्रीत्या तु महेशानि क्षणमेकं तु याचितः || ११-५७ || अस्मिन्क्षणे जायमानाः सर्वे सिद्धा भवन्ति च | इति ज्ञात्वा महेशानि क्षणं दत्तं मया तदा || ११-५८ || प्. ८४) तत्काले ये च वै जातास्ते सिद्धाः सिद्धिदायकाः | चतुरशीति सिद्धाश्च जातास्तत्कालगोचराः || ११-५९ || नव नाथास्तथा जाता शुक्रजन्मक्षणे शिवे | यस्य जन्मक्षणे देवि जाता ये सिद्धरूपिणः || ११-६० || प्रत्यक्षरूपिणस्तस्य का कथा परमेश्वरि | तस्य निग्रहकर्ता तु भूमौ कोऽस्ति सुरालये || ११-६१ || नागालये वा देवेज्ये त्रैलोक्यविजयी स तु | तस्य निग्रहकर्ता तु न च कोऽप्यस्ति भूतले || ११-६२ || त्रैलोक्यविजयास्त्रं च यस्य हस्ते विराजते | नामपारायणं देवि मंत्रपारायणं तथा || ११-६३ || खेचरीसंयुतो यो हि स्तम्भकः शशिसूर्ययोः | कालानलास्त्रसंपन्नस्तस्य निग्रहकारकः || ११-६४ || || इति श्रुक्रः || शिवपूजारतः पूर्वं त्रिंशद्वर्षयुगं शिवे | प्रत्यहं करवीरेण पूजाकारी महेश्वरि || ११-६५ || तदा तुष्टो महादेवस्त्विदं वचनमब्रवीत् | निधीनां नवकं दत्तमिन्द्राद्यास्तव पूजकाः || ११-६६ || कुबेरस्त्वं सुराध्यक्ष मम हारि सदा वस | निधिनाथस्य पदवी तदा दत्ता मया शिवे || ११-६७ || धनदा कमला सौख्यं लक्षीस्तत्र वसेत्सदा | नरशास्तास्तथा यक्षा यक्षिण्यः किन्नरीगणाः || ११-६८ || तव सेवां प्रकुर्वन्ति धनेशस्त्वं भव प्रिय | एवं तस्य वरो दत्तो मया पूर्वं महेश्वरि || ११-६९ || तस्य विग्रहकर्ता तु को वा भुवनमध्यगः | श्रीक्रोधमण्डलं देवि यस्य हस्ते विराजते || ११-७० || मंत्रमंदलकं देवि महामण्डलमेव च | विद्यामंडलकं वापि पार्षन्मण्डलमेव च || ११-७१ || षट्शांभवयुतो यो हि तस्य निग्रहकारकः | महाक्रोधांकुशेनैव धनदां ताडयेच्छिवे || ११-७२ || धनदा तु कुबेरस्य निधनत्वं करिष्यति | || इति धनेशः || महाकाल्या महेशानि तार्त्तीये स्थापितस्तु यः || ११-७३ || प्. ८५) तार्तीयनेत्ररूपस्तु वह्निरित्यभिधीयते | वीरभद्रस्तथा रुद्रः क्रोधः कालान्तकेति च || ११-७४ || प्रलयाद्वस्तु संहारपर्यायाः कीर्त्तिता मया | यद्यत्कार्यं समायाति तत्तद्रूपेण वर्तते || ११-७५ || श्रीकाल्याः प्रेर्यमाणस्तु तत्तद्रूपेण वर्तते | कालीक्रोधात्समुद्भूतो देवतामुखवाचकः || ११-७६ || तस्मिन्हुतं च दत्तं च सर्वं भस्म भविष्यति | स एव वाडवाग्निस्तु तत्तत्कार्यवशाद्भवेत् || ११-७७ || अग्निं विना महेशानि न देवि न महेश्वरः | कीटाद्ब्रह्माण्डपर्यन्तं वह्निः सर्वत्र तिष्ठति || ११-७८ || काली श्मशानसंभूतः काल्या नेत्रे नियोजितः | संहारसमये प्राप्ते काल्या संप्रेरितः शिवे || ११-७९ || ब्रह्माण्डं भस्मसात्कृत्वा ज्वालामालासमाकुलः | अनादिसृष्टिरूपाया महामायाद्यचण्डिका || ११-८० || श्रीमत्सिद्धि कराली या गुह्यकाली तु या परा | कालकाली तु या प्रोक्ता महाकाम कला तु या || ११-८१ || स्वराजदंते देवेशि ब्रह्माण्डं स्थापितं तया | अनंतकोटिब्रह्माण्डं राजदंतं विराजते || ११-८२ || दन्तेषु राजते यस्माद्राजदन्ताविति स्मृतौ | त्रैलोक्यचर्वकौ दन्तौ मम कार्यकरावुभौ || ११-८३ || * * * * * * (?) देवि राजदन्तौ प्रकीर्त्तितौ | इच्छाशक्तया तया देवि सृष्टिरुत्पादिता पुनः || ११-८४ || तदा वह्निर्महेशानि स्वनेत्रे स्थापितस्तदा | अष्टोत्तरशतं वह्नेः षोडशोत्तरगं रवेः || ११-८५ || शतं षट्त्रिंशत्सोमस्य नेत्रत्रितयकं शिवे | एता एव कला देवि शांभवादौ प्रयोजिताः || ११-८६ || ईदृग्विधो महेशानि वह्निरुक्तो मया तव | तस्य निग्रहकर्ता च ब्रह्माण्डे कोऽस्ति वै प्रिये || ११-८७ || नवचक्रोपासको यः षट्चक्रोपासकोऽपि वा | साम्राज्यशांभवाक्रान्तः पंचास्त्रसाधने रतः || ११-८८ || प्. ८६) दशविद्यामयी या तु तस्योपासनतत्परः | दिवारात्रिव्यत्ययं तु यः कर्तुं भवति क्षमः || ११-८९ || स वह्नेर्निग्रहे शक्तो भवत्येव न चान्यथा | || इति वह्निः || षट्त्रिंशत्कोटिदेवानामीश्वरो यस्तु कीर्त्तितः || ११-९० || स देवेन्द्र इति ख्यातो महासाम्राज्यदायकः | निखर्ववारं देवेशि श्रीव्द्योपास्तितत्परः || ११-९१ || ततः शांभवसंपन्नो मेधादीक्षायुतस्ततः | रश्मिमण्डलसंयुक्तः साम्राज्यमण्डलान्वितः || ११-९२ || चक्रपारायणासक्तो यत्रपारायणान्वितः | कलायुग्मसहस्राणां कादिहादिक्रमेण च || ११-९३ || एतद्युक्ततपस्या तु येन यमयुगं कृता | तेनेदं प्राप्यते देवि पदमिंद्राभिधं शिवे || ११-९४ || पंचरत्नं समासाद्य वीरसाधनतत्परः | तस्य हस्तगतं देवि पदमिन्द्राभिधं भवेत् || ११-९५ || नवकोटिमहामंत्रैः समाक्रान्तं शिवे पदम् | तद्रक्षका महेशानि पंचाशत्कोटिभैरवाः || ११-९६ || क्रोधराजस्तु शरभस्तथा प्रत्यंगिरा शिवे | अनंतकोटि मंत्रैश्च रक्षितं तत्पदं शिवे || ११-९७ || प्राप्तिस्त्विन्द्रपदस्याथ नाल्पस्य तपसः फलम् | तस्य निग्रहकर्ता तु कोऽस्ति क्वापि चराचर || ११-९८ || क्रूरकर्मकरत्वाच्च राक्षसाः परिकीर्त्तिताः | ब्रह्माण्डगोलके या च या काचिज्जगतीतले || ११-९९ || समस्ताः सिद्धयो देवि यस्य हस्तगताः सदा | स एव निग्रहं कर्तुं शक्तो भवति नान्यथा || ११-१०० || अञ्जनखेचरीखड्गवेतालगुटिकास्तथा | चन्द्रसूर्यसहस्राणि साधको यः करोति च || ११-१०१ || सुन्दरीकालिकातारा यस्य गेहगताः सदा | देवेन्द्रनिग्रहे शक्तिस्तस्य वै भवति ध्रुवम् || ११-१०२ || नराय न प्रकाश्यं स्यात् किमन्यद्बहुजल्पनम् | इति संक्षेपतः प्रोक्तं कालिकासिद्धिलक्षणम् || ११-१०३ || प्. ८७) कादिहादिमतत्वेन प्रोक्तमेतन्मया तव | गोपनीयं गोपनीयं स्वयोनिरपरा यथा || ११-१०४ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि जीवक्रीडाविनिर्णयम् | श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि जीवन्यासविनिर्णयम् || ११-१०५ || जीवन्यासः पञ्चधा स्यात् बीजस्रोदक्षसागराः | कालानलक्रमेणैव प्रोक्तः पञ्चविधः शिवे || ११-१०६ || गौडकेरलकाश्मीरक्रमभेदेन पार्वति | देवदेहे च पुत्तल्यां षष्ठी चन्द्रविनिर्णयः || ११-१०७ || गाणपे चैव पुत्तल्यां शिवलिङ्गे च पार्वति | पार्थिवाभिधदुर्गायां यथालिङ्गेन योजयेत् || ११-१०८ || काश्मीराख्यक्रमे देवि षष्ठी वह्निविभूषिता | बहुत्वादिक्रमे देवि क्रम एषः प्रकीर्त्तितः || ११-१०९ || गौडे द्वयं तु साम्यं स्यादित्यागमेषु गोपितम् | केरलाख्यक्रमे देवि षष्ठी चन्द्रेण योजयेत् || ११-११० || द्वित्रिरुद्रशतान्ते तु ग्रहदोषनिवारणे | विंशद्दिनं पूजयेद्धि सर्वग्रहनिवारणम् || ११-१११ || एकविंशति संपूज्य सर्वपापैः प्रमुच्यते | शतं संपूजयेन्नित्यं सर्वकामांल्लभेच्छिवे || ११-११२ || सहस्रपूजाद्देवि दुर्भगः सुभगो भवेत् | सहस्रत्रितयं पूज्य सर्वकार्यक्षमो भवेत् || ११-११३ || एवं लक्षादि संपूज्य सर्वसिद्धीश्वरो भवेत् | एकद्वित्रिविधौ देवि कोटिशोऽनंतरूपधृक् || ११-११४ || शिवः संव्याप्य सर्वं तु सदा तिष्ठति पार्वति | शिवस्य प्राणा इत्युक्त्वा पार्थिवे प्राणयोजनम् || ११-११५ || एकः शिवो महेशानि प्राणास्तु बहवः शिवे | शिवस्य प्राणाः सर्वत्र संव्याप्य सन्ति पार्वति || ११-११६ || पार्थिवेषु शिवः प्राणाः षष्ठी चन्द्रसमाङ्किते | काश्मीराख्यक्रमो देवि कथितस्ते मया तव || ११-११७ || प्. ८८) शिवो दाता शिवो भोक्ता शिवः कर्ता निरंजनः | भस्मोद्धूलितसर्वाङ्गो रुद्राक्षभूषिताङ्गकः || ११-११८ || सप्तविंशतिरुद्राक्षाः सन्ध्यावत्परिकीर्त्तिताः | उक्तसंख्या महेशानि स्नानवत्परिकीर्त्तिताः || ११-११९ || सहस्रमणयो देवि नैमित्तिकविधौ शिवे | द्वित्रिवेदसहस्त्राणि रुद्राक्षान्धारयेत्प्रिये || ११-१२० || रुद्राक्षमण्डलं कृत्वा तूत्तमाधममध्यमः | रुद्राक्षभूषितो भूत्वा रुद्रतुल्यः क्षणाद्भवेत् || ११-१२१ || मस्तके त्रिगुणा धार्या द्विगुणा बाहुमण्डले | यथेच्छया च सर्वाङ्गे उक्तसंख्या श्रुतौ शिवे || ११-१२२ || रुद्राक्षधारणे देवि विशेषान्नियमद्वयम् | स्त्रीद्विष्टं गुरुशप्तं च तत्संसर्गं न कारयेत् || ११-१२३ || नेत्रत्रयात्समुत्पन्ना रुद्राक्षास्त्रिविधाः कलौ | धनश्रीर्दक्षनेत्रे स्यात् मोरङ्गोऽन्यस्तु चोत्तरः || ११-१२४ || तृतीयस्तु मलाकी स्यान्नाग्निर्दहति तत्तनुम् | रुद्रचक्षुः समाख्याता रुद्राक्षाः परिकीर्त्तिताः || ११-१२५ || रुद्राक्षमंडपे स्थित्वां यं यं मंत्रं जपेच्छिवे | स एव सिद्धरुपः स्यान्नात्र कार्या विचारणा || ११-१२६ || जीर्णे सूत्रे पुनः सूत्र कृत्वा स्थाप्य जपेन्मनुम् | रुद्राक्षमण्डपे देवि पूजयेत् सिद्धिहेतवे || ११-१२७ || रुद्राक्षमण्डपे देवि द्विधा श्रीचक्रपूजनात् | श्रीविद्यारूपमाप्नोति नात्र कार्या विचारणा || ११-१२८ || द्विविधत्वं प्रवक्ष्यामि येन देव मयो भवेत् | चत्वारि शिवचक्राणि शक्तिचक्राणि पंच च || ११-१२९ || भूपुरं गुणरेखा च नागयुग्मदलानि च | ततो नागदलं देवि शिवचक्राणि पार्वति || ११-१३० || मन्वस्रं दिग्युगास्रं च त्वष्टास्रं च त्रिकोणकम् | पंच वै शक्तिचक्राणि दक्षिणामूर्तिसंमते || ११-१३१ || आनंदभैरवमते शक्तिशैवानि संशृणु | चतुः श्रीकण्ठसंयुक्तैः शिवरामादि पंचभिः || ११-१३२ || प्. ८९) परस्परप्रभिन्नाभिः शंभोः प्रकृतिभिर्नव | श्रीचक्रसिद्धिमेतद्धि शिवशक्त्यात्मकं महः || ११-१३३ || अंतर्गृहं बहिश्चैव गृहं तु द्विविधं शिवे | चतुर्दशारपर्यन्तमन्तर्गृहमिदं शिवे || ११-१३४ || बहिर्गृहं त्वष्टदलाद्भूपुरान्तं प्रकीर्त्तितम् | चतुर्दशारपर्यन्तं श्रीचक्रं परिकीर्त्तितम् || ११-१३५ || यथा परापूजनादौ बिन्दुमध्ये गृहे शिवे | तथान्तर्गृहमित्युक्तं सर्वदेवप्रपूजिते || ११-१३६ || रुद्राक्षमण्डपे देवि चक्रद्वयविचारणात् | सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा || ११-१३७ || तत्र पीटक्रमं ज्ञात्वा यंत्रे शक्तिं प्रपूजयेत् | श्रीदेव्युवाच | पीठकुम्भं प्रपूज्यं स्यात्तन्मे वद महेश्वर || ११-१३८ || अधो मध्येऽथवा पूज्यं कुत्र वा परमेश्वर | अथवोपरि पूज्यं वा कुत्र पूजा विधीयताम् || ११-१३९ || तन्मे वद महेशान यद्यहं तव वल्लभा | श्रीशिव उवाच | पीठं तु पात्रमित्युक्तं पीठोपरि प्रपूजयेत् || ११-१४० || यन्त्रं चैतन्यमित्युक्तं पीठं चाधस्तनं भवेत् | यंत्राधः पूजयेत्पीठं यंत्रं मूर्त्तिमयं शिवे || ११-१४१ || मूर्तेरवो भवेत्पीठं मूर्त्तिः पीठोपरि प्रिये | यंत्राधः पूजयेत्पीठं यंत्रं मूर्तौ निधापयेत् || ११-१४२ || अत्र केचिदपीच्छन्ति यंत्रमध्ये प्रपूजनम् | शुभयोगे शुभदिने महापर्वणि साधकः || ११-१४३ || चन्द्रसूर्यग्रहे वापि यंत्रस्थापनमाचरेत् | यन्त्र संस्थापनं कार्यं चन्द्रसूर्यग्रहे शिवे || ११-१४४ || तद्यंत्रस्था देवता तु सहसा वरदायिनी | चन्द्रसूर्यग्रहे देवि यद्यत्कर्म करोति च || ११-१४५ || तत्तदक्षययमायाति विद्याराज्ञीप्रसादतः | प्रमादान्मोहतो वापि पवित्रारोपणं प्रिये || ११-१४६ || प्. ९०) अधिवासनकं कर्म न जानन् पूर्वमेव चेत् | तदा किंवा महेशानि तत्कार्यं वा विलोपयेत् || ११-१४७ || लोपने चेत् महत्पापं कार्यं यत्नेन शांकरि | प्रथमप्रहरे देवि ह्यधिवासनमाचरेत् || ११-१४८ || तृतीयप्रहरे देवि पवित्रारोपणं चरेत् | प्रहरद्वयभेदेन ह्यधिवासनमीरितम् || ११-१४९ || कार्यलोपो न कर्तव्यः सर्वथा हितमिच्छता | यंत्राधिवासनं कार्यमेवमेव प्रकीर्त्तितम् || ११-१५० || कर्मलोपे क्रियमाणे देवताशापमाप्नुयात् | इति संक्षेपतः प्रोक्तं संप्रदायत्रये शिवे || ११-१५१ || पुरश्चर्या त्रिधा देवि तत्क्रमं शृणु पार्वति | दशांगा केरले प्रोक्ता काश्मीरे वसुसंज्ञिता || ११-१५२ || पंचांगा गौडमार्गे तु साम्राज्यमण्डलं शृणु | कालिकाशापमुक्तिस्तु महाकालश्च कुल्लुका || ११-१५३ || तद्गायत्री स्पर्शमणिस्तारा तस्याश्च कुल्लुका | अक्षोभ्यवटुकौ देवि तथा चैकाक्षरी शिवे || ११-१५४ || तद्गायत्री तथा बाला तद्गायत्री तथैव च | कामविद्यामणिः कीलास्तद्विद्या कुल्लुका तथा || ११-१५५ || स्वर्णेशः क्षेत्रपालश्च तथैव छिन्नमस्तका | एकार्णा तस्या गायत्री ततः कामकला शिवे || ११-१५६ || तद्गायत्री मधुमती तथा पद्मावती शिवे | संपत्सरस्वती चैव नवार्णा विजया तथा || ११-१५७ || द्वात्रिंशदक्षरी विद्या त्रैलोक्यविजया तथा | हेलका चार्द्रपटिका मृत संजीवनी तथा || ११-१५८ || * * स्तंभकरी विद्याः तथा कर्णपिशाचिनी | अमरी कुण्डली देवि तथा वै कालसुन्दरी || ११-१५९ || कर्णचण्डा तथामोघ कर्णाख्या तु पिशाचिनी | महाकर्णपिशाची च तथा स्वप्नेश्वरी शिवे || ११-१६० || स्वप्नवाराहिका विद्या द्वितीया महती शिवे | श्रीमहारक्तचामुण्डा त्रिपुराकर्षणी तथा || ११-१६१ || प्. ९१) चिटिविद्या महेशानि कमलाक्षी ततः परम् | आकर्षणी महाकाली श्रीविद्याकर्षिणी तथा || ११-१६२ || वशीकरणकाली च महानीलसरस्वती | नकुली बगला विद्या तद्गायत्री च कुल्लुका || ११-१६३ || वसोर्धारा च धूमेशी तथा मारणकालिका | त्रैलोक्यमोहिनी चैव श्रीमहाकुलहारिणी || ११-१६४ || सुरतेशी किन्नरी च रंजकी तदनंतरम् | वशीकरणताम्बूला द्वितीयाऽपि तथैव च || ११-१६५ || क्षिप्रकामिनिका विद्या काली कामकला शिवे | ताम्बूलाकर्षिणी विद्यां द्वितीया मुखमार्जनी || ११-१६६ || श्रीविद्या कुल्लुका चैव दीपिनी च महेश्वरी | कालिका दीपिनी चैव महामण्डलमेव च || ११-१६७ || खड्गवारणविद्या च भूतरुद्रमहांकुशा | प्रत्यंगिरेति देवेशि साम्राज्यमंडलं मतम् || ११-१६८ || जपपूजा जपश्चैव ध्यानं चैव तथा जपः | पुनर्ध्यानं बलिश्चैव नैवेद्यं च विसर्जनम् || ११-१६९ || कुमारीपूजनं होमो बलिदानं च भोजनम् | पुनर्जपो महेशानि साम्राज्यमंडलक्रमः || ११-१७० || क्रूरचंडा क्रूरजटा उग्रघंटा तथैव च | एते विज्ञाय यत्नेन साधयेत्सिद्धिसाधनम् || ११-१७१ || जपेन पुटिता पूजा पूजया पुटितो जपः | अन्योन्यपूजनं कृत्वा साधयेद्वीरसाधनम् || ११-१७२ || पूजायुक्तं जपेन्मंत्रं न मंत्रं केवलं जपेत् | जपयुक्ता भवेत्पूजा न पूजा केवला भवेत् || ११-१७३ || इति संक्षेपतः प्रोक्तं गोपनीयं स्वयोनिवत् | श्रीदेव्युवाच | देव देव महादेव विश्वसिद्धिपरायण || ११-१७४ || चराचरमिदं सर्वं त्वन्मुखाद्विश्रुतं मया | इदानीं वद सर्वज्ञ भूतानां निग्रहो महान् || ११-१७५ || श्रीशिव उवाच | रहस्यातिरहस्यं च कथं तत्प्रवदाम्यहम् | तथापि तव संप्रीत्या कथ्यते शृणु साम्प्रतम् || ११-१७६ || प्. ९२) भूताः प्रेताः पिशाचाश्च राक्षसा ब्रह्मराक्षसाः | भूतप्रेतग्रहाश्चैव तथा बालग्रहाः शिवे || ११-१७७ || कश्मलाश्च निवाताश्च डाकिनी शाकिनी तथा | याकिनी राकिनी चैव हाकिनी लाकिनी तथा || ११-१७८ || काकिनी प्रमुखाश्चैव झोटिंगा भैरवेरिताः | रुद्रग्रहास्तथा विष्णुग्रहा ब्रह्मग्रहास्तथा || ११-१७९ || कृत्यग्रहास्तथा देवि कुष्माण्डा यक्षिणीग्रहाः | कामग्रहा मदोन्मादा स्तथोन्मत्तग्रहाः शिवे || ११-१८० || जलग्रहास्तथा सर्वे ग्रहाश्च कटपूतनाः | स्कन्दग्रहा महेशानि तथा वैनायिकाः शिवे || ११-१८१ || धनग्रहास्तथा देवि तथा देवग्रहा अपि | यक्षाश्च दानवा दैत्या वेतालाः किन्नरीगणाः || ११-१८२ || भूतिन्यप्सरसश्चैव तथैव नागिनीग्रहाः | एवमादिग्रहादीनां नाशनं येन जायते || ११-१८३ || शूलिनी शरभश्चैव शिवपंचाक्षरी तथा | नवदुर्गा बहिर्बंधस्तथान्तर्बन्ध एव च || ११-१८४ || सुभ्रूणश्च महेशानि तथैव खड्गवारणः | महाविद्यामंडलं च महामंडलमेव च || ११-१८५ || हनुमान्भैरवश्चैव बटुकः क्रोधभैरवः | प्रत्यंगिरा वीरभद्रस्त्रैलोक्यविजया तथा || ११-१८६ || नारसिंहो महेशानि महाशरभशूलिनी | चंडकाली भद्रकाली प्रोक्ता रुद्रमहांकुशा || ११-१८७ || महापाशुपतास्त्रं चाघोरास्त्रं च तथैव च | एते मंत्रा मया प्रोक्ता शाबरद्वययोगतः || ११-१८८ || ब्रह्मराक्षसवेतालकृत्यादौ खड्गवारणे | ब्रह्मा विष्णुस्तथारुद्रः प्रेतापस्मारनाशने || ११-१८९ || यातुधानविनाशे तु तथा किंपुरुषादिके | शरभो हनुमान्देवि विरूपाक्षोङ्गिरा अपि || ११-१९० || भूतप्रेतपिशाचादि क्रूरग्रहनिवारणे | शूलिनी नवदुर्गा च तथा पंचांगुलिः प्रिये || ११-१९१ || प्. ९३) कुष्माण्डडाकिनीनाशे प्रेतापस्मारनाशने | वीरभद्रः शिवः प्रोक्तः सर्वनाशे तु तद्गणाः || ११-१९२ || सर्वेषां नाशने शान्तौ प्रीतावपि महेश्वरि | महाविद्यामण्डलं च बन्धद्वयसमन्वितम् || ११-१९३ || महाविद्यामण्डलेन किं तद्यन्न करे स्थितम् | गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः || ११-१९४ || रहस्यातिरहस्यं च स्वयोनिरपरा यथा | इति स.क्षेप्तः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ११-१९५ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यमपरं वद | श्रीशिव उवाच | आवेशं भैरवादीनां निग्रहो येन जायते || ११-१९६ || तेनैव शक्यते कर्तुं नान्यथा शांकरं वचः | तन्मूलविद्यायोगेन किंवा सिध्यति पार्वति || ११-१९७ || नृसिंहानां भैरवाणां तथा हनुमदादिके | श्रीवीरवायुपुत्रेण खड्गवारणतः शमः || ११-१९८ || रक्तपभैरवादीनां शास्ता श्रीभैरवेश्वरः | दामिनीनां तथेष्टानां महेष्टानामपि प्रिये || ११-१९९ || निग्रहे वीरकाली तु किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | अथ वै कुल्लकोत्पत्तिं कथयस्व ममाधुना || ११-२०० || श्रीशिव उवाच | रहस्यमपि देवेशि कथ्यते शृणु साम्प्रतम् | कुल्लुका च तथा सेतुर्महासेतुस्तथैव च || ११-२०१ || निर्वाणं कुण्डली षष्ठी सर्वोत्पतिं शृणु प्रिये | विद्यानां कुलपूज्यत्वात्कुल्लुका तेन कीर्त्तिता || ११-२०२ || विद्यासंबंधिदोषाणां भक्षयित्री यतः शिवे | तेनेयं कुल्लुका नाम कालिनित्या तृतीयका || ११-२०३ || कुल्लैव कुल्लुकानाम्नी नीला नीलसरस्वती | विद्यासिद्ध्यर्णवे देवि येन पारं प्रगच्छति || ११-२०४ || तेन सेतुर्महेशानि विद्यामार्गः प्रकीर्त्तितः | महाविद्याप्ति सन्दर्शी महासेतुर्महेश्वरि || ११-२०५ || प्. ९४) महाविद्यार्णवस्याथ चैतन्यस्य प्रदर्शकः | महासेतुर्महादेवि महाविद्यास्वरूपधृक् || ११-२०६ || देवतायास्तु निर्वाणं चैतन्यं यच्च कीर्त्तितम् | निर्वाणं कथितं भद्रे विद्यावाक्मातृकार्णकैः || ११-२०७ || निर्वाणं परमेशानि सेतुश्चरणरूपधृक् | निर्वाणं तु महेशानि परब्रह्मात्मता शिवे || ११-२०८ || चतुर्थं कथितं भद्रे विद्याचरणमीरितम् | पंचमी कुण्डली देवी यथावदवधारय || ११-२०९ || मूलाधाराद्विलान्तं च विषतन्तुस्वरूपिणीम् | सर्वदेवस्वरूपाञ्च सर्ववर्णप्रदीपिनीम् || ११-२१० || महाकुण्डलिनीं देवीममरी कुण्डलीं पराम् | प्रथमं कालिकादेव्याः कुल्लुका पञ्चमी परा || ११-२११ || काली कूर्चं वधू माया फडंता परीकीर्त्तिता | तारायास्त्र्यक्षरी नीला छिन्ना चाष्टाक्षरी भवेत् || ११-२१२ || वज्रवैरोचनी ये च अन्ते वर्म प्रकीर्त्तितम् | हैस्त्रं बीजं तु भैरव्याः कुल्लुका परिकीर्त्तिता || ११-२१३ || श्रीमत्त्रिपुरसुन्दर्याः कुल्लुका द्वादशाक्षरी | वाग्भवं कामराजं च लज्जां च त्रिपुरेशि च || ११-२१४ || भगवति ततः स्वाहा कुल्लुकां त्रिपुरामनोः | अन्यासां प्रणवं तारा कूर्चेति त्र्यक्षरी मता || ११-२१५ || अघोरश्च विरूपाक्षः छिन्नाया द्वारदेवताः | क्रमेण कुल्लुकादीनां ऋषयः परिकीर्तिताः || ११-२१६ || छन्दः स्वस्वदेवताया बीजशक्त्यादिकं तथा | पुरश्चर्यादिकं देवि कर्तव्यं स्वस्वमूलवत् || ११-२१७ || महाकुण्डलिनीं वक्ष्ये सर्वतंत्रेषु गोपिताम् | प्रणवं च तथा जू/ सः कालमूर्तिपदं ततः || ११-२१८ || कालप्रबोधिनीपदं कालातीतेपदं वदेत् | कालदायिनिशब्दान्ते कपालपात्रधारिणि || ११-२१९ || अमरीति कुण्डलिनि जू/ सः वञ्चत्रयं तथा | सोऽहं स्वाहा महेशानि महाकुण्डलिनी मनुः || ११-२२० || प्. ९५) चिंतयेत्कुण्डलीं देवीं मूलचूलिनिवासिनीम् | तदधः कामराजं च सा प्रोक्ता स्पर्शसुन्दरी || ११-२२१ || महाकामकलारूपां काकिनीमूर्ध्नि संस्थिताम् | सेत्वादिकं पूर्वमुक्तं किं भूयः श्रोतुमिच्छसि || ११-२२२ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पूर्वोक्तं यद्रहस्यकम् | श्रीशिव उवाच | किं तद्रहस्यं देवेशि प्रकाशय ममाधुना || ११-२२३ || श्रीदेव्युवाच | महाकालादिनित्यानां निर्णयद्वितयं वद | श्रीशिव उवाच | महाकालं समारभ्य नित्यानां निर्णयं शृणु || ११-२२४ || महाकालो महाभीमः प्रलयानलसन्निभः | कालीमायासमुद्भूतः कालीमानसिकः शिवः || ११-२२५ || महाकालः परशंभुः परातीतगुणाकरः | तस्य मंत्रं प्रवक्ष्यामि येन रक्ष्यं जगत्त्रयम् || ११-२२६ || कूर्चयुग्मं महाकाल प्रसीदेति पदद्वयम् | लजायुग्मं वह्निजायासंयुक्तः षोडशार्णकः || ११-२२७ || षोडशार्णा यथा मुख्या सर्वंश्रीचक्रमण्डले | तथायं सर्वकालीषु महाकालः प्रकीर्तितः || ११-२२८ || कालिकाऽस्य ऋषिः प्रोक्तो विराट्छन्दः प्रकीर्त्तितम् | देवता तु महाकालः सर्वरूपी निरंजनः || ११-२२९ || कूर्चं बीजं तथा माया शक्तिरत्र प्रकीर्त्तिता | स्वाहा कीलकमुद्दिष्टं काल्यर्थे विनियोगता || ११-२३० || मायया तु षडंगानि ध्यानं शृणु वरानने | कोटिकालानलाभासं चतुर्भुजं त्रिलोचनम् || ११-२३१ || श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् | पंचप्रेतस्थितं देवं त्रिशूलं डमरुं तथा || ११-२३२ || खड्गं च खर्परं चैव वामदक्षिणयोगतः | बिभ्रतं सुन्दरं देहं श्मशानभस्मभूषितम् || ११-२३३ || प्. ९६) नानाशवैः क्रीडमानं कालिका हृदयस्थितम् | लालयन्तं रतासक्तं घोरचुम्बनतत्परम् || ११-२३४ || गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् | जटापटलशोभाढ्यं सर्वशून्यालयस्थितम् || ११-२३५ || सर्वशून्यं मुण्डभूषं प्रसन्नवदनं शिवम् | भावयेत्परमेशानि रतियंत्रं तु पञ्च च || ११-२३६ || त्रिकोणसंज्ञा योनिः स्यात्तच्चक्रं कालचक्रकम् | योनौ वा हृदये भाले कामिन्याः स्तनमण्डले || ११-२३७ || महाकालं यजेद्देवं पञ्चावरणसंयुतम् | त्रिकोणे पूजयेद्देवि त्रिकोणं कालिकादिकम् || ११-२३८ || षड्दले तु षडंगानि नाभौ दिक्शक्तयो मताः | हृदये द्वादशादित्याः कंठे षोडशनित्यकाः || ११-२३९ || द्विपत्रे परमेशानि कालकालीं प्रपूजयेत् | * * * देवि तां देवीं पूजयेद्विभूम् || ११-२४० || शक्तिं स्वाभिमुखीं कृत्वा पूजयेत्कालिकां पराम् | मूलाधाराद् द्विपत्रान्तं यथा चक्राणि कारयेत् || ११-२४१ || पूजयेत्परमेशानि गुरुपूजापुरःसरम् | पात्रासादनकं कृत्वा कालीवत् परिपूजयेत् || ११-२४२ || एवं पूजां विधायाऽथ लक्षसंख्यं जपेच्छिवे | तद्दशांशेन हवनं करवीरप्रसूनकैः || ११-२४३ || स्वयंभुवाक्तैर्वीजाक्तैः कारणाक्तैश्च वा हुनेत् | नित्यं नैमित्तिकं काम्यं कालीवत् सर्वमाचरेत् || ११-२४४ || अन्तर्धानकरी काली विद्याया विधिरुच्यते | मूर्त्तिं ध्यानोदितां ध्यात्वा सर्वावयवशोभिताम् || ११-२४५ || मूलाधारे गणपतिं लिङ्गे गणपवल्लभाम् | नाभौ बटुकनाथं च हृदि बटुकवल्लभाम् || ११-२४६ || कण्ठे उड्यानपीठं च भ्रुवि प्रदीप्तमंगलाम् | ललाटे करवीरं च अलके क्षेत्रपालकम् || ११-२४७ || मूर्ध्निं वै कालिकां चैव चतुर्थ्यतां प्रपूजयेत् | मूर्ध्निं व्योमैश्वर्याम्बां च ललाटे खेचरीं तथा || ११-२४८ || प्. ९७) भूमध्ये दिक्चरीं चैव हृदये गोचरीं तथा | नाभौ च भूचरीं चैव लिंगे च खगमूर्तिकाम् || ११-२४९ || मूलपत्रे विचित्रां च पूजयेत्साधकोत्तमः | तथा ललाटे सूर्यं च दक्षनेत्रे कलाधिपम् || ११-२५० || वैश्वानरं वामनेत्रे कण्ठे च कालिकां तथा | हृदये दासयोनिं च नाभौ च दाससिद्धकम् || ११-२५१ || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराह्यैन्द्री च चामुण्डा महालक्ष्मी परा मता || ११-२५२ || मंथानभैरवश्चैव षट्चक्रभैरवस्तथा | फट्कारभैरवश्चैव बिभक्षभैरवस्तथा || ११-२५३ || वीरेशभैरवश्चैव श्रीमन्तेश्वरभैरवः | हंसगर्भभैरवश्च चण्डिकेश्वरभरवः || ११-२५४ || मूर्ध्नि ललाटे कण्ठे च हृदये नाभिमण्डले | लिंगे च मूलाधारे च सर्वांगे पूजयेत्सुधीः || ११-२५५ || यथाशक्ति जपेद्विद्यां बलिं दद्याद्यथाविधि | ओं क्षे/ च क्षेत्रपाल इमं बलिं पदं वदेत् || ११-२५६ || गृह्ण्युक् स्वाहया युक्तः क्षेत्रपालबलिर्मता | इति पूजाविधिर्देवि श्रीकालीकालयोर्मता || ११-२५७ || अंतर्धान विधौ देवि * * * र्मता | महाकालप्रसंगेन रहस्यमपि दर्शितम् || ११-२५८ || गोपनीयं त्वया भद्रे रहस्यातिरहस्यकम् | गोपनीयं गोपनीयं स्वयोनिरपरा यथा | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ११-२५९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे महाकालमन्त्रविधिर्नामैकादशः पटलः || ११ || द्वादशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | श्रीशिव उवाच | अन्तर्धानविधिः प्रोक्ता परकायप्रवेशनम् || १२-१ || कथ्यते देवदेवेशि शृणु सावहिता भव | कुलाकुलसमुद्भूतममृतानन्दमर्चयेत् || १२-२ || सूर्यकोटिसमं मंत्रं वादिमध्ये व्यवस्थितम् | जपेत्कुलामृतं दत्वा * * * समुद्भवम् || १२-३ || तथा कुले * * * कुण्डलीदृढबन्धनात् | आधारे पत्रमध्ये च द्विपत्रे द्विपदालये || १२-४ || षोडशारे युते लिंगे द्वादशे मणिपूरके | हृदये दशपत्रे च द्वादशार्धे चतुर्दले || १२-५ || कण्ठे भाले यजेद्देविर्जिह्वाललनसंकुले | अबलागारमध्ये तु ब्रह्मचर्यव्रतो नरः || १२-६ || संकल्पैर्धवलैर्वापि श्वेतवस्त्रावगुण्ठितम् | गच्छति ब्रह्ममार्गेण लिङ्गभेदक्रमेण च || १२-७ || विसर्गस्थामृतं दिव्यं क्षीरधारोपमं द्रवम् | पीत्वा कुलामृतं तत्र पुनरेव विशेत्कुलम् || १२-८ || पुनरेवाकुलं गच्छेद् द्वादशान्ते निवेदयेत् | सहस्रारे महाचक्रे वाग्भवं पूर्णचन्द्रकम् || १२-९ || ब्रह्मग्रन्थिं ततो भित्वा पीत्वा सप्ताष्टधारया | लम्बिकाद् ब्रह्ममार्गेण तालुमूले प्रवेशयेत् || १२-१० || जिह्वामापूर्य तां विद्यां मातृकावर्णरूपिणीम् | बहिर्गतां वर्णरूपां जिह्वाग्रे दीपरूपिणीम् || १२-११ || आमूलाद्ब्रह्मरंध्रांतं तथा जिह्वाग्रदेशगाम् | वाग्भवाद्यां महाविद्यां दीपाकारां विचिन्तयेत् || १२-१२ || हस्तयोः पादयोर्विद्यां तथा नाडीत्रयेषु च | आधारात्तु समुत्थाप्य वागीशीं द्वादशे नयेत् || १२-१३ || द्वादशाधारमादाय तद्ग्रंथिं परिभेदयेत् | तस्माज्जिह्वाग्रमादाय दीपाकारां विभावयेत् || १२-१४ || प्. ९९) लक्षमेकं तत्र जप्त्वा सर्वपापं विनिर्दहेत् | ततश्चराचरं सर्वं ज्ञात्वा सर्वज्ञतां नयेत् || १२-१५ || प्राणायामप्रभावेन जपसिद्धिः प्रजायते | एकविंशतिसाहस्रं षट्शताधिकमेव च || १२-१६ || प्रत्यहं जयते जीवो ब्रह्मानन्दमयीं पराम् | उत्पत्तिर्जप आरंभो मृतिरस्या निवेदनम् || १२-१७ || विना जपेन सततं जपो भवति सर्वदा | एवं जपं सुविज्ञाय गणेशादौ निवेदयेत् || १२-१८ || जीवात्मनः क्रमेणैव तथा च परमात्मनः | षट्शतानि सहस्राणि षडेव च तथा पुनः || १२-१९ || षट् सहस्राणि ततो सहस्रं चैतदेव हि | पुनः सहस्रं गुरवे क्रमेण विनिवेदयेत् || १२-२० || आधारे स्वर्णवर्णेऽस्मिन्वादिसान्तानि संस्मरेत् | विद्युत्पुञ्जप्रभाभानि चिन्तयेत् मणिपूरके || १२-२१ || महानीलप्रभाभानि डादिफान्तानि चिन्तयेत् | पिङ्गवर्णमहावह्निं कर्णिकाभं विचिन्तयेत् || १२-२२ || कादिठान्तानि वर्णानि चतुर्थेनाहते स्मरेत् | विशुद्धे धूम्रवर्णे तु रक्तवर्णान्स्वरान् न्यसेत् || १२-२३ || आज्ञायां विद्युदाभायां शुभ्रौ हक्षौ विचिन्तयेत् | कर्पूरद्युतिसंराजत्सहस्रदलपङ्कजे || १२-२४ || नीलात्मकं ब्रह्मरन्ध्रे चिन्तयेच्च ततः परम् | फलं चास्य प्रवक्ष्यामि षड्चक्रेषु यथाक्रमम् || १२-२५ || आधारे भावनाभ्यासान्मंत्रसिद्धिः प्रजायते | * * च भावनाभ्यासाद्विद्या वीर्यवती भवेत् || १२-२६ || ततो ध्यायेन्नाभिचक्रे विद्याज्ञानस्य हेतवे | देहज्ञानं लभेन्मंत्री षण्मासाभ्यंतरेण च || १२-२७ || हृदब्जे भावनाभ्यासात्त्रिकालज्ञो नरो भवेत् | कण्ठे च भावनाभ्यासाद्देहसिद्धिः प्रजायते || १२-२८ || सूर्यसत्त्वान्महायोगी त्रैलोक्ये यद्भवत्यपि | जानात्यहरहो मंत्री त्रैलोक्ये च न संशयः || १२-२९ || प्. १००) शिवचंद्रसमायोगाज्जाप्य शुक्रज्ञवान्भवेत् | उदानमभ्यसेन्नित्यं जलस्तंभनहेतवे || १२-३० || समानाभ्यासतो योगी वह्निनाऽपि न दह्यते | ततः सूक्षो महाभूतः सूक्ष्ममुत्तारयेदपि || १२-३१ || मनोजवो भवेन्मंत्री कालिकाध्यानयोगतः | देहज्ञानप्रभावेन अन्तर्धानमवाप्नुयात् || १२-३२ || अन्तर्धानप्रभावेन परदेहं प्रवेशयेत् | अणिमाद्यष्टभावेशः कोटिसिद्धीश्वरो भवेत् || १२-३३ || अलभ्यं लभते योगी महामंत्रानुभावतः | इत्यादि सिद्धिभावेषु वैराग्यं यदि जायते || १२-३४ || कैवल्यं लभते योगी कालीव्यापकतामियात् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १२-३५ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि कालीनित्याविनिर्णयम् | श्रीशिव उवाच | काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी || १२-३६ || विप्रचित्ता तथोग्रोग्रप्रभा दीप्ताऽथवा तथा | नीला घना बलाका च मात्रा मुद्रा मिता तथा || १२-३७ || नित्यामण्डलमेतद्धि तत्क्रमं शृणु शांभवि | कालीनित्या च तन्मन्त्रः कथ्यते शृणु साम्प्रतम् || १२-३८ || विषबीजं ततो मायां कालीति युगलं वदेत् | महाकालि पदं प्रोच्य कौमारीति पदं वदेत् || १२-३९ || मह्यं देहि पदं देवि ठठ युक्ता मनुर्मता | ऊनविंशाक्षरी विद्या कालीनित्या प्रकीर्त्तिता || १२-४० || पर्शुरामो ऋषिः प्रोक्तञ्छन्दोऽनुष्टुप् प्रकीर्तितम् | देवता कालिका प्रोक्ता माया बीजं प्रकीर्त्तितम् || १२-४१ || कालिका च भवेच्छक्तिः ठयुग्मं कीलकं भवेत् | कालिकाप्रीणनाद्यर्थे विनियोगः प्रकीर्त्तितः || १२-४२ || षडङ्गमाचरेद्देवि जातियुक्तेन मायया | ततो ध्यायेन्महेशानि चितानिर्वाणमण्डले || १२-४३ || प्. १०१) श्यामवर्णा महाभीमा घोररावा करालिनी | मुण्डमालाविभूषाढ्या दक्षे खड्गं प्रविभ्रती || १२-४४ || तर्जनीं धारयन् वामे नृत्यन्ती प्रेतभूमिषु | एवं ध्यात्वा महेशानि तद्यन्त्रं शृणु पार्वति || १२-४५ || त्रिकोणयुग्मं देवेशि वृत्ताष्टदलभूपुरम् | बिन्दौ कालीं समाराध्य त्रिकोणयुग्मके पुनः || १२-४६ || गुणत्रयं तत्पुरुषास्तच्छक्तयः क्रमान्मताः | ब्राह्म्यादिमातरश्चाष्टौ लोकपालाः सशस्त्र काः || १२-४७ || भूपुरे पूजयेद्देवि धूपदीपोपचारकैः | नैवेद्यं विविधं खाद्यं पंचखाद्यं विशेषतः || १२-४८ || निवेदयेत्कालिकायै ततस्तुष्टा भविष्यति | नीराजनान्तं कृत्वाऽथ प्रजपेल्लक्षमात्रकम् || १२-४९ || दशांशं पायसेनैव होमं कुर्याद्विधानतः | अथवा करवीरेण होमयेत्सर्वसिद्धये || १२-५० || सर्वसिद्धीश्वरो देवि भवत्येव न संशयः | मंत्रभेदान्प्रवक्ष्यामि यथावदवधारय || १२-५१ || नामत्रयं महेशानि प्रत्येकं प्रणवक्रमात् | मंत्रत्रयं महेशानि बीजत्रयनियोजनात् || १२-५२ || विद्यात्रयं पुनर्देवि ध्रुवमायानियोजनात् | विद्यात्रयं महेशानि प्रत्येकं नवधा मनुः || १२-५३ || दुर्भगानां च दीनानां क्रूराणां पापकर्मिणाम् | मंत्रमेनं न कथयेत्सर्वैश्वर्यमयो भवेत् || १२-५४ || लक्ष्मीवान्कीर्तिमान्धन्या भवत्येव न संशयः | सुन्दरीं कामिनीं दृष्ट्वा तस्याश्चैव * * वदेत् || १२-५५ || * * शब्देन तद्भंगं सा दासी मंत्रजापतः | व्याकुला सा भवत्येव स्वेच्छया भोगमेष्यति || १२-५६ || ललाटे हृदये विद्यां योनिमध्ये यथाक्रमम् | यस्याः संचिन्तयेद्विद्यां तन्नामस्मृतिपूर्वकम् || १२-५७ || तामाकर्षयति क्षिप्रं किमन्यैर्बहुजल्पितैः | साक्षात्स कालीपुत्रः स्यान्नात्र कार्या विचारणा | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १२-५९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कालीनित्यानाम द्वादशः पटलः || १२ || त्रयोदशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि कपालिन्या विधिं पराम् | नित्या द्वितीया देवेश प्रोक्ता कपालिनी परा || १३-१ || तस्या मंत्रं महेशान कथयस्व ममाधुना | श्रीशिव उवाच | देवेशि कथ्यते गोप्यं यन्न कुत्राऽपि कीर्त्तितम् || १३-२ || कपालिनी महाविद्या द्वितीया तन्मौं शृणु | आदौ सप्तकुलं प्रोच्य कामं वह्निपदे स्थितम् || १३-३ || इन्दिराबिन्दुभूषाढ्यं बीजं कालीस्वरूपकम् | कपालिनि महाकपालप्रियमानसे वदेत् || १३-४ || कपालसिद्धिं मे देहि हू/ फट् स्वाहान्तको मनुः | त्रिंशद्वर्णोऽर्धवर्णाढ्यो मंत्रराजो महोत्तमः || १३-५ || भैरवोऽस्य ऋषिः प्रोक्तस्त्रिष्टुप् छंद उदाहृतम् | कपालिनी देवताऽत्र कालिका बीजमीरितम् || १३-६ || स्वाहा शक्तिः समाख्याता हू/ फट् कीलकमीरितम् | कपालिनीसिद्धयेऽत्र विनियोगः प्रकीर्त्तितः || १३-७ || षड्दीर्घभाजा बीजेन कुर्यादङ्गानि षट्क्रमात् | ध्यायेदञ्जनपुञ्जाभामापीनस्तनयुग्मकाम् || १३-८ || चन्द्रवक्त्रां च बिम्बोष्ठीं मुक्तकेशीं दिगम्बराम् | चतुर्मुंडो परिगतां शङ्खकङ्कणभूषिताम् || १३-९ || खड्गत्रिशूलवरदाभयान् हस्तचतुष्ठये | क्रमात्संबिभ्रतीं देवीं गीतहास्यपरायणाम् || १३-१० || एवं सञ्चितयेद्देवि नित्यां कपालिनीं पराम् | त्रिकोणत्रितयं वृत्तं दलाष्टकविभूषितम् || १३-११ || भूपुरेण समाकीर्णं चतुर्द्वारोपशोभितम् | यंत्रं कपालिनीदेव्याः सर्वसाम्राज्यदायकम् || १३-१२ || महाकालीं महालक्ष्मीं महासरस्वतीं तथा | रतिं प्रीति तथा कांतिं द्वितीये तु त्रिकोणके || १३-१३ || प्. १०३) ईच्छां ज्ञानं क्रियां चैव त्रिकोणे तु तृतीयके | मध्ये कपालिनीं पूज्य दलेऽष्टौ मातृकार्चनम् || १३-१४ || ततोऽष्टौ भैरवांश्चैव दिगीशान् शस्त्रकान्यजेत् | पंचोपचारैः संपूज्य कुलाचारपरायणः || १३-१५ || साधकः प्रजपेल्लक्षं हयारिकुसुमैर्हुनेत् | मांसेन मधुना चापि जुहुयादिष्टसिद्धये || १३-१६ || तदा कपालिनी देवी सिद्धा भवति निश्चितम् | पुरश्चर्यां विना देवि कथं सिद्धा कपालिनी || १३-१७ || मुण्डासने नरः स्थित्वा सदा तद्गतमानसः | महामालां महापात्रं महायंत्रासनादिकम् || १३-१८ || कृत्वा तु विधिवद्देवि तदा भवति साधकः | अथान्यदपि वक्ष्यामि कपालिन्याः पराक्रमम् || १३-१९ || रणवीरकपालानि कुजवारे निशामुखे | समाहृत्य महेशानि पंच पंच समन्वितः || १३-२० || दिग्बन्धभूतशुद्धादिकपालाद्युपहारकैः | साधकः सहितो भूत्वा सिंदूरतिलकाङ्कितः || १३-२१ || खड्गहस्तो दिशावासो मुक्तकेशो मुदान्वितः | ईदृशः साधकः सोऽहङ्कृतिभावसमन्वितः || १३-२२ || सुदूरे साधकान् स्थाप्य पुष्पवर्त्या घृताक्तया | दीपं संलापयेद्देवि जपेत्तत्र कपालिनीम् || १३-२३ || भाग्यात्कपालिनीसिद्धिः कदाचित्प्रभविष्यति | तथापि कालिकाभक्ते भविष्यति भविष्यति || १३-२४ || कपालं भाग्ययोगेन कदाचिद्यदि लभ्यते | तदा कपालिनी सिद्धिः कज्ज्वलं तद्धि संग्रहेत् || १३-२५ || तत्कज्ज्वलं कपाले तु कज्ज्वलं स्थाप्य वै जपेत् | संमोहनाञ्जनं नाम महदञ्जनमीरितम् || १३-२६ || तत्कपाले महेशानि किं तद्यन्न करे स्थितम् | एषा कपालिनी नित्या द्वितीया कालिका भवेत् || १३-२७ || इति संक्षेपतः प्रोक्तं कुल्लां शृणु तृतीयकाम् | कालिका कुल्लुका कुल्ला त्रिधा नाम्ना तु या मता || १३-२८ || तस्मात्कुल्लेति नाम्ना च कुलपूज्यत्वतां गता | विद्यानां कुलपूज्यत्वात्कुल्लुका परिकीर्त्तिता || १३-२९ || प्. १०४) कुल्लुका कुलपूज्यत्वात्कुल्लानाम्नी कुलेश्वरी | तस्या मंत्रं प्रवक्ष्यामि यथावदवधारय || १३-३० || प्रणवं पूर्वमुद्धृत्य कालिकाबीजमुद्धरेत् | कुल्लायै हृन्मनुर्देवि प्रोक्तः सप्ताक्षरो मनुः || १३-३१ || भैरवोऽस्य ऋषिः प्रोक्तो गायत्री छंद ईरितम् | कुल्ला काली देवताऽत्र कालिका बीजमीरितम् || १३-३२ || कुल्लाशक्तिरिति ख्याता नमः कीलकमीरितम् | सर्वार्थसाधने चैव विनियोगः प्रकीर्त्तितः || १३-३३ || कालिकोक्ते यजेत् पीठे कुमारीयंत्रमेव हि | कुमार्याः पूजनाद्देवि कुल्ला सिद्धा भवेद् ध्रुवम् || १३-३४ || लक्षद्वयं जपेन्मंत्रं हविष्याशी दिवा शुचिः | अशुचिश्च तथा रात्रौ श्रीकुल्लादर्शनोत्सुकः || १३-३५ || कदाचिदभ्रसदृशां कदाचित् ज्योतिसन्निभाम् | चतुर्भुजां त्रिनयनां मुकुटाटोपमण्डिताम् || १३-३६ || शवासनगतां कुल्लां दशमण्डोपरिस्थिताम् | वराभयौ करे वामे पुस्तस्रक् दक्षिणे करे || १३-३७ || नानाविलासकुशलां कुल्लाम्बां परिचिन्तयेत् | एवं चिंतयतस्तस्य दशविद्यामयी कला || १३-३८ || भवत्येव महेशानि कुल्लाम्बायाः प्रभावतः | करवीरैर्जपापुष्पेर्हुनेज्जपदशांशतः || १३-३९ || तद्दशांशं गन्धतोयैस्तर्पयेन्मार्जयेदपि | ब्राह्मणान्भोजयेद्देवि तदन्ते तु कुमारिकाम् || १३-४० || पूजयेत्परमेशानि कुल्लाविद्या प्रसिध्यति | कुल्लाविद्या महेशानि सर्वविद्याप्रकाशिनी || १३-४१ || यंत्रमस्यास्ति देवेशि नैमित्ते काम्यकर्मणि | त्रिकोणद्वयमुद्धृत्व वृत्ताष्टदलभूषितम् || १३-४२ || चतुर्द्वारसमायुक्तं भूपुरैकेण संयुतम् | मध्ये बीजं न्यसेत्काल्या बीजयुक्तं महोत्तमम् || १३-४३ || धृतिं पुष्टिं तथा मेधां तुष्टिं प्रज्ञां तथा जयाम् | त्रिकोणद्वितये पूज्य दलेऽष्टमातृक्भैरवाः || १३-४४ || लोकपालान् शस्त्रयुकान् कुल्लुकावरणे यजेत् | अथवा देवदेवेशि कालिकावत्समस्तकम् || १३-४५ || प्. १०५) नवरात्रद्वये चन्द्रसूर्यग्रहद्वये तथा | संक्रमे चोत्तमे चार्थे पूजयेद्यन्त्रमुद्भुतम् || १३-४६ || यदैव कार्यमुप्तन्नं तदैव कुल्लुकार्चनम् | न विद्या सिद्धिमाप्नोति कुल्लुकार्चनमन्तरा || १३-४७ || आदिमांत्यसमायुक्ता सा विद्या सिद्धिमाप्नुयात् | आदिमांत्यमजानन् हि यो गुरुः स तु शिष्यहा || १३-४८ || आदिमांत्यक्रियायुक्तो नित्यामंत्रो हि सिध्यति | आदिमांत्यविहीनस्य न स्याद्देवस्य दर्शनम् || १३-४९ || प्रीतिर्भयं द्वयमिति द्वाभ्यां संव्यापितं जगत् | अयं प्रयोगो गोत्पव्यो न कुत्रापि मयेरितः || १३-५० || कुल्लादेव्यादिनित्यासु जपो हि द्वितयावधिः | द्वितयाभ्यां न सिद्धोऽसौ स मंत्रो न जपक्षमः || १३-५१ || कुल्ला नित्या तृतीयोक्ता यस्यामेतत्प्रतिष्ठितम् | समस्तजगतीसारं कुल्लासंक्षेपपूजनम् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १३-५२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कुल्लानित्याविधिर्नाम त्रयोदशः पटलः || १३ || चतुर्द्दशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यमपरं महत् | कुरुकुल्लाविधानं च कथयस्व ममाधुना || १४-१ || कुरुकुल्ला च किं नाम किं विधा किं विधो मनुः | सर्वं कथय देवेश यद्यहं तव वल्लभा || १४-२ || श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् | विद्यानां कुलपूज्यत्वात्कुल्लुका कुल्लुकाधिका || १४-३ || कुल्लाया अपि पूज्यत्वात्कुरुकुल्ला महोदया | तस्या मंत्रो महेशानि सर्वमंत्रोत्तमोत्तमः || १४-४ || कालिकार्चं समुद्धृत्य कुरुकुल्लेपदं वदेत् | कालीं मायां ममपदं सर्वजनपदं ततः || १४-५ || वशमानय चोच्चार्य कालीं च कुरुकुल्ले च वै | पदमुद्धृत्य देवेशि माया स्वाहान्तगो मनुः || १४-६ || सप्तविंशत्यर्णसंख्यो मंत्रोऽयं सुरपादपः | एतस्या हृन्मनुर्देवि कुरुकुल्ला नवाक्षरी || १४-७ || श्रीविद्याविषये भिन्ना कुरुकुल्ला महेश्वरि | काल्यंग विद्या देवेशि श्रीविद्या कुरुकुल्लिका || १४-८ || इयं भिन्ना महाविद्या कालीनित्या चतुर्थिका | विना तु हृन्मनुर्देवि कुरुकुल्ला न सिध्यति || १४-९ || हृन्मनुं कुरुकुल्लाया ज्ञात्वा यत्नेन पार्वति | प्रणवं कूर्चमुद्धृत्य कुरुकुल्लेपदम् वदेत् || १४-१० || ह्री/ स्वाहान्तो मनुर्देवि कुरुकुल्ला कुमारिका | हृन्मनुत्वेन कथितः सर्वमन्त्रोत्तमओत्तमः || १४-११ || कालभैरवो ऋषिश्चास्य बृहती छन्द ईरितम् | देवता कुरुकुल्ला च सर्वविद्यामयी परा || १४-१२ || प्. १०७) क्री/ बीजं ह्री/ तथा शक्तिः स्वाहा कीलकमीरितम् | कुरुकुल्लाकुमार्यास्तु भैरवो ऋषिरीरितः || १४-१३ || विराट्छन्दो निगदितं कूर्चं बीजं प्रकीर्तितम् | स्वाहा शक्तिः समुद्दिष्टा विनियोगो यथेच्छया || १४-१४ || कुल्लकुल्लां मित्रकुल्लां कुरुकुल्लां हृदङ्गमाम् | कालीध्रुवः कुरुकुल्ले क्री/ ह्री/ च मम सर्वतः || १४-१५ || जनवशं क्री/ कुरुयुक् कुरुकुल्ले त्रिविष्टपे | स्वाहान्तोऽयं समुद्दिष्टो भैरवो हि विराट् ततः || १४-१६ || ह्री/ बीजं च तथा स्वाहा शक्तिः क्री/ कीलकं मतम् | सर्वार्थे विनियोगः स्यात् पूर्ववत् क्वापि कीर्त्तितः || १४-१७ || विनियोगः पूर्ववत्स्यात् शृणुष्वाङ्गादिकल्पनाम् | षड्दीर्घकालीबीजेन षडङ्गानि क्रमाच्चरेत् || १४-१८ || ततो ध्यायेन्महाविद्यां कुरुकुल्लां कुलेश्वरीम् | शवोपरि समासीनां मुण्डमालाविभूषिताम् || १४-१९ || कपालकर्तृकाहस्तां खड्गखेटकधारिणीम् | अञ्जनाद्रिनिभां दिव्यां मुक्तकेशीं चतुर्भुजाम् || १४-२० || पीनोन्नतकुचद्वंद्वां पीनवक्षो नितम्बिनीम् | भक्तानंदकरोद्युक्तां साधकाभीष्टदायिनीम् || १४-२१ || आसवाघूर्णनयनां कामिनीं जनमोहिनीम् | एवं संचिंतयेद्देवीं कुरुकुल्लां महोदयाम् || १४-२२ || एवं ध्यात्वा जपेल्लक्षसंख्यं त्रिमधुरान्वितैः | होमयेद्बिल्वपत्रैश्च बिल्वपुष्पैरपि प्रिये || १४-२३ || दशांशं तर्पणं कुर्यात्तद्दशांशेन मार्जनम् | तद्दशांशं विप्रभोज्यं तेन सिद्धो मनुर्भवेत् || १४-२४ || पूजयेत्कालिकापीठे त्रिकोणत्रयसोज्ज्वले | वृत्ताष्टदलभूषाढ्ये भूपुरद्वयशोभिते || १४-२५ || बिंदौ बीजं लिखेत्काल्यास्त्रिशक्तित्रयमर्चयेत् | कालीं तारां छिन्नमस्तां बालाम्बां बगलां रमाम् || १४-२६ || उग्रगर्भामुग्रबीजामुग्रवीर्यो तृतीयकाम् | त्रिकोणत्रितये पूजा क्रमेण परिकीर्त्तिता || १४-२७ || प्. १०८) ब्रह्माद्यष्टौ भैरवांश्च पूजयेत् द्विदलाष्टके | लोकपालास्तदस्त्रान्तान्पूजयेत्परमेश्वरि || १४-२८ || शवे श्मशाने विपिनेऽरण्ये च भूतसंकुले | पूजयेत्कुरुकुल्लां च सर्वसिद्धिं स विन्दति || १४-२९ || यद्यत्प्रार्थयते चित्ते तत्तदाप्नोति साधकः | समस्तान् पूजयेद्देवि ब्राह्मणांश्च सुवासिनीम् || १४-३० || विप्राराधनमात्रेण किं तद्यन्न करे स्थितम् | तण्डुलेन जयावाप्तिर्गोधूमेन धनागमः || १४-३१ || माषैः शत्रुर्मृतिं याति मुद्रैर्मोक्षफलं लभेत् | तिलतण्डुलहोमेन महाप्रीतिं स विंदति || १४-३२ || राजीलवणहोमेन कामिनीं कर्षयेद् ध्रुवम् | सर्षपैर्लवणैर्देवि कामिनीमानभञ्जनम् || १४-३३ || सर्पिर्लवणहोमेन कामिनीमनोरञ्जनम् | हरिद्रया दरिद्राणि नश्यन्त्येव न संशयः || १४-३४ || इति संक्षेपतः प्रोक्तः कुरुकुल्लाविनिर्णयः | रहस्यातिरहस्यं च किं भूयः श्रोतुमिच्छसि || १४-३५ || श्रीदेव्युवाच | विरोधिनीविधिं ब्रूहि यद्यहं तव वल्लभा | श्रीशिव उवाच | रहस्यादतिगोप्यं हि नित्या प्रोक्ता विरोधिनी || १४-३६ || पञ्चमीसंज्ञका नित्या यथावदवधारय | प्रणवं पूर्वमुद्धृत्य कालीप्रणवमुधरेत् || १४-३७ || मायां कामं ततः कूर्च्चं प्रोक्त्वा विरोधिनीपदम् | शत्रूनुच्चाटयपदं विरोधयद्वयं वदेत् || १४-३८ || शत्रुक्षयकरी प्रोच्य हूं फट् स्वाहान्वितो मनुः | द्वात्रिंशद्वर्णसंयुक्तो मन्त्रराजो महोत्तमः || १४-३९ || महामन्त्रोऽयमाख्यातो ऋषिर्भैरव ईरितः | गायत्री छन्द आदिष्टं देवता तु विरोधिनी || १४-४० || प्. १०९) कालीबीजं बीजमस्याः माया शक्तिः प्रकीर्तिता | कामबीजं कीलकं स्याद्विनियोगो यथेच्छया || १४-४१ || कालीषड्दीर्घबीजेन षडंगयुग्ममाचरेत् | ध्यायेदञ्जनगिरिनिभां द्विरष्टवर्षदेशिनीम् || १४-४२ || पीनोन्नतकुचद्वंद्वां सर्पास्थिमालिकायुताम् | चतुर्भुजां त्रिनयनां शवपद्मोपरि स्थिताम् || १४-४३ || त्रिशिखं नागपाशं च घण्टां च डमरुं तथा | संबिभ्रतीं महादेवीं क्रमाद्भुजचतुष्टये || १४-४४ || धूम्राम्बरां पीतगात्रीमीषत्प्रहसिताननाम् | मा भैर्वीर वरं ब्रूहि सर्वं तत्ते ददाम्यहम् || १४-४५ || उपस्थितं तु यत्कार्यं तत्तत्कार्यं करोम्यहम् | एवं संवदतीं देवीं चारुहासां मनोहराम् || १४-४६ || विरोधकरणोद्युक्तां शत्रूणां नाशकारिणीम् | कालिकोक्ते यजेत्पीठे त्रिकोणत्रयशोभिते || १४-४७ || वृत्ताष्टदलभूषाढ्ये भूपुरैकेन शोभिते | चतुर्द्वारविभूषाढ्ये श्रीबीजोज्ज्वलकर्णिके || १४-४८ || विरोधिनीं कर्णिकायां त्रिकोणत्रितये क्रमात् | धूम्रार्चिरूष्म ज्वालिनीं ज्वालिनीं विस्फुलिंगिनीम् || १४-४९ || सुश्रीं सुरूपां कपिलां ततो हव्यवहां यजेत् | विरोधिनीमस्तके तु ततो हि दशमीं यजेत् || १४-५० || दलाष्टके भैरव्यष्टो भैरवेण समन्विताः | भूपुरे लोकपालाश्च तदस्त्राणि च तद्बहिः || १४-५१ || ततो नीराजनं कृत्वा लक्षसंख्यं जपेन्मनुम् | दशांशं जुहुयाद्वह्नौ निम्ब वह्नौ यथाविधि || १४-५२ || अरिष्टमालां कृत्वा च महामुण्डासनो नरः | जुहुयादरिनाशाय अरिष्टफलमादरात् || १४-५३ || विभीतकेन जुहुयात्सर्वशत्रुनिबर्हणम् | धत्तूरकुसुमैर्होमात् शत्रून् विद्वेषयेन्नरः || १४-५४ || काकोलूकस्य मांसेन शत्रुं मारयति क्षणात् | राजवृक्षप्रसूनैश्च तत्काष्ठाग्नौ हुनेत्सुधीः || १४-५५ || प्. ११०) विरोधिनी भवेत्सिद्धा धूमावत्यादिसंयुता | अर्काद्यादि समायुक्ता शत्रुविद्वेषकारिणी || १४-५६ || वायव्याभिमुखो भूत्वा कटुजीरकजं जलम् | कोष्णं पिबेन्महेशानि शत्रुर्ज्वरयुतो भवेत् || १४-५७ || पराभिचारनाशार्थं स्वरक्षार्थं यथाविधि | एकान्ते मातृगेहे वा मृतहट्टे शिवालये || १४-५८ || विरोधिनीं जपेद्विद्यां ह्ययुतं चोक्तमार्गतः | विभीतकस्य समिधो हुनेच्छत्रुनिवारणम् || १४-५९ || नाभिमात्रोदके गत्वा मरीचजलयोगतः | तर्पयेद्देवतां नीरैस्त्रैलोक्यद्वेषणं चरेत् || १४-६० || अथाकर्षणमन्विच्छन्वल्मीकमृत्समानयेत् | श्मशानमृत्समादाय गोधूमहिंगुजीरकैः || १४-६१ || पुत्तलीं साध्यरूपां च कारयेत्परमेश्वरि | नासायां डोरकं दत्वा प्राणस्थापनपूर्वकम् || १४-६२ || विरोधिनीं जपेत्तत्र करवीरैः समर्चयेत् | दुग्धेन पुत्तलीं कृत्वा तापयेत्खदिरानले || १४-६३ || अनेन क्रमयोगेन दिनानि तु चतुर्दश | यः करोति नरः श्रेष्ठः सर्वाकर्षणकारकः || १४-६४ || वनितां मदगर्वाढ्यां समाकर्षति योगतः | विचार्याकषर्णं कार्यं भवेद्वा न भविष्यति || १४-६५ || ध्यात्वा साध्यगले पाशं मस्तके ज्वलिताङ्कुशम् | एवं संचिंत्य देवेशि त्रैलोक्याकर्षको भवेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १४-६६ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे विरोधिनीविधिर्नाम चतुर्द्दशः पटलः || १४ || पञ्चदशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि विप्रचित्ताविधानकम् | कथयस्य महादेव यद्यहं तव वल्लभा || १५-१ || श्रीशिव उवाच | रहस्यमपि देवेशि तव प्रीत्या निगद्यते | विप्रचित्तातिदुष्टानां वधार्थं पूर्वमुद्यता || १५-२ || विप्रचित्तेति विख्याता वैप्रचित्तविनाशिनी | षष्ठी नित्या महाविद्या तन्मंत्रं शृणु पार्वति || १५-३ || प्रणवं कमलां कामं चामुण्डेपदमुच्चरेत् | विप्रचित्ते पदं प्रोच्यं दुष्टघातिनि चोच्चरेत् || १५-४ || शत्रून्नाशय चोच्चार्य एतद्दिनावधि प्रिये | सिद्धिं मे देहि चोच्चार्य हु/ फट् स्वाहांतगो मनुः || १५-५ || चतुस्त्रिंशद्वर्णयुतो विप्रचित्तामनुर्महान् | ईश्वरोऽस्य ऋषिर्देवि जगती छंद ईरितम् || १५-६ || विप्रचित्ता देवता हि चामुण्डा बीजमीरितम् | कमला शक्तिराख्याता कामबीजं तु कीलकम् || १५-७ || षड्दीर्घाढ्येन कामेन षडंगन्यासमाचरेत् | सिंहोपरि समारूढां शवपञ्जरमध्यगाम् || १५-८ || चतुर्भुजां त्रिनयनां पीनोन्नतपयोधराम् | दिगंबरां मुक्तकेशीं ललज्जिह्वां भयानकाम् || १५-९ || भीमदंष्ट्रां करालास्यां सृक्किणीरक्तवाहिनीम् | खड्गमुण्डकपालत्रिशूलहस्तां महोदरीम् || १५-१० || नीलोत्पलनिभां श्यामां भक्तानुग्रहकारिणीम् | दैत्यसंहरणोद्युक्तां साधकानामभीतिदाम् || १५-११ || एवं संचिंत्य देवेशि विप्रचित्तां शिवप्रियाम् | लक्षमात्रं जपेन्मंत्रं दशांशं कुमुदैर्हुनेत् || १५-१२ || प्. ११२) अथाष्टगन्धनीरेण तद्दशांशं प्रतर्पयेत् | मार्जनं तद्दशांशेन दशांशेनाभिषेचनम् || १५-१३ || तद्दशांशं विप्रभोज्यं विप्रचित्तासुसिद्धये | त्रिकोणं वृत्तषट्कोणं वृत्ताष्टदलभूषितम् || १५-१४ || वृत्तभूपुरसंयुक्तं बिन्दुबीजविभूषितम् | बिंदौ यजेद् विप्रचित्तां त्रिकोणे त्रिगुणां यजेत् || १५-१५ || षट्कोणे तु षडंगानि तद्दले मातृभैरवौ | भूपुरे लोकपालाश्च तदस्त्राणि च तद्बहिः || १५-१६ || ततो नीराजनं कृत्वा जपं देव्यै समर्पयेत् | पुरश्चर्यासमायुक्तः प्रयोगार्हो न चान्यथा || १५-१७ || साकल्पैर्जुहुयाद्देवि शांतिकर्मणि साधकः | मालत्या जुहुयाद्वश्ये केतक्या वाग्विभूतये || १५-१८ || करवीरैर्वशीकारः किंशुकैः स्तंभनं भवेत् | मोहनं चोड्रपुष्पेण धत्तूरैर्मारणं दिशेत् || १५-१९ || बृहत्या तु रिपूच्चाटो गिरिकर्ण्या धनागमः | काशपुष्पै रिपूच्चाटो विद्वेषो कर्णिकारजैः || १५-२० || नीवारैर्जुहुयाद्देवि धान्यसिद्ध्यर्थमेव हि | कलायपुष्पैर्जुहुयात्ततः स्युः सर्वसंपदः || १५-२१ || कौसुंभकुसुमैर्देवि कामिनीं वांछितां लभेत् | मधुपुष्पैश्च जुहुयादभीष्टसिद्धये ध्रुवम् || १५-२२ || धातक्या जुहुयाद्देवि धनधान्यपतिर्भवेत् | यद्रोगे भेषजं यच्च तेन तद्रोगनाशनम् || १५-२३ || इति संक्षेपतः प्रोक्तो विप्रचित्ताविनिर्णयः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि उग्रानित्याविनिर्णयम् || १५-२४ || श्रीशिव उवाच | रहस्यातिरहस्यं च तथापि कथ्यते शृणु | प्रणवं च वधूबीजं हू/बीजं भुवनां ततः || १५-२५ || पुनः पूर्वं ततो हू/ फट् उग्रा सप्ताक्षरो मनुः | भैरवोऽस्य ऋषिः प्रोक्तो बृहती छंद ईरितम् || १५-२६ || प्. ११३) उग्रा तु सप्तमी नित्या देवता परिकीर्त्तिता | कूर्च बीजं च फट् शक्तिर्वधूः कीलकमीरितम् || १५-२७ || सर्वाभीष्टादिसिद्ध्यर्थे विनियोगः प्रकीर्त्तितः | षड्दीर्घाढ्येन बीजेन मायाख्येन षडंगकम् || १५-२८ || ततो ध्यायेत्परामुग्रां प्रत्यालीढपदस्थिताम् | चतुर्भुजां त्रिनयनां मुण्डमालाविभूषिताम् || १५-२९ || दिगम्बरां करालास्यां घोरदंष्ट्रां भयानकाम् | शवोत्संगे क्रीडमानां श्मशानालयवासिनीम् || १५-३० || श्यामवर्णां मुक्तकेशीं खड्गेन्दीवरधारिणीम् | कपालकर्तृकाहस्तां वरदानपरायणाम् || १५-३१ || उग्रां ध्यायेन्महाविद्यां लक्षयुग्मं जपं चरेत् | तद्दशांशेन जुहुयात्कमलैर्घृतसंयुतैः || १५-३२ || तद्दशांशं तर्पणं च तद्दशांशं च मार्जनम् | विप्रभोज्यं दशांशेन तेनोग्रा सिद्धिदा ध्रुवम् || १५-३३ || पर्वते प्रांतरे घोरे विपिने तटिनीतटे | एकलिंगे श्मशाने वा पुरश्चरणवान्भवेत् || १५-३४ || अथास्याः पूजायंत्रं च यथावत्कथ्यते शृणु | त्रिकोणं वृत्ताष्टदलं वृत्तभूपुरभूषितम् || १५-३५ || शूलाष्टकविभूषाढ्यं किंवा वज्रविभूषितम् | त्रिकोणमध्ये विलिखेत्कूर्चबीजं महोत्तमम् || १५-३६ || तारां नीलामेकजटां तत् त्रिकोणे प्रपूजयेत् | ततो दलाष्टके देवि उग्राघोराष्टकं यजेत् || १५-३७ || वैरोचनाष्टकं पूज्य ततः पद्मान्तकान् यजेत् | लोकपालान्तदस्त्राणि यथावद्विधिना यजेत् || १५-३८ || ततो नीराजनं कृत्वा जपं देव्यै समर्प्य च | शवासने वा * * * संस्थित्वा सर्वदा जपेत् || १५-३९ || सिंदूरतिलको नित्यं संविदातवघूर्णितः | मुक्तकेशो दिशावासो भक्तभक्तो जितेंद्रियः || १५-४० || महाचीनद्रुमलतां संपाद्य परमेश्वरि | तत्त्रिकोणं च संवीक्ष्य सदा तद्गतमानसः || १५-४१ || प्. ११४) लक्षमात्रं जपेन्मंत्रं उग्रा सिद्ध्यति निश्चितम् | अन्यत्सर्वं तु तारावत्कीर्तितं जगदीश्वरि || १५-४२ || न्यासपूजादिकं ध्याने पुरश्चर्याविधानकम् | महोग्रतारावज्ज्ञेयं किं भूयः श्रोतुमिच्छसि || १५-४३ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि नित्यामुग्रप्रभाभिधाम् | अष्टमीं शुभदां नित्यां नित्यानंदकरां वराम् || १५-४४ || श्रीशिव उवाच | प्रणवं पूर्वमुद्धृत्य शिवबीजं समुद्धरेत् | वह्न्यारूढं नादबिंदुं षष्ठस्वरविभूषितम् || १५-४५ || बीजद्वयं समुच्चार्य उग्रप्रभेस्वरूपकम् | देवि कालि महादेवि स्वरूपं दर्शयेति च || १५-४६ || हूं फट् स्वाहासमायुक्तः प्रोक्तस्तूग्रप्रभामनुः | पंचविंशतितत्त्वाढ्यः प्रोक्तश्चोग्र्यभामनुः || १५-४७ || महाकालो ऋषिः प्रोक्तस्त्रिष्टुप् छंदः प्रकीर्त्तितम् | उग्रप्रभामहाकाली देवता परिकीर्त्तिता || १५-४८ || हू/ बीजं ओं तथा शक्तिः फट् कीलकमुदाहृतम् | कालिकादर्शनाद्यर्थे विनियोगः प्रकीर्त्तितः || १५-४९ || उग्रप्रभाख्यबीजेन षड्दीर्घेण षडंगकम् | ध्यायेदुग्रप्रभां दिव्यां दिव्यनीलोत्पलप्रभाम् || १५-५० || चतुर्भुजां त्रिनयनां शवपद्मोपरिस्थिताम् | दिगंबरां मुक्तकेशीं पीनोन्नतपयोधराम् || १५-५१ || सुप्रसन्नमुखांभोजां शवमांसप्रभोजनीम् | शवानां करसंघातैः कृतकांचीं हसन्मुखीम् || १५-५२ || खड्गमुण्डधरां वामे दक्षे खर्परकर्तृके | बिभ्रतीं परमाह्लादजननीं कालवंचनीम् || १५-५३ || एवं ध्यात्वा महाविद्यां लक्षयुग्मं जपेच्छिवे | कालिकोक्ते यजेत्पीठे त्रिकोणद्वयसोज्वले || १५-५४ || वृत्ताष्टदलभूषाढ्ये भूपुरद्वयभूषिते | उग्रप्रभाबिंदुमध्ये कालीं तारां च रोचनीम् || १५-५५ || प्. ११५) प्रथमे पूजयेद्देवीं द्वितीये तारिणीगणाः | तारामेकजटां नीलां द्वितीये तु त्रिकोणके || १५-५६ || दलाष्टके मातृकाष्टौ दलाग्रे भैरवाष्टकम् | भूपुरे लोकपालांश्च तदस्त्राणि च तद्बहिः || १५-५७ || त्रिस्त्रिः पूजा प्रकर्तव्या सर्वेषामपि देशिकैः | एवमुग्रप्रभामिष्टां लक्षयुग्मं जपं चरेत् || १५-५८ || दशांशं वज्रपुष्पाणि मैरेयाक्तानि होमयेत् | तर्पयेत्तद्दशांशेन दुग्धेन मधुनाथ वा || १५-५९ || दघ्ना चेक्षुरसेनापि पीठतोयेन वा पुनः | तद्दशांशं मार्जनं च दशांशं विप्रभोजनम् || १५-६० || कुमारीं पूजयेत्पश्चाच्छक्तिं चापि प्रपूजयेत् | उग्रप्रभापताकायां मूर्त्तिं कृत्वा विधारयेत् || १५-६१ || रणे देवासुरान् जित्वा त्रैलोक्यविजयी भवेत् | दुंदुभौ फलके खड्गे जप्त्वा चोग्रप्रभां शिवाम् || १५-६२ || सर्वसिद्धिं समासाद्य कालीरूपो नरो भवेत् | मानिनीमण्डलं दृष्ट्वा जपेदुग्रप्रभामनुः || १५-६३ || कालिका सिद्धिदा भूयान्नात्र कार्या विचारणा | * * * लिख्यजपेदुग्रप्रभां पराम् || १५-६४ || तत्र संचिन्त्य देवेशि साधकः किन्न साधयेत् | उग्रप्रभाख्यां कालीं तु भुक्त्वा मांसं जपेच्छिवे || १५-६५ || मासमात्रप्रयोगेण कालिका वरदा भवेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १५-६६ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे उग्रप्रभानित्याविधिर्नाम पञ्चदशः पटलः || १५ || षोडशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | तन्मे कथय देवेश दीप्तानित्याविधानकम् || १६-१ || शीशिव उवाच | पूर्वतंत्रेषु संगुप्ता दीप्तानित्या महोदया | नवमीसंख्यका नित्या सारात्सारा महोदया || १६-२ || तस्यां मंत्रं प्रवक्ष्यामि यथावदवधारय | प्रणवं कालीकाबीजं कौलिनीबीजमेव च || १६-३ || कूर्चबीजं समुद्धृत्य दीप्तायै तदनन्तरम् | सर्वमन्त्रफल प्रोच्य दायै शब्दं समुच्चरेत् || १६-४ || हुं फट् स्वाहान्तको मंत्रस्तूनविंशाक्षरः परः | अर्धसंख्याविहीनेन वीतिसंख्यः प्रकीर्तितः || १६-५ || महादेव ऋषिश्चास्य उष्णिक् छन्दः प्रकीर्त्तितम् | दीप्ताख्या नवमी नित्या देवता परिकीर्तिता || १६-६ || कालीबीजं बीजमस्याः कौलिनी शक्तिरेव हि | श्वाहा कीलकमित्युक्तं काल्यर्थे विनियोगता || १६-७ || काल्याः षड्दीर्घयुक्तेन सडंगन्यासमाचरेत् | ध्यायेद्दीप्तां महानीलमणिप्रख्यां महोदरीम् || १६-८ || चतुर्भुजां त्रिनयनां मुण्डमालाविभूषिताम् | दिगम्बरां मुक्तकेशीं घोरदंष्ट्रां करालिकाम् || १६-९ || शवपद्मे समासीनां पीनोन्नतपयोधराम् | शवास्थिकृतकेयूरशंखकङ्कणभूषिताम् || १६-१० || लेलिहानां शवं क्वापि प्रहसन्तीं मदातुराम् | भक्तानां वरदां नित्यां कालीकोद्योतकारिणीम् || १६-११ || नरान्त्रयोगपट्टेन भूषितां योगमार्गगाम् | खड्गमुण्डधरां वामे सव्येऽभयवरप्रदाम् || १६-१२ || सुदन्तुरां महारौद्रीं श्मशानालयवासिनीम् | एवं संचिन्त्य दीप्ताम्बां लक्षमेकं जपेच्छिवे || १६-१३ || प्. ११७) दशांशं करवीरेण हवनं समुपाचरेत् | कदल्या हवनं कार्यं सर्वदीप्तिप्रसिद्धये || १६-१४ || दशांशं पीठतोयेन हवनं समुपाचरेत् | तद्दशांशं मार्जनं च गंधाष्टकजलेन वै || १६-१५ || तद्दशांशं विप्रभोज्यं भोजयेद्धि कुमारिकाम् | ततः सिद्धमनुर्मन्त्री प्रयोगार्हो न चान्यथा || १६-१६ || ब्राह्मे मुहूर्ते चोत्थाय गुरुस्मरणपूर्वकम् | गुरुं ध्यात्वा सहस्रारे पूर्वोक्तध्यानयोगतः || १६-१७ || मूलाधारात्स्वजिह्वान्तं मूलविद्यां परां स्मरेत् | सरस्वतीं दीपरूपां मूलबीजस्वरूपिणीम् || १६-१८ || संपूर्णां मातृकां प्रोच्य मूलविद्यां समुच्चरेत् | पुनर्वै मातृकां प्रोच्य पुनविद्यां समुच्चरेत् || १६-१९ || त्रिधाभिमंत्र्य तोयं तु क्रमेणानेन सुन्दरि | मूलविद्यां ततो ध्यात्वा जिह्वायां दीपरूपिणीम् || १६-२० || तेजोरूपां सायुधां वै तज्जलं तु पिबेच्छिवे | योगेनानेन देवेशि त्रिकालज्ञो नरो भवेत् || १६-२१ || विना न्यासैर्विना ध्यानैर्विना पाठादिना शिवे | चतुर्विधं तु पाण्डित्यं तस्य हस्ते व्यवस्थितम् || १६-२२ || जातीपुष्पेण देवेशि कविता वशवर्तिनी | कुन्दपुष्पेण देवेशि सर्वशास्त्रवशीकृतिः || १६-२३ || दूर्वया शान्तिको होमो गुडुच्या मृत्युवारणम् | सुरया मोहनं प्रोक्तं जम्बा स्तम्भनमीरितम् || १६-२४ || आम्रेण वश्यसिद्धिः स्यादम्बुजेन महोदयः | उच्चाटनं करीषेण विद्वेषः कर्क्कटीफलैः || १६-२५ || मारणं नील पुष्पेण मरीचेन तु कर्षणम् | एवमादिक्रियाः सर्वाः सिद्धमन्त्री समाचरेत् || १६-२६ || अञ्जनं गुटिका खड्गो धातुवादो रसायनम् | चरुकं तिलकं वासो दुन्दुभिश्च कपालकम् || १६-२७ || एवमादिक्रियासिद्धिर्दीप्तामन्त्रेण वै भवेत् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १६-२८ || प्. ११८) श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि नीलाविद्याविधानकम् | नीला नीलस्वरूपा हि महानीलसरस्वती || १६-२९ || तस्या विधानं संब्रूहि यद्यहं तव वल्लभा | श्रीशिव उवाच | मंत्रोद्धारं शृणु प्राज्ञे येन सिद्धिं स विन्दति || १६-३० || कूर्चयुग्मं महादेवि कालीबीजद्वयं तथा | मायाद्वयं समृद्धृत्य हसबलमरी स्वरूपकम् || १६-३१ || अथ नीलपताके च हुं फडंता महेश्वरि | नीला नीलपताकेयं सर्वसिद्धिकरी परा || १६-३२ || उग्रचण्डा ललज्जिह्वा या सा सिद्धिकरालिका | पंचधा कथिता नीला महानीलपताकिका || १६-३३ || भैरवोऽस्य ऋषिः प्रोक्तो बृहती छन्द ईरितम् | देवता दशमी नित्या महानीलपताकिका || १६-३४ || कूर्चबीजस्वरूपं हि शक्तिरित्यभिधीयते | हूं फट् च कीलकं भद्रे काल्यर्थे विनियोगता || १६-३५ || कालीषड्दीर्घबीजेन षडंगन्यासमाचरेत् | अथ ध्यायेन्महानीलां नीलांजनगिरिप्रभाम् || १६-३६ || चतुर्भुजां त्रिनयनां मुण्डमालाविभूषिताम् | शवोपरि समासीनां मदिराघूर्णलोचनाम् || १६-३७ || मृगशावकनेत्रां च प्रसन्नवदनाम्बुजाम् | करकांचीशोभमानां शवकर्णावतंसिनीम् || १६-३८ || ललज्जिह्वा करालास्यां घोरदंष्ट्रां भयानकाम् | पापिनां सर्वदा नीलां क्रूरां पुण्यवतां वराम् || १६-३९ || दुष्टसंहरणोद्युक्तां साधकस्य वरप्रदाम् | फेरुवर्गैर्गृध्रगणैश्चतुर्दिक्षु निनादिनीम् || १६-४० || ईदृशीमादिरूपां तां नीलांभोजवनप्रभाम् | जपेल्लक्षत्रयं देवि हविष्याशी जितेन्द्रियः || १६-४१ || कुलाचारक्रमेणैव यथोक्तक्रमयोगतः | करवीरैर्जवाबिल्वैर्मल्लिकाद्यैर्घृतान्वितैः || १६-४२ || प्. ११९) त्रिकोणकुण्डे जुहुयात्सुपरिष्कृतभूतले | दशांशं तर्पणं कार्यं दुग्धेन सुरयाऽपि च || १६-४३ || मार्जयेद्रक्तनीरैश्च ब्राह्मणान्भोजयेत्ततः | सुवासिनीं कुमारीं च शक्तिं वा त्रितयां शुभाम् || १६-४४ || पुरश्चरणसम्पन्नो मंत्रः सर्वार्थदायकः | यथाद्रव्यं नृपादीनां पुरश्चर्या तु मंत्रिणाम् || १६-४५ || पुरश्चरणसंपन्नः प्रयोगार्हो न चान्यथा | यंत्रमस्याः प्रवक्ष्यामि येन सिद्धीश्वरो भवेत् || १६-४६ || बिंदुमध्ये लिखेत्कूर्चं त्रिकोणं च ततोपरि | वृत्तषट्कोणवृत्ताष्टदलं वृत्तं च भूपुरम् || १६-४७ || चतुर्द्वारोपशोभाढ्यं यंत्रं नीलामनोः शुभम् | बटुकाद्याश्चतुर्द्वारि परितो द्वारदेवताः || १६-४८ || तदस्राणि च तद्बाह्ये दलेष्टौ भैरवाः प्रिये | केसरे मातृकाष्टौ च वृत्तेऽष्टसिद्धयः क्रमात् || १६-४९ || षट्कोणे तु सडंगानि त्रिकोणे दैवतत्रयम् | कालरात्रि महारात्रि मोहरात्रि क्रमात् त्रिके || १६-५० || मध्ये नीलां समाराध्य ततो नैवेद्यमर्पयेत् | नीराजनं ततः कृत्वा स्तुत्वा नत्वा विसृज्य च || १६-५१ || नीलां संसाध्य यत्नेन षट्त्रिंशद्यक्षिणीगणम् | कालीकूर्चवधूमाया अमुकीयक्षिणीति च || १६-५२ || अन्ते पीमानि बीजानि हूं फट् स्वाहान्विता गणाः | षट्त्रिंशच्चैव यक्षिण्यः क्रमेण चोद्धृताः प्रिये || १६-५३ || तथैव बलिनो यक्षाः हूं क्रीं हूं प्रीं पुटेन च | सर्वे यक्षा हुं फडंता चतुरशीति कीर्त्तिताः || १६-५४ || यक्षिणीसिद्धिमासाद्य साधकः सुखमाप्नुयात् | राजाभवति लोकेऽस्मिन्विना राज्येन पार्वति || १६-५५ || अल्पज्ञमपि विद्वांसं मूढं च पण्डितं तथा | यः करोत्येवमादीनि राज्यरत्नधनान्यपि || १६-५६ || यो वै ददाति साध्यायः स यक्षो नात्र संशयः | देवयोनिर्मानवी च द्विधा योनिः प्रकीर्त्तिता || १६-५७ || प्. १२०) तत्तद्रूपं समासाद्य तत्सिद्धिमधिगच्छति | श्रीदेव्युवाच | फलं तु यक्षिणीसिद्धेर्यक्षसिद्धेश्च किं फलम् || १६-५८ || तन्मे वद दयापार परात्पर नमोऽस्तु ते | श्रीशिव उवाच | दीनारं गुटिका खड्गं वेतालपादुकाञ्जनाः || १६-५९ || रसं रसायनं गुप्तिस्तिलकोऽदृश्यता तथा | कपालं च पटः सङ्खस्त्रिशूलं डमरुं तथा || १६-६० || आकर्षणं वश्यता च मोहनोच्चाटनं तथा | महेन्द्रजालमिंद्रादिजालानां रचना तथा || १६-६१ || उर्ध्वोत्क्रमणकर्मादि खेचर्याद्या हि सिद्धयः | गोपनीयं गोपनीयं किमन्यच्छ्रोतुमिच्छसि || १६-६२ || प्रोक्ता नीलाभिधा नित्या श्रीविद्यादौ पताकिका | यंत्रमंत्रादिप्रस्तारसंकेतभ्रंशनं तथा || १६-६३ || लोपामुद्राविधौ कादौ यदुक्तं तद्विधौ चरेत् | लोपामुद्रा कादिहादि कामराजेऽपि तद्द्वयम् || १६-६४ || तत्काल्यां कादिकाली च हादिकल्पद्रुमो यथा | कादौ निगदितं देवि यक्षिणीयक्षमण्डलम् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १६-६५ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे दीप्तानित्याविधिर्नाम षोडशः पटलः || १६ || सप्तदशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि घनानित्याक्रमार्चनम् | उद्यद्घना घनाकारा घनानित्या घनोदया || १७-१ || घनालया घोषवती घटिकोदयरूपिणी | तस्या मंत्रार्चनं नित्यं वद त्वं करुणानिधे || १७-२ || श्रीशिव उवाच | प्रणवं पूर्वमुद्धृत्य कालिकात्र्यक्षरं तथा | घनालये घनाघने ह्रीं हूं फट् च मनुर्मतः || १७-३ || भुवनाक्षरो घनायाश्च मंत्रोऽयं सुरपादपः | अघोरभैरव-ऋषिर्विराट् छंदः प्रकीर्त्तितम् || १७-४ || काली बीजं तथा माया शक्तिः हुं फट् च कीलकम् | कालिकाप्रीतये देवि विनियोगः प्रकीर्त्तितः || १७-५ || षड्दीर्घभाजा बीजेन कर्पूरेण षडंगकम् | घनानित्यां महाविद्यां नीलजीमूतसन्निभाम् || १७-६ || मत्तकोकिलनेत्राभां पक्वजम्बूफलप्रभाम् | सुदीर्घप्रपदालंबि मुक्तालंबि कचोच्चयाम् || १७-७ || चतुर्भुजां त्रिनयनां दिगम्बरविनोदिनीम् | करालास्यां घोरदंष्ट्रां पीनोन्नतपयोधराम् || १७-८ || ओष्ठप्रांतगलद्रक्तधाराविष्फुरिताननाम् | वीराणां करकांच्या त भूषितां भीमविग्रहाम् || १७-९ || खड्गखेटकपट्टीशमुद्गरान् बिभ्रतीं क्रमात् | ध्यातव्यां सततं वीरैर्महावीरघनालया || १७-१० || लक्षमात्रं जपेन्मंत्रं घृताक्तैः कमलैर्हुनेत् | तद्दशांशं तर्पणं तु गंधदुग्धादिभिः प्रिये || १७-११ || तद्दशांशं मार्जनं तु शीतलेन जलेन च | तद्दशांशं ब्राह्मणानां भोजनं समुपाचरेत् || १७-१२ || एवं क्रियासमायुक्तो मंत्रसिद्धिं स विन्दति | घनायंत्रं प्रवक्ष्यामि पूजनं यादृशं भवेत् || १७-१३ || षट्कोणवृत्ताष्टदलं भूपुरेणोपशोभितम् | षट्कोणे तु षडंगानि षड्धा तु देवता अपि || १७-१४ || प्. १२२) दलाष्टके मातृकाष्टौ ततो भैरवपूजनम् | लोकपालान्भूपुरेषु तदस्त्राणि च तद्बहिः || १७-१५ || यथाशक्ति जपित्वा तु ततो नीराजयेद्विभुम् | नीराजनान्ते देवेशि स्तुत्वा नत्वा विसृज्य च || १७-१६ || इति संक्षेपतः प्रोक्ता घनानित्या घनालया | सिद्ध्यष्टकसमाक्रांता किं पुनः श्रोतुमिच्छसि || १७-१७ || श्रीशिव उवाच | देवेशि शृणु वक्ष्यामि बलाकापूजनक्रमम् | बलाका द्वादशी नित्या सर्वनित्यावशङ्करी || १७-१८ || यज्ज्ञानात्सकला विद्याः स्वस्वस्थानपदंगताः | तस्या मंत्रो महेशानि कथ्यते शृणु साम्प्रतम् || १७-१९ || प्रणवं कालिकाबीजं कूर्चमाये समुद्धरेत् | बलाका कालिशब्दान्ते अत्यद्भुतपराक्रमे || १७-२० || अभीष्टसिद्धिं मे देहि हुं फट् स्वाहा मनुर्मतः | कालिकाऽस्या भवेद्बीजं कूर्चं शक्तिः प्रकीर्त्तिता || १७-२१ || माया कीलकमुद्दिष्टं कीलकेन षडंगकम् | षडंगन्यासमासाद्य ध्यानं कुर्यान्महेश्वरि || १७-२२ || अञ्जनानन्तसदृशीं कोटिकालानलप्रभाम् | चतुर्भुजां त्रिनयनां मुण्डदुर्गनिवासिनीम् || १७-२३ || दिगम्बरां करालास्यां पीनोन्नतपयोधराम् | शवानां करसंहत्या कृतकांचीं शवासनाम् || १७-२४ || मुक्तकेशीं मदाघूर्णां प्रसन्नमुखपङ्कजाम् | सूर्यकोटिसमाभासां मुण्डमालाविभूषिताम् || १७-२५ || खद्गमुण्डधरां वामे सव्ये खर्परतर्जनीम् | संबिभ्रतीं महाकालीं बलाकारूपधारिणीम् || १७-२६ || श्मशाननिलयां देवीं भूतप्रेतसमन्विताम् | शिवाभिर्घोररूपाभिर्वेष्टितां घोरनादिनीम् || १७-२७ || प्. १२३) मा भैर्वीरवरं ब्रूहि हृद्गतं ते करोम्यहम् | एवं ध्यात्वा जपेल्लक्षं मंत्रः सिद्धो भवेद्ध्रुवम् || १७-२८ || दशांशं बिल्वपत्रैश्च घृताक्तैर्जुहुयात्सुधीः | तर्पणं तद्दशांशेन तद्दशांशेन मार्जयेत् || १७-२९ || तद्दशांशं ब्राह्मणानां भोजनं परिकीर्त्तितम् | विप्राराधनमात्रेण सर्वांगपूर्णतामियात् || १७-३० || पद्यदङ्गं विहीनं च तत्साङ्गं द्विजभोजनम् | अन्यत्सर्वं महेशानि कालिकावत्समाचरेत् || १७-३१ || इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् || १७-३२ || मात्रानित्याविधानं तु कथयस्व ममाधुना | श्रीशिव उवाच | मात्रानित्या तु या प्रोक्ता सर्वनित्योत्तमोत्तमा || १७-३३ || तस्या मंत्रं महेशानि यथावदवधारय | प्रणवं कालिकाबीजं मायाकूर्चं च मातृकाम् || १७-३४ || सबिंदुमातृकावर्णं चतुर्बीजानि वै पुनः | पुनश्च मातृकावर्णं चतुर्बीजं पुनश्च तत् || १७-३५ || एवं क्षांता महेशानि महामात्रा प्रकीर्त्तिता | चतुर्बीजं महामात्रे सिद्धिं मे देहि सत्वरम् || १७-३६ || हू/ फट् स्वाहेति देवेशि मात्रामंत्रः परो मतः | प्रणवं कालिकाबीजं कूर्चमाये ततः शिवे || १७-३७ || मध्ये नित्या नाम दद्यात् संबुध्यन्तं च केवलम् | नित्यामंत्राश्च जायंते भिन्नरूपाश्च पार्वति || १७-३८ || पुनर्बीजानि हूं फट् च स्वाहांताः परिकीर्त्तिताः | आद्ययोगात्संपुटाद्वा हुं फडंतप्रयोगतः || १७-३९ || प्. १२४) एवं नवति नित्यानां मंत्रभेदा भवन्ति च | भैरवोऽस्य ऋषिः प्रोक्तो उष्णिक् छंदः प्रकीर्त्तितम् || १७-४० || मात्रादेवीति विख्याता देवता परिकीर्त्तिता | क्रीं बीजं हूं तथा शक्तिः ह्रीं कीलकमुदाहृतम् || १७-४१ || विनियोगो महेष्टार्थे कालिकार्थे प्रकीर्त्तितः | मायाषड्दीर्घयुक्तेन षडङ्गन्यासमाचरेत् || १७-४२ || तथा ध्यायेन्महाविद्यां नीलाञ्जनगिरिप्रभाम् | चतुर्भुजां त्रिनयनां मुण्डपद्मोपरिस्थिताम् || १७-४३ || कपालकर्तृकाहस्तां खड्गमुण्डधरां पराम् | सुदन्तुरां महारौद्रीं चण्डनादातिभीषणाम् || १७-४४ || शववक्षःसमारूढां लेलिहानां शवं शिवाम् | एवंविधां तां मात्राम्बां महाघोरनिनादिनीम् || १७-४५ || इति संचिन्त्य देवेशि लक्षमात्रं जपं चरेत् | दशांशं जुहुयाद्बिल्वैरथवा कदलीफलैः || १७-४६ || द्राक्षाभिः पायसैर्वापि दशांशं हवनं चरेत् | तर्पणं मार्जनं विप्रभोज्यं यत्नेन कारयेत् || १७-४७ || यद्यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः | जपपूजाप्रयोगादि कालीवल्लिपिमातृवत् || १७-४८ || इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् || १७-४९ || श्रीशिव उवाच | रहस्यमपि ते देवि कथ्यते शृणु सांप्रतम् | मुद्रानित्याविधानं च सर्वसारोत्तमोत्तमम् || १७-५० || मुद्रणी नामका नित्या श्रीविद्यायां तु मुद्रिणी | मुद्रिणी दण्डिनी नाम्नी देवी सौंदर्यविग्रहा || १७-५१ || महाविद्यादिकादीनां मनोमुद्रणकारिणी | तेनेयं मुद्रानित्याख्या सर्वसिद्धिपराम्बिका || १७-५२ || प्रणवं कालिकाबीजं माया कूर्चं क्रमेण च | प्री/ फ्रे/ बीजयुगं प्रोच्य मुद्राम्बापदमुद्धरेत् || १७-५३ || प्. १२५) मुद्रासिद्धिं मे देहि भोजगन्मुद्रास्वरूपिणी | हूं फट् स्वाहासमायुक्तो वीतिवर्णो मनुः शुभः || १७-५४ || महादेवो ऋषिश्चास्य गायत्री छंद ईरितम् | मुद्रानित्या महादेवी देवता परिकीर्त्तिता || १७-५५ || कालीबीजं बीजमस्या माया शक्तिः प्रकीर्तिता | कूर्चं कीलकमित्युक्तं काल्या षड्दीर्घयुक्तया || १७-५६ || षडङ्गन्यासमाचर्य मुद्रां ध्यायेन्महेश्वरि | अञ्जनाद्रिनिभां मुद्रां मुण्डमालाविभूषिताम् || १७-५७ || दिगम्बरां घोरदंष्ट्रां चंडनादातिभीषणाम् | दक्षिणां मुक्तकेशालीं दिगम्बरविनोदिनीम् || १७-५८ || पिङ्गाक्षीं प्रज्वलज्जिह्वां घोरचेष्टाभयानकाम् | शवानां करसंघातैः कृतकांचीं हसन्मुखीम् || १७-५९ || सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् | कपालकर्तृका हस्तां खड्गखेटकधारिणीम् || १७-६० || महाकालेन च समं रतासक्तां क्षुधातुराम् | वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीति वादिनीम् || १७-६१ || एवं संचिन्त्य देवेशि पूजयेद्यंत्रमादरात् | त्रिकोणं वृत्तषट्कोणं वृत्ताष्टदलभूपुरम् || १७-६२ || चतुर्द्वारोपशोभाढ्यं तद्द्वारि गणपस्तथा | योगिनीक्षेत्रपालाश्च बटुको हि चतुर्थकः || १७-६३ || लोकपालास्त्रलोकेशा भूपुरे क्रमशो यजेत् | दलेष्टमातृकां पूज्य केसरे भैरवाष्टकम् || १७-६४ || दलाष्टाग्रे त्वष्टसिद्धिः षट्कोणेषु षडङ्गकम् | राज्यदा भोगदा मोक्षजयदाऽभयदा तथा || १७-६५ || षष्ठी तु सिद्धिदा प्रोक्ता षट्कोणेषु क्रमाद्यजेत् | इच्छां ज्ञानं क्रियां चैव त्रिकोणे परिपूजयेत् || १७-६६ || मध्ये मुद्रां च संपूज्य सर्वपञ्चोपचारकैः | इति पूजां समासाद्य ततो नीराजनं चरेत् || १७-६७ || प्. १२६) नीराजनान्ते देवेशि प्राणायामपुरःसरम् | लक्षद्वयं जपेन्मंत्रं सुश्वेतैः करवीरजैः || १७-६८ || दशांशं हवनं कृत्वा तद्दशांशेन तर्पणम् | मार्जनं ब्राह्मणानां च भोजनं समुपाचरेत् || १७-६९ || एवं सिद्धमनुर्मन्त्री प्रयोगार्हो न चान्यथा | यद्यद्धृदि समाधत्ते तत्तत्कृत्यं करोति हि || १७-७० || सर्वं तु कालिवत्प्रोक्तं विशेषः कथितो मया | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १७-७१ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मुद्रानित्याविधिर्नाम सप्तदशः पटलः || १७ || अष्टादशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि मितानित्याविधिक्रमम् | सर्वविद्यावरारोहां मितां मे ब्रूहि सादरम् || १८-१ || श्रीशिव उवाच | शृणु वक्ष्यामि देवेशि रहस्यातिरहस्यकम् | सर्वविद्यामहाराज्ञी मितानाम्नी महोदया || १८-२ || तस्या मंत्रं प्रवक्ष्यामि कालीसर्वाङ्गमद्भुतम् | प्रणवं पूर्वमुद्धृत्य कालिकाबीजमुद्धरेत् || १८-३ || कूर्चबीजं तथा मायां वाग्भवं बीजमुद्धरेत् | मितेपदं समुच्चार्य तथा परिमिते पदम् || १८-४ || पराक्रमाअय च पदं पुनर्बीजानि चोद्धरेत् | सोहं हूं फट् ततः स्वाहा सप्तविंशतिवर्णवान् || १८-५ || मंत्रोऽयं कथितो देवि ऋषिछंदादिकं शृणु | महाकाल ऋषिश्चास्य त्रिष्टुप् छंदः प्रकीर्त्तितम् || १८-६ || मितानित्या देवता च कालिका बीजमीरितम् | कूर्चं शक्तिर्महेशानि माया कीलकमीरितम् || १८-७ || कीलकेन षडङ्गानि षड्दीर्घाढ्येन कारयेत् | ध्यायेन्नीलाद्रिसङ्काशां नीलजीमुतसन्निभाम् || १८-८ || रक्तवस्त्रां शवासीनां मुण्डमालाविभूषिताम् | पीनोन्नतकुचद्वंद्वां पीनवक्षो नितम्बिनीम् || १८-९ || दक्षिणां मुक्तकेशालीं दिगम्बरविनोदिनीम् | महादेवहृदम्भोजमध्यस्थां शंखकङ्कणाम् || १८-१० || कोटिकालानलप्रख्यां श्मशानालयवासिनीम् | खड्गमुण्डधरां वामे सव्येऽभयवरप्रदाम् || १८-११ || साधकाकांक्षहृदयां साधकस्य वरप्रदाम् | मुखसान्द्रस्थितामोदमोदिनीं मदविह्वलाम् || १८-१२ || आरक्तमुखसान्द्राभिर्नेत्रादिभिर्विराजिताम् | दक्षिणां सस्मितां दिव्यां दीननाथां विभावयेत् || १८-१३ || प्. १२८) एवं ध्यात्वा मितां देवीं लक्षत्र्यं जपं चरेत् | किंशुकैर्हवनं कार्यं ज्योतिष्ंअत्याथवा प्रिये || १८-१४ || ज्योतिष्मतीप्रसूनेन फलं किंशुकवन्मतम् | आरक्तकरवीरेण जुहुयान्मंत्रसिद्धये || १८-१५ || त्रिकोणकुण्डे जुह्यात्संस्कृते खादिरानले | ताम्बूलपत्रहोमेन कालिकां वशमानयेत् || १८-१६ || पुष्पाक्तनागवल्या च नागिनीसिद्धिमाप्नुयात् | वज्रपुष्पेण जुहुयात् डाकिन्या वा महेश्वरि || १८-१७ || धत्तूरेणारिनिधनं कुन्दैश्च कवितां लभेत् | जातीपुष्पैर्जयावाप्तिस्तिलपुष्पैर्बलोन्नतिः || १८-१८ || पुन्नागैः पुरुषार्थाय केतक्या कामिनीं लभेत् | आसुर्या रिपुनाशश्च चन्दनेन जयी सदा || १८-१९ || तथैवाऽगुरुणा देवि राजराजपदं लभेत् | रक्तचन्दनहोमेन सर्वमोहनमाचरेत् || १८-२० || गिरिकर्ण्या कन्यकाप्तिः सेवंत्या शिवरूपता | गुडूच्या रिपुनाशश्च मरीचेनाकृष्टिरुत्तमा || १८-२१ || पूगीफलैर्महाभाग्यं तथा जातिफलैर्धनम् | स्तंभनं चम्पकेनैव जंव्वा जन्मार्तिनाशनम् || १८-२२ || एवं नाना विधानेन काममुद्दिश्य साधयेत् | ततो होमदशांशेन तर्पणं पीठनीरतः || १८-२३ || अष्टगन्धोदकेनापि तथा केसरनीरतः | तर्पणस्य दशांशेन मार्जनं समुपाचरेत् || १८-२४ || तद्दशांशं विप्रभोज्यं शक्तयश्च कुमारिकाः | पूजयेद्भोजयेद्देवि सर्वसिद्धिं स विंदति || १८-२५ || अथ पूजाविधानस्य यंत्रं संकथ्यते शृणु | त्रिकोणत्रितयं लिख्य वृत्तं षट्कोणसंयुतम् || १८-२६ || वृत्ताष्टदलशोभाढ्यं भूपुरेण समन्वितम् | चतुर्द्वारोपशोभाढ्यं मध्ये बिन्दुविभूषितम् || १८-२७ || प्. १२९) कालीं करालिनीं घोरां प्रथमे तु त्रिकोणके | द्वितीये तु त्रिकोणे च वामां ज्येष्ठां च रौद्रिकाम् || १८-२८ || तृतीये तु त्रिकोणे तु इच्छां ज्ञानं क्रियां तथा | अथ वृत्ते यजेद्देवि वार्तालीं प्रथमं यजेत् || १८-२९ || द्वितीयभागे देवेशि लघुवाराहिकां यजेत् | तृतीयभागे देवेशि स्वप्नवाराहिकां यजेत् || १८-३० || तिरस्करणिकां पूज्य चतुर्थभागके शिवे | षट्कोणवामे देवेशि चतुर्द्वारं प्रपूजयेत् || १८-३१ || षट्कोणे तु षडंगानि वृत्ते सिद्ध्यष्टकं तथा | दलेऽष्टौ मातृकाः पूज्यास्तदन्तेऽष्टौ च भैरवाः || १८-३२ || भूपुरे लोकपालाश्च तदस्त्राणि च तद्बहिः | एवमिष्ट्वा मितां नित्यां विद्यामित्रां निरञ्जनीम् || १८-३३ || एवमाराधनायुक्तो मंत्रसिद्धिं लभेन्नरः | अथवाऽन्यप्रकारेण ध्यानं नित्याक्रमे शृणु || १८-३४ || अञ्जनाद्रिनिभाः सर्वा मुण्डमालाविभूषणाः | दक्षहस्ते देवी खड्गं वामहस्ते च तर्जनीम् || १८-३५ || धारयन्त्यः शुभाः काल्या वरराभयतत्कराः | एतत्सामान्यतो ध्यानं नाममंत्रविधौ स्मृतम् || १८-३६ || रहस्यमत्र कथितं सिद्धयोऽष्टविधाः करे | अञ्जनं गुटिका खड्गं वेतालं यक्षिणीगणम् || १८-३७ || चरुकं तिलकं वासः कपालं पादुकां तथा | लगुडः किन्नरीसिद्धिर्डामर्यादि महाकला || १८-३८ || चराचरगतिश्चैव त्वणुत्वं लघिमादिकम् | परकायप्रवेशश्च ततश्चैव रसायनम् || १८-३९ || स्पर्शश्चिन्तापहारश्च भूतसञ्चरणं तथा | मृतकोत्थापनं दिव्याः सिद्धयस्तत्करे स्थिताः || १८-४० || महापीठं समुद्धृत्य नित्या स्थाप्या यथाक्रमम् | अथवा मूलमंत्रेण यजेन्मध्ये स्वदेवताम् || १८-४१ || प्. १३०) यथोक्तमंत्रसिध्यर्थं ध्यायेच्च कुलवस्तुभिः | यजेत्संतर्पयेच्छक्तिं भोजनाच्छादनादिभिः || १८-४२ || धूपयेद्दशगंधेन देवताऽवतरेत्तदा | रक्ताक्षी स्तब्धनेत्राङ्गी प्रसन्नमुखपंकजा || १८-४३ || काचिदेका भवेच्छक्तिरितरास्तन्मुखस्थिताः | तस्मिन्क्षणे तत्प्रकृतिं कृत्वा माषमयीं शुभाम् || १८-४४ || घृतपक्वा मांसमया उपभोगाः प्रकल्पयेत् | ग्रासे ग्रासे सुरां दद्यान्मत्स्यशाकलकानि च || १८-४५ || आद्यं बीजं समुच्चार्य नित्ये क्रूरमुखे तथा | क्रूरदंष्ट्रे ललज्जिह्वेऽमुकस्तेऽयं प्रकल्पितः || १८-४६ || आहारो भक्षययुगं स्वाहान्तं ठद्वयं पुनः | आद्यबीजं समुच्चार्य मृतं ध्यायेद्रिपुं तदा || १८-४७ || तत्कालमेव हरते मिता प्राणान्सुरेश्वरि | श्रूयतेऽसौ मृत इति तावत्सम्भोजयेन्मिताम् || १८-४८ || पश्चात्पञ्चाङ्गधूपेन धूपयेत्तां वरप्रदाम् | हासं कृत्वा वरं दत्वा व्रजेत्सा शक्तिदेहतः || १८-४९ || श्मशाने वाऽथ सम्पूज्या वडवाग्निसमप्रभा | ससैन्यराज्ञो नाशाय नृमांसैः कुलवस्तुभिः || १८-५० || उद्यानेषु वशीकर्तुं उच्चाटे तु नदीतटे | नातः परतरा विद्या सद्यः प्रत्ययकारिणी || १८-५१ || विख्याता उत्तराम्नाये शतधा पूजिता मया | गोप्याद्गोप्यतराप्येषा मया तुभ्यं प्रकाशिता || १८-५२ || अतः परं महादेवि किमन्यच्छ्रोतुमिच्छसि | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि यश्च धूपस्त्वयोदितः || १८-५३ || दशगन्धप्रियस्तस्य कानि द्रव्याणि तत्र तु | श्रीशिव उवाच | काश्मीरस्य त्रयो भागास्त्रयो दद्यात्तथाऽगुरोः || १८-५४ || प्. १३१) भागाः पंचैव चन्द्रस्य मृगनाभेर्द्वयं तथा | कृष्णचन्दनकाद्यष्टौ श्वेतचन्दनकाश्व षट् || १८-५५ || महिषाक्षस्य सप्तैव सर्जका द्वादशैव हि | मांस्या भागाष्टकं कृत्वाऽज्याद्भागैकं समाहरेत् || १८-५६ || दशगन्धस्तु धूपोऽयं पञ्चाङ्गं शृण्वथ प्रिये | मूलं कृष्णागुरोर्भागं पत्रकं च त्वचस्तथा | स्वर्णपुष्पं जातिपत्री समभागेन धूपयेत् || १८-५७ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मितानित्याविधिर्नामाष्टादशः पटलः || १८ || एकोनविंशतितमः पटलः | श्रीदेव्युवाच | देवेश त्वत्प्रसादेन मितायाः संश्रुतो विधिः | तिरस्करणिकां ब्रूहि महामोहनकारिणीम् || १९-१ || श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि महामोहनकारिणीम् | श्रीविद्यायाश्च बालाया अङ्गभूतां सुगोपिताम् || १९-२ || वाग्भवं कालिकाबीजं भुवनेशीं हरिप्रियाम् | तिरस्करणिशब्दान्ते ततः सकलजनं वदेत् || १९-३ || वाग्वादिनि सकलपदं पशुजनमनो वदेत् | चक्षुः श्रोत्रं तथा जिह्वां घ्राणं तिरस्करणं वदेत् || १९-४ || कुरुद्वयं ठद्वयं च स्वाहान्तोऽयं मनुः स्मृतः | वाग्भवं भुवनां लक्ष्मीं क्लीं भगवतो वदेत् || १९-५ || स्वाहया तु संयुक्तो द्वितीयोऽयं परो मनुः | माहेश्वरी सर्वपशुजनचक्षुस्तिरस्कर || १९-६ || णं कुरुयुक् स्वाहया तु संयुक्तोऽयं परो मनुः | त्रैलोक्यमोहिनिपदं महामायेपदं ततः || १९-७ || सर्वजनमनश्चक्षुस्ततस्तिरस्कृतिं वदेत् | कुरुयुक् स्वाहया युक्तश्चतुर्थोऽयं क्रमान्मनु || १९-८ || वाङ्माया कमलाबीजं ह्सौयुगक्षरमुद्धरेत् | ओं नमो भगतिपदं श्रीमहेशरि चोद्धरेत् || १९-९ || ततः सर्वजनमनश्चक्षुःपदमुदीरयेत् | तिरस्करणशब्दान्ते कुरुयुक् स्वाहयान्वितः || १९-१० || पञ्चमंत्राः क्रमेणोक्ताः मकारपञ्चरक्षकाः | मकारपञ्चरक्षार्थं मंत्रपञ्चकमुच्चरेत् || १९-११ || ह्रीं क्ली/ नमो भगवति माहेश्वरिपदं वदेत् | ततः सर्वजनपदं मनश्चक्षुःपदं वदेत् || १९-१२ || तिरस्करणमुच्चार्य कुरुयुक् स्वाहयान्वितः | समस्तरक्षणाद्यर्थे षष्ठो योगः प्रकीर्त्तितः || १९-१३ || प्. १३३) मंत्रस्यास्य ऋषिः शक्तिर्गायत्री छन्द ईरितम् | सर्वपशुजनमनश्चक्षुरादि तिरस्कृतः || १९-१४ || देवता गदिता देवि क्लीं बीजं परिकीर्त्तितम् | ह्रीं शक्तिः क्री/ कीलकं स्याद्विनियोगस्तिरस्कृतौ || १९-१५ || वाङ्मायाकमलाकामैरंगुष्ठाभ्यां नमो वदेत् | बीजं भगवति तत्र तर्जन्यां विन्यसेत्सुधीः || १९-१६ || माहेश्वरी मध्यमाभ्यां सर्वा तिरस्करणी ततः | अनामिकां गदिताभ्यां कनिष्ठाभ्यां कुरुद्वयम् || १९-१७ || बीजानि तु पुनः स्वाहा करपृष्ठयुगे न्यसेत् | एवं हि हृदये न्यस्य वर्णन्यासं समाचरेत् || १९-१८ || दक्षबाहौ दक्षपृष्ठे दक्षोरौ दक्षजानुनि | दक्षपादे दक्षमस्तेऽप्येवं वामेऽपि विन्यसेत् || १९-१९ || बाहुमूलं पृष्ठजानुमस्तके न्यस्य वै मनुम् | सम्पूर्णविद्यया देवि व्यापकन्यासमाचरेत् || १९-२० || ततो ध्यायेन्महाविद्यां तिरस्करणरूपिणीम् | मुक्तकेशीं विवसनां सर्वालङ्कारलङ्कृताम् || १९-२१ || स्व * * दर्शनान्मुग्धपशुवर्गां नमामि ताम् | निग्रहार्थं महाध्यानं यथावदवधारय || १९-२२ || श्यामवर्णां मदाघूर्णरक्तनेत्रत्रयां शिवाम् | कृष्णाम्बरां तथा खड्गं दधतीं च भुजद्वये || १९-२३ || दोर्भ्यां मनोहराभ्यां तु खर्जूरीकुम्भधारिणीम् | नीलाश्वस्थां पुरोयान्तीं नीलाभरणभूषिताम् || १९-२४ || नीलमाल्यादिवसनां नीलगन्धां मनोहराम् | निद्रामिषेण भुवनं तिरोभावं प्रकुर्वतीम् || १९-२५ || खद्गायुधां भगवतीं भक्तपालनतत्पराम् | पशुनिर्मूलनोद्युक्तां पशुतर्जनमुद्रिकाम् || १९-२६ || तिरस्करणिकां प्रोक्तां भूर्जपत्रे लिखेन्मनुम् | कुम्भाग्रे स्थापयेद्देवि लिखितं कुङ्कुमादिना || १९-२७ || जपेल्लक्षं महामन्त्रं संस्थानैकतमे शिवे | दशांशं हवनं कार्यं बिल्वैर्मधुघृतप्लुतैः || १९-२८ || तद्दशांशं तर्पणं च तद्दशांशं च मार्जनम् | ब्राह्मणानां भोजनं च दशांशेन समाचरेत् || १९-२९ || एवं सिद्धमनुर्मन्त्री तरस्करणमाचरेत् | सर्वसाध्यकरी विद्या पशूनामान्ध्यकारिणी || १९-३० || स्वप्नवाराहिवद्देवि पुरश्चर्याविशेषकौ | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || १९-३१ || श्रीदेव्युवाच | देवेश श्रौतुमिच्छामि कौतुकानि महान्त्यपि | तन्मे वद दयापार यद्यहं तव वल्लभा || १९-३२ || श्रीशिव उवाच | रहस्यादतिगोप्यं च कथ्यते शृणु साम्प्रतम् | स्वप्नवाराहिका विद्या त्रिधाऽत्र परिकीर्त्तिता || १९-३३ || आदौ पंचदशी विद्या ततोऽष्टादशवर्णगा | चतुर्विंशतितत्त्वाढ्या महती परिकीर्त्तिता || १९-३४ || सर्वश्रेष्ठकौतुकाढ्या तन्मध्येऽष्टादशाक्षरी | तस्या मंत्रविधानं च कथ्यते शृणु साम्प्रतम् || १९-३५ || वाग्भवं भुवनाहृद्वै वाराही तु ततो वदेत् | अघोरेति समुद्धृत्य स्वप्ने च ठचतुष्टयम् || १९-३६ || वह्निजायांतिको मंत्रो भविष्यादिप्रदर्शकः | अष्टादशाक्षरः प्रोक्तो ऋषिरीश्वर ईरितः || १९-३७ || अनुष्टुप् छन्द इत्युक्तं स्वप्नेशी देवता मता | ऐं बीजं ह्रीं तथा शक्तिः ठठ स्वाहांतषट्ककम् || १९-३८ || हृदये ऐं तथा माया नमो वाराहि वै शिरः | अघोरे चेति च शिखां स्वप्ने वै कवचं भवेत् || १९-३९ || ठचतुष्कं भवेन्नेत्रै स्वाहेत्यस्त्रं भवेत्प्रिये | कटिकण्ठगण्डकर्णनेत्रमूर्धसु विन्यसेत् || १९-४० || प्. १३५) नीलाञ्जनगिरिश्यामां मणिरत्नविभूषिताम् | अश्वारूढां चक्रहस्तामपरे च हलायुधाम् || १९-४१ || अधस्थयोः कर्तरीं च कपालं रक्तपूरितम् | पादाधःस्थहिरण्याक्षं रतमाणां मदोद्धताम् || १९-४२ || नानाशक्तिसमाकीर्णां नानागणविराजिताम् | एवं ध्यात्वा विष्णुशक्तिं ततः पूजनमारभेत् || १९-४३ || आराधयेद्बिन्दुमध्ये देवीं त्र्यस्रं ततो लिखेत् | तत्र निद्रां सुप्रसन्नां डिम्भाङ्गीं च प्रपूजयेत् || १९-४४ || ततः षट्कोणमध्ये तु महोग्रां प्रेतयक्षिकाम् | श्वासकालां भीमवतीं नखज्वालां महोदरीम् || १९-४५ || ततोऽष्टदलमध्ये तु गिरीशं चतुराननम् | फट्कारं बद्धमातंङ्गं कुलीरं वायरां बलिम् || १९-४६ || चण्डीश्वरं च संपूज्य ततो द्वादशवर्णके | मातङ्गीं वृद्धमातङ्गीमसितांगीं कफोत्कटाम् || १९-४७ || महोद्धतां प्रेतवाहां ज्ञानशक्तिं क्रियावतीम् | वगलिकां भानुमतीं सोमदेवीं चिरन्तनीम् || १९-४८ || ततः पूज्य षोडशारे संहारेणैव पूर्वतः | एन्द्रीं सौरीं महेशानीं तारा यक्षप्रसूं धराम् || १९-४९ || वामां विरोधिनीं श्यामां मातङ्गीं सुरराक्षसीम् | पद्मावतीं कालरात्रिं तामसीं मदनां मदाम् || १९-५० || पीतगन्धाक्षतैः पूज्या तथैव कुलवस्तुभिः | संयुक्तः शक्तिभिः सार्धलक्षमेकं जपेन्मनुम् || १९-५१ || हयमारस्य कुसुमैर्हयारिपललैस्तथा | दशांशं जुहूयान्मन्त्री त्र्यस्रे वा योनिकुण्डके || १९-५२ || तर्पणं मार्जनं कुर्याद्योगिनीनां समर्चनम् | एवं सिद्धमनुर्मन्त्री प्रयोगान्साधयेच्छुभान् || १९-५३ || मध्वाज्यसुरसाभिश्च होमो दर्शयते हरिम् | अष्टोत्तरसहस्रेण साधकस्येप्सितं वदेत् || १९-५४ || प्. १३६) कदम्बपुष्पैर्होमस्तु निधानं निशि दर्शयेत् | नीलोत्पलकृतो होमः स्त्रियमाकर्षयेद्धठात् || १९-५५ || जवापुष्पैः कालखण्डैर्होमो भूपं वशं नयेत् | मार्जारान्त्रैः कृतो होमस्त्रासयेत् साधकार्थिनम् || १९-५६ || पुत्राजीवकबीजैश्च होमः पुत्रकरो भवेत् | यस्य प्रतिकृतिं कृत्त्वा माषपिष्टमयीं शुभाम् || १९-५७ || जुहुयात्तस्य भवति सद्यो मृत्युर्न संशयः | सहस्रत्रितयं जप्त्वा स्वप्ने वक्ति शुभाशुभम् || १९-५८ || जाङ्गलैः पललैर्होमः किं तत्कार्यं न साधयेत् | तारे नमो भगवति वाराहि द्वितयं ठठः || १९-५९ || पञ्चदशाक्षरो मंत्रः सद्यः प्रत्ययकारकः | अक्षोभ्यो भैरवः प्रोक्तः छन्दस्तु शक्वरि मतम् || १९-६० || देवता स्वप्नवाराही षडंगानि पदैः क्रमात् | प्राग्वत् पूजादिकं देवि प्रयोगश्चापि पूर्ववत् || १९-६१ || बीजान्ते भुवनेश्वर्या अंकुशं बीजमुद्धरेत् | वार्तालीति पदद्वन्द्वं वाराहीद्वितयं तथा || १९-६२ || स्वप्नश्वरि युगं तस्मादैन्दवीं बिंदुभूषिताम् | वायुं बिन्दुयुतं पश्चाच्चतुर्विंशाक्षरो मनुः || १९-६३ || जनार्दनो ऋषिश्चास्य छन्दः संस्कृतिरीरितम् | देवतां स्वप्नवाराहीं रक्तव्याघूर्णलोचनाम् || १९-६४ || स्मरोद्भिन्नां त्रिनयनां खण्डेन्दुकृतशेखराम् | दंष्ट्राकरालवदनां शिरोमालाविभूषिताम् || १९-६५ || यजेत्पूर्वोदिते पीठे सर्वकालफलप्रदाम् | अत्रैव कृष्णमातङ्गिकौतकं शृणु पार्वति || १९-६६ || प्रणवं पूर्वमुद्धृत्य नमो भगवतीति वै | कृष्णमातंगिनि शिरोवल्कलधारिणी चोद्धरेत् || १९-६७ || सर्वजनमहंकरि माया षट् दीर्घयुक् ततः | अमुकं पदमुद्धृत्य मे वश्याकृष्टिमुच्चरेत् || १९-६८ || प्. १३७) कुरु स्वाहान्वितो मंत्रः सर्वेषां सुरपादपः | ऋषिः कृष्ण इति ख्यातः सर्वदेवोत्तमोत्तमः || १९-६९ || विराट्च्छन्द इति ख्यातं मायया तु षडङ्गकम् | ओं बीजं भुवना शक्तिः स्वाहा कीलकमीरितम् | त्रैलोक्यवश्यार्थमथ विनियोगः प्रकीर्त्तितः || १९-७० || वीणावादनकोविदाम्बुदघटा लावण्यलीला वरा बिम्बोष्ठी वनजाक्षिमञ्चिततनू व्याकीर्णकेशस्रजा | लीलालोलसुवर्णकुण्डलधरा धर्मार्थकामोदया चण्डी चण्डपराक्रमा भवतु नः सर्वार्थसंसाधिका || १९-७१ || एवं ध्यात्वा जपेल्लक्षं ततः सिद्धो भवेन्मनुः | उच्छिष्टहस्तः प्रजपेत् उच्छिष्टेण बलिं चरेत् || १९-७२ || एवं प्रजपतस्तस्य सिद्धयो जनवश्यता | जायते देवदेवेशि किं पुनः श्रोतुमिच्छसि || १९-७३ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीइमदक्षोभ्यमहोग्रतारासंवादे तिरस्करणिकाविधिर्नामैकोनविंशः पटलः || १९ || विंशतितमः पटलः | श्रीशिव उवाच | कामं शक्रपदारूढं रतिबिन्दुसमन्वितम् | वाग्भवं बीजमुद्धृत्य पराप्रासादमुद्धरेत् || २०-१ || अनुलोमविलोमेन प्रोक्ता सम्पत्सरस्वती | षडक्षरी महाविद्या सर्वविद्योत्तमोत्तमा || २०-२ || दीनानां तु दरिद्राणां गताधिकारिणां तथा | सम्पत्सरस्वती विद्या महासम्पत्तिदायिनी || २०-३ || कृष्णो ऋषिर्महेशानि गायत्री च्छन्द ईरितम् | सम्पत्सरस्वती देवी देवता परिकीर्तिता || २०-४ || अ/ बीजं क्लीं तथा शक्तिः हसौः कीलकमीरितम् | सम्पत्यर्थे महेशानि विनियोगः प्रकीर्त्तितः || २०-५ || षडक्षरेण देवेशि षडङ्गन्यासमाचरेत् | व्यापकं नवधा कृत्वा ध्यायेद्देवीं मनोहराम् || २०-६ || अनेककोटिमातङ्गतुरङ्गरथपत्तिभिः | सेवितामरुणाकारां वन्दे सम्पत्सरस्वतीम् || २०-७ || इति ध्यात्वा महेशानि त्रिकोणं चक्रमालिखेत् | षट्कोणं च ततो लेख्यं वृत्ताष्टदलभूषितम् || २०-८ || भूपुरेण समायुक्तं यंत्रं सम्पन्मनोर्मतम् | सम्पत्सरस्वतीं देवीं त्रिकोणे परिपूजयेत् || २०-९ || दलेष्टमातृकाः पूज्या भैरवेण समन्विताः | चतुरस्रे लोकपालाः तदस्राणि च तद्बहिः || २०-१० || एवमावरणान्पूज्य जपेल्लक्षत्रयं शिवे | दशांशेन महेशानि पालाशकुसुमैर्हुनेत् || २०-११ || पुरश्चरणसम्पन्नो प्रयोगार्हो न चान्यथा | लक्षमेकं जपेन्मंत्रं दशांशं पायसैर्हुनेत् || २०-१२ || अश्वसाहस्रसंपन्नो राजा भवति भूतले | षट्सहस्रं जपेन्नित्यं दशांशं कमलैर्हुनेत् || २०-१३ || १३९) मातङ्गरथवृन्दाश्वधनधान्यसमन्वितः | तस्य संवत्सराल्लक्ष्मीरचला जायते ध्रुवम् || २०-१४ || सहस्रं जुहुयान्नित्यं अनले शालितण्डुलैः | मण्डलान्नात्र सन्देहो भूपतित्वमवाप्नुयात् || २०-१५ || बिल्वमूले जपेन्मन्त्री नित्यं दशसहस्रकम् | मासार्द्धात्सकलां लक्ष्मीं प्राप्नोति साधकः || २०-१६ || हुनेद्बिल्वसमिद्भिर्यो तन्मूलेऽष्टोत्तरं शतम् | तद्गृहे महदैश्वर्यं त्रिभिर्मासैर्भवेदपि || २०-१७ || दशवारं स्पृशेदन्नं जप्त्वा भुंक्ते नरो यदि | तद्गृहेऽन्नसमृद्धिः स्यादक्षयं नात्र संशयः || २०-१८ || नदीतीरे जपेन्मन्त्रमेकाग्रमनसा शुचिः | दशांशं गोघृतं हुत्वा वशीकुर्याज्जगत्त्रयम् || २०-१९ || घृतेन जुहुयान्नित्यं चतुःसहस्रमादरात् | अणिमादिगुणैश्वर्य मासादाप्नोति साधकः || २०-२० || इति संक्षेपतः प्रोक्तं शृणु मृत्युञ्जयं शिवे | प्रणवण् पूर्वमुद्धृत्य काष्ठं षष्ठस्वरान्वितम् || २०-२१ || बिन्दुयुक्तं महेशानि चन्द्रबिन्दुसमन्वितम् | क पंचविंशतिं पश्चाद्बिन्दुयुक्तं महेश्वरि || २०-२२ || नाद्यं दीर्घ समायुक्तं शक्रबीजं च मारुतम् | मारुतं दीर्घसंयुक्तं महीं वायुमथोच्चरेत् || २०-२३ || दशार्णोऽयं महाविद्या कालमृत्युविनाशिनी | वामदेवो ऋषिश्चास्य पंक्तिश्छन्दः प्रकीर्त्तितम् || २०-२४ || मृत्युञ्जयो महारुद्रो देवता परिकीर्त्तिता | प्रणवं बीजमित्युक्तं जूं शक्तिः परिकीर्त्तिता || २०-२५ || चन्द्रचन्द्रं चन्द्रवह्निः पुनर्वह्नि क्रमेण च | इति मंत्राक्षरैर्न्यासं कृत्वा ध्यायेत्परं शिवम् || २०-२६ || अच्छस्वच्छारविन्दस्थितिमुभयकराङ्कस्थितं पूर्णकुम्भम् द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ | द्वाभ्यां तावत्स्रवन्तौ शरसि शशिकलां बन्धुरां प्लावयन्तौ एवं देवं दधानः प्रविशति विशदां कल्पजालश्चिरं नः || २०-२७ || प्. १४०) एवं धात्वा बाह्यपीठे षट्कोणं विलिखेच्छिवे | दलाष्टकं लिखेत्तत्र वृत्तं तत्र लिखेत्ततः || २०-२८ || षट्कोणमध्ये देवेशि यजेन्मृत्युञ्जयं शिवम् | कोणषट्के च सत्यादि मन्त्रान् पञ्च सदाशिवम् || २०-२९ || ततो यजेल्लोकपालान्सायुधान्परमेश्वरि | लक्षं जपेत्पुरश्चर्या तिलैर्होमो दशांशतः || २०-३० || अनन्तरं जपेल्लक्षत्रितयं परमेश्वरि | कालमृत्युविनाशश्च भवत्येव न चान्यथा || २०-३१ || पर्वताग्रे जपेद्देवि लक्षद्वादशकं शिवे | कल्पायुः शतजीवी च भवत्येव न चान्यथा || २०-३२ || अयुतं होमयेद्देवि दूर्वया मृत्युनाशने | इति संक्षेपतः प्रोक्तं पथिषद्रुद्रकं शृणु || २०-३३ || प्रणवं नतिमुच्चार्य रुद्राय पदमुच्चरेत् | पथिषद्पदमुच्चार्य चतुर्थ्यन्तसमन्वितम् || २०-३४ || स्वस्तीत्युक्त्वा मां रक्ष च संपालय पदं ततः | पथिषद्रुद्रविद्येयं श्रुता पथि भयापहा || २०-३५ || वामदेवोऽस्य मंत्रस्य ऋषिरित्युच्यते बुधैः | पंक्तिश्छन्द इति प्राहुर्गायत्रमथवा शिवे || २०-३६ || देवता पथिषद्रुद्रो मार्गे सकलभीतिहा | प्रणवं बीजमित्युक्तं नमः शक्तिरितीरिता || २०-३७ || एकाक्षरेण द्वाभ्यां च त्रिभिश्च चतुरक्षरैः | त्रिभिश्चतुर्भिरित्युक्तो षडङ्गोऽयं मया शिवे || २०-३८ || शुद्धस्फटिकसंङ्काशं चतुर्बाहुसमन्वितम् | पिनाककार्मुकोपेतं बाणटङ्कसमन्वितम् || २०-३९ || त्रिभिर्मंत्रैः समोपेतं एणाङ्कचन्द्रशेखरम् | कैलासगिरिसङ्काशं वृषभारूढमीश्वरम् || २०-४० || अन्नपूर्णेश्वरी युक्तं पथिषद्रुद्रनामकम् | पथि चोरादि भीतिघ्नं ध्यायेद्देवं सदाशिवम् || २०-४१ || प्. १४१) ध्यानमेतन्मया प्रोक्तं यंत्रं वच्मि ततः परम् | षट्कोणं विलिखेदादौ दलान्यष्टा ततो लिखेत् || २०-४२ || भूगृहं विलिखेत्पश्चाद्द्वारोपेतं सुलक्षणम् | षडस्रमध्यमे देवं पथिषद्रुद्रमर्चयेत् || २०-४३ || षट्कोणेषु षडङ्गानि तत्र मन्त्रैः समर्चयेत् | नन्दीकेशश्च नन्दी च भृङ्गी च भृङ्गिरीटि वै || २०-४४ || मृडश्च वीरभद्रश्च कुमारो गणपस्तथा | अष्टपत्रे यजेदेताः प्रार्थयेन्मम वल्लभे || २०-४५ || दिक्ष्वष्टसु महीगेहे दिक्पालानष्ट पूजयेत् | एवमावरणैर्युक्तं पथिषद्रुद्रमीश्वरम् || २०-४६ || पूजयित्वा जपेन्मंत्रं चतुर्लक्षमतन्द्रितः | दशांशं तु तिलैर्हुत्वा मन्त्रः सिद्धो भविष्यति || २०-४७ || सिद्धेनानेन मंत्रेण प्रयोगं कारयेद्बुधः | पथि चोरभये प्राप्ते जपेदष्टोत्तरं शतम् || २०-४८ || ततश्चौरैरदृश्यः स्यात् पुमानयमसंशयः | पिपासासंयुते मार्गे विजने साधकोत्तमः || २०-४९ || जपेदमुं महामंत्रं वसुपूर्वशतत्रयम् | तत्रैव लभते सद्यो जलं पीयूषसन्निभम् || २०-५० || अन्नेन रहितो मार्गे क्षुधासंपीडितो नरः | जपेदमुं महामंत्रमष्टोत्तरसहस्रकम् || २०-५१ || मिष्टान्नं लभते सद्यो ब्राह्मणानां शतस्य च | रहस्यातिरहस्यं च रहस्यातिरहस्यकम् || २०-५२ || गोपनीयं कौतुकं हि स्वयोनिरिव पार्वति | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || २०-५३ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे पथिषद्रुद्रविधिर्नाम विंशतितमः पटलः || २० || एकविंशतितमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि कौतुकं शत्रुनिग्रहम् | श्रीशिव उवाच | रहस्यातिरहस्यं च कौतुकं कथ्यते शृणु || २१-१ || आर्द्रपटेश्वरी विद्या कथ्यते शत्रुनिग्रहे | प्रणवं पूर्वमुद्धृत्य नमो भगवतीति च || २१-२ || आर्द्रपटेश्वरि प्रोच्य हरिनीलपदं वदेत् | कालिपदं ततोच्चार्यं आर्द्रजिह्वे पदं वदेत् || २१-३ || चण्डलोहिनि चोद्धृत्य रुद्राण्यथ कपालिनि | ज्वालामुखि सप्तजिह्वे सहस्रनयने वदेत् || २१-४ || एहियुक् चामुकं ते च पशुं ददामि वै वदेत् | अमुष्यजीवमुद्धृत्य निकृन्तपदमुद्धरेत् || २१-५ || अथाहितजीवपदमपहारिणि हूं वदेत् | फट् भूर्भुवः स्वः पदं च फट् स्वाहा रुधिरं पिब || २१-६ || मारवादिनि चोद्धृत्य मम शत्रुंपदं वदेत् | छेदयद्वितयं प्रोच्य पिबद्वन्द्वं समुद्धरेत् || २१-७ || शोणितं च पदं हूं फट् स्वाहान्तो मनुराडयम् | व्यञ्जनत्रितयाक्रान्तं शतं विंशत्त्रयाधिकम् || २१-८ || दुर्वासा ऋषिराख्यातो गायत्री छन्द ईरितम् | निकृन्त इति बीजं स्यात्स्वाहा शक्तिः समीरिता || २१-९ || शत्रुनिग्रहकार्यार्थे विनियोगः प्रकीर्त्तितः | ह्रीं षट्कैस्तु षडङ्गानि ततो ध्यायेत्पराम्बिकाम् || २१-१० || शितोग्रतर दंष्ट्रिका त्रिनयनोर्द्ध्वकेशोल्वणा (?) कपालफलसोत्थ सड्डमरुकर्त्रिशूलाङ्किता | घनाघननिभारुणारुणितकिङ्किणीमालिका भवेद्भवसुसिद्धये मम तु भद्रकाली चिरम् || २१-११ || प्. १४३) अयुतं प्रजपेन्मन्त्रं मरुभूमौ श्मशानके | स्नानं कृत्वा चार्द्रवासः शत्रुमुद्दिश्य योजयेत् || २१-१२ || क्षणार्धाच्छत्रुमरणं भवत्येव जपे कृते | केवलं जपमात्रेण मासान्ते शत्रुमारणम् || २१-१३ || कृष्णाष्टमी समारभ्य यावत्कृष्णचतुर्दशी | शत्रुनामसमायुक्तस्तावत्कालं जपेन्मनुम् || २१-१४ || यमालये व्रजेच्छत्रुर्मुकुन्दसदृशोऽपि चेत् | आरम्भदिवसाद्देवि ब्रह्मरुद्रादयः सुराः || २१-१५ || न रक्षितुं प्रशक्तास्ते मृत्युस्तस्य भविष्यति | कृष्णप्रतिपदारभ्य यावत्स्याद्दशमी तिथिः || २१-१६ || मंत्रमुच्चार्य देवेशि शत्रुदेशे जलं क्षिपेत् | गृहीत्वाञ्जलिना नीरं शत्रुदेशे क्षिपेज्जलम् || २१-१७ || मारयेच्छत्रुसङ्घातं नात्र कार्या विचारणा | शत्रुनाम समुच्चार्य मनुना परदेवते || २१-१८ || अष्टोत्तरशतं जप्त्वा शत्रुनाशो भवेद्धृवम् | देवानां बृहतीपुष्पैर्मूलेन नियतव्रतः || २१-१९ || उपचारै षोडशभिर्माषनैवेद्यमर्पयेत् | कार्यं विज्ञाप्य प्रजपेच्छत्रुनाशो भविष्यति || २१-२० || इति संक्षेपतः प्रोक्तं वार्तायक्षीं शृणु प्रिये | प्रणवं वाग्भवं माया श्रीबीजं ज्योतिर्बीजकम् || २१-२१ || अङ्कुशं भृगुबीजं च मुखवृत्तं सबिन्दुकम् | चतृतीयं बिन्दुयुक्तं वीरमोदनमुद्धरेत् || २१-२२ || आग्नेयी पदमुद्धृत्य महावीरे पदं वदेत् | सर्वभावपदं प्रोच्य दर्शनीति पदं वदेत् || २१-२३ || उक्त्वा नन्दनवनपदं वासिनीतिपदं वदेत् | महासुप्तपदं प्रोच्य जागरिणीपदं वदेत् || २१-२४ || मम कर्णे दर्शयेति स्वाहान्तो मनुराडयम् | रविवारे पर्वणि वा तैलाभ्यङ्गं समाचरेत् || २१-२५ || प्. १४४) अयुतं प्रजपेन्मन्त्रं तिलपुष्पेण होमयेत् | अपराह्णे सहस्रं च त्वष्टोत्तरशतं च वा || २१-२६ || जप्त्वा सुप्ते नरे रात्रौ सर्वं कथयति प्रिये | त्रैकाल्यज्ञानसिद्ध्यर्थं करिष्येऽहं जपं तव || २१-२७ || इति सङ्कल्पमासाद्य जपात्त्रैकाल्यमाप्नुयात् | इहाफलं फलं चैव पराफलं च आफलम् || २१-२८ || जानामि इति सम्प्रोच्य सिद्धमंत्रो नरो भवेत् | ऋषिच्छन्दादिकं ध्यानं नास्ति चास्याः प्रियंवदे || २१-२९ || इति संक्षेपतः प्रोक्तं पिशुनस्य मनुं शृणु | श्रींबीजं चापरां प्रोच्य शतरुद्रपदं वदेत् || २१-३० || सौ प्रस्तांगीपदं प्रोच्य ततः सफलशब्दतः | वार्तां कहपदं प्रोच्य ततः कर्णपदं वदेत् || २१-३१ || पिशुनाख्यपदं प्रोच्य मायास्वाहान्वितो मनुः | मंत्रराजः समाख्यातः सहस्रेण पुरस्क्रिया || २१-३२ || सहदेव ऋषिश्चास्य अनुष्टुप् च्छन्द ईरितम् | श्रीमत्कर्णाख्यपिशुनो महालक्ष्मी च देवता || २१-३३ || वाग्भवं बीजमाख्यातं शक्तिः स्यात्कामबीजकम् | पराबीजं कीलकं स्यान्मम शब्दं समुच्चरेत् || २१-३४ || सकलेति पदं प्रोच्य रहस्यपदमुद्धरेत् | वाग्विज्ञानार्थेति पदं विनियोगः प्रकीर्त्तितः || २१-३५ || ह्रीं षट्कैश्च षडङ्गानि व्याहृत्या दिग्विबन्धनम् | अनेन क्रमयोगेन पिशुनः सर्वसिद्धिदः || २१-३६ || इति संक्षेपतः प्रोक्तं किरातपदपूर्विकाम् | वाराहीं शृणु देवेशि सावधानमना भव || २१-३७ || वाग्भवं बीजमुद्धृत्य वाराहीबीजमुद्धरेत् | श्रीबीजं च ततस्तारं नमो भगवतीति वै || २१-३८ || वाराहीपदमुद्धृत्य वराहमुखि चोद्धरेत् | किरातरूपिणि प्रोच्य एकरात्रिपदं वदेत् || २१-३९ || प्. १४५) प्रसन्नेपदमुद्धृत्य वरदेपदमुद्धरेत् | मम कार्यपदं प्रोच्य सिद्धिं कुरुयुग्मं वदेत् || २१-४० || श्रीबीजं स्तंभबीजं च वाग्बीजं स्वाहयान्वितम् | विभीतकं समानीय तस्य मज्जां समाहरेत् || २१-४१ || तद्भस्माञ्जनमासाद्य कज्जलं नेत्रयोर्ददेत् | रात्रौ धूपं ततो दत्त्वा प्रजपेत्परमेश्वरि || २१-४२ || प्रसन्ना भवति क्षिप्रं नात्र कार्या विचारणा | स्वप्नवाराहिवत्सर्वं शृणुष्व कालवादिनीम् || २१-४३ || प्रणवं भुवनां लक्ष्मीं वाग्बीजं कामबीजकम् | संवर्तरतिसंयुक्तं बिन्दुयुक्तं समुद्धरेत् || २१-४४ || प्रणवं हृदयं प्रोच्य ततो भगवति पदम् | भूतमुद्धृत्य देवेशि भविष्यमुद्धरेत्ततः || २१-४५ || वर्तमानपदं प्रोच्य तदन्ते कालवादिनि | प्रपञ्चपदमुद्धृत्य शरीरिणिपदं वदेत् || २१-४६ || सहशब्दं समुद्धृत्य अमुकं मे वदेत्ततः | कार्यं कथयेति प्रोच्य पुनर्बीजानि चोद्धरेत् || २१-४७ || अयुतं प्रजपेन्मन्त्रं दशांशं हवनं चरेत् | आकर्षणार्थे देवेशि भानुवारे यथाविधि || २१-४८ || रात्रौ तु शयनात्पूर्वं सहस्रं प्रजपेच्छिवे | अष्टोत्तरशतं वापि शयीत तदनन्तरम् || २१-४९ || तत्स्वप्ने चिंतितं कार्यं देवता कथयेद्ध्रुवम् | नामादिदर्शनं तत्र द्रष्टव्यं विधिपूर्वकम् || २१-५० || यस्य या चिन्तिता शक्तिः सप्तद्वारा भविष्यति | इति संक्षेपतः प्रोक्तं शृणु धूमावतीविधिम् || २१-५१ || धू/बीज त्रितयं प्रोच्य धुरुयुग्मं समुच्चरेत् | धूमावतिपदं प्रोच्य क्रों स्वाहा फट् समन्वितः || २१-५२ || मंत्रः प्राथमिकः प्रोक्तो द्वितीयं शृणु सादरम् | प्रणवं धूम्रबीजं च धूमावतिपदं वदेत् || २१-५३ || प्. १४६) देवदत्तो धावतीति स्वाहान्तो मनुराडयम् | ऋषिः क्षपणकः ख्यातो गायत्रं च्छन्द ईरितम् || २१-५४ || धूमावती देवता च धू/बीजं बीजमीरितम् | स्वाहा शक्तिः समुच्चाटे विनियोगः प्रकीर्त्तितः || २१-५५ || धू/षट्कैस्तु षडङ्गानि ध्यानं शृणु वरानने | काकारूढातिकृष्णाभा भिन्नदन्ता विरागिणी || २१-५६ || मुक्तकेशी सुधूम्राक्षी क्षुत्तृषार्ता भयातुरा | चंचला चातिकामार्ता क्लिष्टा पुष्टालसाङ्गिका || २१-५७ || मलिना श्रमनीरक्ता व्यक्तगर्भा विरोधिनी | धृतसर्पाग्रहस्ता च ध्येया धूमावती परा || २१-५८ || लक्षं जपेन्महेशानि जगदुच्चाटनं चरेत् | सर्वतंत्रे प्रयुक्तत्त्वादत्र संक्षेपतो मता | मंत्रांतरत्वात्कथिता किमन्यच्छ्रोतुमिच्छसि || २१-५९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे तृतीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे धूमावतीकौतुकसंक्षेपविधिर्नामैकविंशतितमः पटलः || २१ || || सुन्दरीखण्डः || ########### END OF FILE #######